ลลิตวิสตระ

ลลิตวิสตระเป็นคัมภีร์ของนิกายสรวาสติวาทและคัมภีร์ศักดิ์สิทธิ์ที่สุดในฝ่ายมหายาน ว่าด้วยเรื่องพุทธประวัติ
( ตัวอย่างปริวรรต แสดงเฉพาะอัธยายที่ ๒๖ ธรรมจักรประวรรตนปริวรรต)

เลือกชนิดตัวอักษรที่จะทำการเปรียบเทียบ

คลิกที่คำจะทำเครื่องหมายเน้นสี เพื่อทำการเปรียบเทียบ


       

เทวนาครี

  1. नमः सर्वबुद्धबोधिसत्त्वेभ्यः।
  2. ललितविस्तरः।
  3. नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितसर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यः॥
  4. ............
  5. २६ ॥धर्मचक्रप्रवर्तनपरिवर्तः षड्‍विंशः॥
  6. अथ खलु भिक्षवस्तथागतः कृतकृत्यः कृतकरणीयः सर्वबन्धनसमुच्छिन्नः सर्वक्लेशोद्धृतो निर्वान्तमलक्लेशो निहतमारप्रत्यर्थिकः सर्वबुद्धधर्मनयानुप्रविष्टः सर्वज्ञः सर्वदर्शी दशबलसमन्वागतश्चतुर्वैशारद्यप्राप्तोऽष्टादशावेणिकबुद्धधर्मप्रतिपूर्णः पञ्चचक्षुःसमन्वागतोऽनावरणेन बुद्धचक्षुषा सर्वावन्तं लोकमवलोक्यैवं चिन्तयति स्म-कस्मा अयमहं सर्वप्रथमं धर्मं देशयेयम्? कतमः सत्त्वः शुद्धः स्वाकारः सुविनेयः सुविज्ञापकः सुविशोधको मन्दरागदोषमोहोऽपरोक्षविज्ञानो योऽश्रुतवान् धर्मस्य परिहीयते? तस्मायहं सर्वप्रथमं धर्मं देशयेयम्, यश्च मे धर्मं देशितमाजानीयान्न मां विहेठयेत्॥
  7. अथ खलु भिक्षवस्तथागतस्यैतदभूत्-रुद्रकः खलु रामपुत्रः शुद्धः स्वाकारः सुविज्ञापकः सुविशोधको मन्दरागमोहोऽपरोक्षविज्ञानः। सोऽश्रवणाद्धर्मस्य परिहीयते। श्रावकेभ्यो नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति। कुत्रासावेतर्हि प्रतिवसतीत्याज्ञासीत्। अद्य सप्ताहकालगत इति। देवता अपि तथागतस्य चरणयोर्निपत्यैवमाहुः-एवमेतद्भगवन्, एवमेतत्सुगत, अद्य सप्ताहकालगतो रुद्रको रामपुत्रः। तस्य मे भिक्षव एतदभूत्-महाहानिर्वर्तते रुद्रकस्य रामपुत्रस्य, इममेव सुप्रणीतं धर्ममश्रुत्वा कालगतः। सचेदसाविमं धर्ममश्रोष्यदाज्ञास्यत्। तस्मै चाहं प्रथमं धर्म देशयिष्यम्, मां व्यहेठयिष्यत्॥
  8. पुनरपि भिक्षवस्तथागतस्यैतदभुत्-कोऽन्यः सत्त्वः शुद्धः सुविनेयः पूर्ववद्यावन्न धर्मदेशनां विहेठयेदिति। ततो भिक्षवस्तथागतस्यैतदभवत्-अयं खल्वप्याराडः कालापः शुद्धो यावन्न मे धर्मदेशनां विहेठयेदिति। समन्वाहरति स्म भिक्षवस्तथागतः कुत्रासावेतर्हीति। समन्वाहरंश्चाज्ञासीदद्य त्रीण्यहानि कालगतस्येति। शुद्धावासकायिका अपि देवता एनमर्थं तथागतस्यारोचयन्ति स्म-एवमेतद्भगवन्, एवमेतत्सुगत। अद्य त्र्यहं कालगतस्याराडस्य कालापस्य। ततस्तथागतस्यैतदभवत्-महाहानिर्वर्तते अराडस्य कालापस्य, इममेवं सुप्रणीतं धर्ममश्रुत्वा कालगत इति॥
  9. पुनरपि भिक्षवस्तथागतस्यैतदभूत्-कः खल्वन्यः सत्त्वः शुद्धः स्वाकारो यावन्न मे धर्मदेशनां विहेठयेदिति॥
  10. अथ खलु भिक्षवस्तथागतस्यैतदभवत्-ते खलु पञ्चका भद्रवर्गीयाः शुद्धाः स्वाकाराः सुविज्ञापकाः सुविशोधका मन्दरागदोषमोहा अपरोक्षविज्ञानाः। तेऽश्रवणाद्धर्मस्य परिहीयन्ते। तैश्चाहं दुष्करचर्यां चरन्नुपस्थितोऽभूवम्। ते मया धर्मं देशितमाज्ञास्यन्ति, मे विहेठयिष्यन्ति॥
  11. अथ खलु भिक्षवस्तथागतस्यैतदभवत्-यन्न्वहं पञ्चकेभ्यो भद्रवर्गीयेभ्यः प्रथमं धर्मं देशयेयम्॥
  12. अथ खलु भिक्षवस्तथागतस्य पुनरेतदभवत्-कस्मिन्नेतर्हि पञ्चका भद्रवर्गीयाः प्रतिवसन्ति? अथ तथागतः सर्वावन्तं लोकं बुद्धचक्षुषा व्यवलोकयन् पश्यति स्म। अद्राक्षीत्पञ्चकान् भद्रवर्गीयान् वाराणस्यां विहरत ऋषिपतने मृगदावे। दृष्ट्वा तथागतस्यैतदभवत्-यन्न्वहं पञ्चकेभ्यो भद्रवर्गीयेभ्यः सर्वप्रथमं धर्मं देशयेयम्। ते हि मम सर्वप्रथमं धर्मं देशितमाज्ञास्यन्ति। तत्कस्य हेतोः? चरिताविनो हि ते भिक्षवः सुपरिपण्डितशुक्लधर्माणो मोक्षमार्गाभिमुखा निबन्धापनीताः॥
  13. अथ खलु भिक्षवस्तथागत एवमनुविचिन्त्य बोधिमण्डादुत्थाय त्रिसाहस्रमहासाहस्रं लोकधातुं संप्रकम्प्यानुपूर्वेण मगधेषु चर्यां चरन् काशिषु जनपदेषु चारिकां प्रक्रामत्। अथ गयायां बोधिमण्डस्य चान्तरादन्यतम आजीवकोऽद्राक्षीत्तथागतं दूरत एवागच्छन्तम्। दृष्ट्वा पुनर्येन तथागतस्तेनोपजगाम। उपेत्यैकान्तेऽस्थात्। एकान्ते स्थितश्च भिक्षव आजीवकस्तथागतेन सार्धं विविधां संमोदनीं कथां कृत्वा एवमाह-विप्रसन्नानि ते आयुष्मन् गौतम इन्द्रियाणि। परिशुद्धः पर्यवदातः पीतनिर्भासश्च ते छविवर्णः तद्यथापि नाम शारदं कालं पाण्डुरवर्णं प्रभास्वरं पीतनिर्भासं भवति, एवमेव भवतो गौतमस्य परिशुद्धानीन्द्रियाणि परिशुद्धं मुखमण्डलं पर्यवदातम्। तद्यथापि नाम तालफलस्य पक्वस्य समनन्तरवृन्तच्युतस्य बन्धनाश्रयः पीतनिर्भासो भवति परिशुद्धः पर्यवदातः, एवमेव भवतो गौतमस्य परिशुद्धानीन्द्रियाणि परिशुद्धं मुखमण्डलं पर्यवदातम्। तद्यथापि नाम जाम्बूनदवर्णनिष्कः उल्कामुखप्रकृष्टो दक्षिणकर्मारपुत्रेण सुपरिकर्मकृतः पाण्डुकम्बलोपनिक्षिप्तो वर्णवान् भवति परिशुद्धः पर्यवदातः पीतनिर्भासोऽतीव प्रभास्वरः, एवमेव भवतो गौतमस्य विप्रसन्नानीन्द्रियाणि, परिशुद्धस्त्वग्वर्णः, पर्यवदातं मुखमण्डलम्। कस्मिन्नायुष्मन् गौतम ब्रह्मचर्यमुष्यते? एवमुक्ते भिक्षवस्तथागतस्तमाजीवकं गाथया प्रत्यभाषत—
  14. आचार्यो हि मे कश्चित्सदृशो मे विद्यते।
  15. एकोऽहमस्मि संबुद्धः शीतीभूतो निराश्रवः॥१॥
  16. सोऽवोचत्-अर्हं खलु गौतममात्मानं प्रातिजानीषे। तथागतोऽवोचत्—
  17. अहमेवारहं लोके शास्ता ह्यहमनुत्तरः।
  18. सदेवासुरगन्धर्वे नास्ति मे प्रतिपुद्गलः॥२॥
  19. सोऽवोचत्-जिनं खलु गौतम मात्मानं प्रतिजानीषे। तथागतोऽवोचत्—
  20. जिना हि मादृशा ज्ञेया ये प्राप्ता आश्रवक्षयम्।
  21. जिता मे पापका धर्मास्तेनोपग जिनो ह्यहम्॥३॥
  22. सोऽवोचत्-क्व तर्ह्यायुष्मन् गौतम गमिष्यसि? तथागतोऽवोचत्—
  23. वाराणसीं गमिष्यामि गत्वा वै काशिनां पुरीम्।
  24. अन्धभूतस्य लोकस्य कर्तास्म्यसदृशां प्रभाम्॥४॥
  25. वाराणसीं गमिष्यमि गत्वा वै काशिनां पुरीम्।
  26. शब्दहीनस्य लोकस्य ताडयिष्येऽमृतदुन्दुभिम्॥५॥
  27. वाराणसीं गमिष्यामि गत्वा वै काशिनां पुरीम्।
  28. धर्मचक्रं प्रवर्तिष्ये लोकेष्वप्रतिवर्तितम्॥६॥
  29. तद्भविष्यसि गौतम इत्युक्त्वा आजीवको दक्षिणामुखः प्राक्रामत्। तथागतोऽप्युत्तरामुखः प्राक्रामत्॥
  30. इति हि भिक्षवस्तथागतो गयायां सुदर्शनेन नागराजेन निमन्त्रितोऽभुत् वासेन भक्तेन च। ततस्तथागतो रोहितवस्तुमगमत्, तस्मादुरुबिल्वाकल्पं तस्मादणालमगमत्, ततः सारथिपुरम्। एषु सर्वेषु भिक्षवस्तथागतो गृहपतिभिर्भक्तेन वासेन चोपनिमन्त्र्यमाणोऽनुपूर्वेण गङ्गाया नद्यास्तीरमुपागमत्॥
  31. तेन खलु पुनर्भिक्षवः समयेन गङ्गा महानदी सुपरिपूर्णा समतीर्थका वहति स्म॥
  32. अथ खलु भिक्षवस्तथागतो नाविकसमीपमुपागमत्पारसंतरणाय। प्राह-प्रयच्छ गौतम तरपण्यम्। मेऽस्ति मार्ष तरपण्यमित्युक्त्वा तथागतो विहायसा पथा तीरात्परं तीरमगमत्। ततः नाविकस्तं दृष्ट्वातीव विप्रतिसार्यभुत्-एवंविधो दक्षिणीयो मया तारित इति। हा कष्टमिति कृत्वा मूर्छितः पृथिव्यां पतितः। तत एनां प्रकृतिं नाविको राज्ञे बिम्बिसाराय आरोचयामास-श्रमणः स्वामि गौतमस्तरपण्यं याचमानो नास्ति तरपण्यमित्युक्त्वा विहायसा अतस्तीरात्परं तीरं गत इति। तच्छ्रुत्वा तदग्रेण राज्ञा बिम्बिसारेण सर्वप्रव्रजितानां तरपण्यमुत्सृष्टमभवत्॥
  33. इति हि भिक्षवस्तथागतोऽनुपूर्वेण जनपदचर्यां चरन् येन वाराणसी महानगरी तेनोपसंक्रामत्। उपसंक्रम्य काल्यमेव निवास्य पात्रचीवरमादाय वाराणसीं महानगरीं पिण्डाय प्राविक्षत्। तस्यां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रप्रतिक्रान्तः येन ऋषिपतनो मृगदावो येन पञ्चका भद्रवर्गीयास्तेनोपसंक्रामति स्म। अद्राक्षुः खलु पुनः पञ्चका भद्रवर्गीयास्तथागतं दूरत एवागच्छन्तम्। दृष्ट्वा क्रियाबन्धमकार्षुः-एष आयुष्मन्तः श्रमणो गौतम आगच्छति स्म शैथिलिको बाहुलिकः प्रधानविभ्रष्टः। अनेन खल्वपि तयापि तावत्पूर्विकया दुष्करचर्यया शकितं किंचिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम्। किं पुनरेतर्हि औदारिकमाहारमाहरन् सुखल्लिकायोगमनुयुक्तो विहरन्। अभव्यः खल्वेष शैथिलिको बाहुलिकः। नास्य केनचित्प्रत्युद्गन्तव्यं प्रत्युत्थातव्यम्। पात्रचीवरं प्रतिग्रहीतव्यं नाशनं दातव्यं पानीयं परिभोग्यं पादप्रतिष्ठानं स्थापयित्वातिरिक्तान्यासनानि। वक्तव्यं च-संविद्यन्त इमान्यायुष्मन् गौतम अतिरिक्तान्यासनानि। सचेदाकाङ्क्षसि निषीदेति। आयुष्मांस्त्वाज्ञानकौण्डिन्यश्चित्तेनाधिवासयति स्म। वाचा प्रतिक्षिपति स्म। यथा यथा भिक्षवस्तथागतो येन पञ्चका भद्रवर्गीयास्तेनोपसंक्रामति स्म, तथा तथा ते स्वकस्वकेष्वासनेषु रमन्ते स्म, उत्थातुकामा अभूवन्। तद्यथापि नाम पक्षी शकुनिः पञ्जरगतः स्यात्, तस्य पञ्जरगतस्याधोऽग्निर्दग्धो भवेत्। सोऽग्निसंतप्तस्त्वरितमूर्ध्वमुत्पतितुकामो भवेत् प्रत्रेतुकामश्च, एवमेव यथा यथा तथागतः पञ्चकानां भद्रवर्गीयाणां सकाशमुपसंक्रामति स्म, तथा तथा पञ्चका भद्रवर्गीयाः स्वकस्वकेष्वासनेषु रमन्ते स्म, उत्थातुकामा अभूवन्। तत्कस्मात्? कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यस्तथागतं दृष्ट्वा आसनान्न प्रत्युत्तिष्ठेत्। यथा यथा तथागतः पञ्चकान् भद्रवर्गीयानुपसंक्रामति स्म, तथा तथा पञ्चका भद्रवर्गीयास्तथागतस्य श्रियं तेजश्चासहमाना आसनेभ्यः प्रकम्प्यमानाः सर्वे क्रियाकारं भित्त्वा चोत्थायासनेभ्यः, कश्चित्प्रत्युद्गच्छति स्म, कश्चित्प्रत्युद्गम्य पात्रचीवरं प्रतिगृह्णाति स्म। कश्चिदासनमुपनामयति स्म। कश्चित्पादप्रतिष्ठापनं कश्चित्पादप्रक्षालनोदकमुपस्थापयति स्म। एवं चावोचत्-स्वागतं ते आयुष्मन् गौतम, स्वागतं ते आयुष्मन् गौतम्। निषीदेदमासनं प्रज्ञप्तम्। न्यषीदत्खल्वपि भिक्षवस्तथागतः प्रज्ञप्त एवासने। पञ्चका पि भद्रवर्गीयास्ते तथागतेन सार्धं विविधां संमोदनीं संरञ्जनीं कथां कृत्वैकान्ते निषेदुः। एकान्ते निषण्णाश्च ते पञ्चका भद्रवर्गीयास्तथागतमेतदवोचन्-विप्रसन्नानि ते आयुष्मन् गौतमेन्द्रियाणि, परिशुद्धश्छविवर्ण इति हि सर्वं पूर्ववत्। तदस्ति ते आयुष्मन् गौतम कश्चिदुत्तरिमनुष्यधर्मांदलमार्यज्ञानदर्शनविशेषः साक्षात्कृतः? एवमुक्ते भिक्षवस्तथागतः पञ्चकान् भद्रवर्गीयानेवमाह-मा यूयं भिक्षवस्तथागतमायुष्मद्वादेन समुदाचरिष्ट। मा वो भूद्दीर्घरात्रमर्थाय हिताय सुखाय। अमृतं मया भिक्षवः साक्षात्कृतोऽमृतगामी मार्गः। बुद्धोऽहमस्मि भिक्षवः सर्वज्ञः सर्वदर्शी शीतीभूतोऽनाश्रवः। वशी सर्वधर्मेषु। धर्ममहं भिक्षवो देशयिष्यामि, आशु गच्छत शृणुत प्रतिपद्यध्वम्। श्रोतमवदधत अहमववदाम्यनुशास्मि। यथा मया सम्यगववदिताः सम्यगनुशिष्टा यूयमप्याश्रवाणां चेतोविमुक्तं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे साक्षात्कृत्वोपसंपद्य प्रवेदयिष्यथ-क्षीणा नो जातिरुषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरमित्यतोऽन्यद्भवं प्रजानाम इति। ननु युष्माकं भिक्षव एतदभूत्-अयं खल्वायुष्मन्त आगच्छति श्रमणो गौतमः शैथिलिको बाहुलिकः प्रधानविभ्रष्ट इति पूर्ववत्। सचेदाकाङ्क्षसि निषीदेति। तेषां एहि भिक्षव इत्युक्ते यत्किंचित्तीर्थिकलिङ्गं तीर्थिकध्वजः, सर्वोऽसौ तत्क्षणमेवान्तरघात्। त्रिचीवरं पात्रं प्रादुरभूत्, तदनु छिन्नाश्च केशाः। तद्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथः संवृत्तोऽभुत्। सैव तेषां प्रव्रज्याभूत्सैवोपसंपद्भिक्षुभावः॥
  34. अथ खलु भिक्षवस्तस्यां वेलायां पञ्चका भद्रवर्गीया भिक्षवस्तथागतस्य चरणयोर्निपत्यात्ययं देशयन्ति स्म। तथागतस्यान्तिके शास्तृसंज्ञां प्रेमं प्रसादं गौरवं चोत्पादयन्ति स्म। गौरवजाताश्च बहुविचित्रपुष्करिण्यां तथागतस्य स्नानपरिकर्म कुर्वन्ति स्म। स्नानप्रत्युत्तीर्णस्य भिक्षवस्तथागतस्यैतदभवत्-कस्मिन् खलु पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्निषद्य धर्मचक्रं प्रवर्तितम्? यस्मिंश्च भिक्षवः पृथिवीप्रदेशे पूर्वकैस्तथागतैरर्हद्भिर्धर्मचक्रं प्रवर्तितमभूत्, अथ तस्मिन् पृथिवीप्रदेशे सप्तरत्नमयमासनसहस्रं प्रादुरभूत्॥
  35. अथ तथागतः पूर्वकाणां तथागतानां गौरवेण त्रीण्यासनानि प्रदक्षिणीकृत्य सिंह इव निर्भीश्चतुर्थ आसने पर्यङ्कमाभुज्य निषीदति स्म। पञ्चका अपि भिक्षवस्तथागतस्य पादौ शिरोभिरभिवन्द्य तथागतस्य पुरतो निषेदुः॥
  36. अथ खलु भिक्षवस्तस्यां वेलायां तथारूपां कायात्प्रभां तथागतः प्रामुञ्चद्यया प्रभया अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्महतावभासेन स्फुटोऽभूत्। तेन चावभासेन या अपि लोकान्तरिका अघा अघस्फुटा अन्धकारतमिस्रा यत्रेमौ चन्द्रसूर्यौ एवंमहर्द्धिकावेवं महानुभावावेवं महेशाख्यौ आभया आभां वर्णेनं वर्णं तेजसा तेजो नाभितपतो नाभिविरोचतः। तत्र ये सत्त्वा उपपन्नास्ते स्वकस्वकमपि बाहुं प्रसारितं पश्यन्ति स्म, तत्रापि तस्मिन् समये महत उदारस्यावभासस्य लोके प्रादुर्भावोऽभुत्। ये तत्र सत्त्वा उपपन्नास्ते तेनावभासेन परिस्फुटाः समाना अन्योन्यं पश्यन्ति स्म। अन्योन्यं संजानन्ते स्म। एवं चाहुः-अन्येऽपि किल भोः सत्त्वा इहोपपन्नाः, अन्येऽपि किल भोः सत्त्वा इहोपपन्नाः इति। अयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्‍विकारमष्टादशमहानिमित्तमभूत्-अकम्पत् प्राकम्पत् संप्राकम्पत्। अवेधत् प्रावेधत् संप्रावेधत्। अचलत् प्राचलत् संप्राचलत्। अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्। अरणत् प्रारणत् संप्रारणत्। अगर्जत् प्रागर्जत् संप्रागर्जत्। अन्तेऽवनमति स्म, मध्ये उन्नमति स्म। मध्येऽवनमति स्म अन्ते उन्नमति स्म। पूर्वस्यां दिश्यवनमति स्म, पश्चिमायां दिश्युन्नमति स्म। पश्चिमायां दिश्यवनमति स्म, पूर्वस्यां दिश्युन्नमति स्म। दक्षिणस्यां दिश्यवनमति स्म, उत्तरस्यां दिश्युन्नमति स्म। उत्तरस्यां दिश्यवनमति स्म, दक्षिणस्यां दिश्युन्नमति स्म। तस्मिंश्च समये हर्षणीयास्तोषणीयाः प्रेमणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया निर्वर्णनीया अप्रतिवर्णनीया असेचनीया अप्रतिकूला अनुत्त्रासकराः शब्दाः श्रूयन्ते स्म। कस्यचित्सत्त्वस्य तस्मिन् क्षणे विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वाभूत्। भूयः सूर्यचन्द्रमसोर्न शक्रब्रह्मलोकपालानां तस्मिन् क्षणे प्रभाः प्रज्ञायन्ते स्म। सर्वनरकतिर्यग्योनियमलोकोपपन्नाश्च सत्त्वास्तस्मिन् क्षणे विगतदुःखा अभुवन् सर्वसुखसमर्पिताः। कस्यचित्सत्त्वस्य रागो बाधते स्म, द्वेषो वा मोहो वा ईर्ष्या वा मात्सर्यं वा मानो वा म्रक्षो वा मदो वा क्रोधो वा व्यापादो वा परिदाहो वा। सर्वसत्त्वास्तस्मिन् क्षणे मैत्रचित्ताः हितचित्ताः परस्परं मातापितृसंज्ञिनोऽभूवन्। ततश्च प्रभाव्यूहादिमा गाथा निश्चरन्ति स्म—
  37. योऽसौ तुषितालयाच्च्युत्वा ओक्रान्तु मातुकुक्षौ हि।
  38. जातश्च लुम्बिनिवने प्रतिगृहीतः शचीपतिना॥७॥
  39. यः सिंहविक्रमगतिः सप्तपदा विक्रमी असंमूढः।
  40. ब्रह्मस्वरामथ गिरं प्रमुमोच जगत्यहं श्रेष्ठः॥८॥
  41. चतुरो द्वीपांस्त्यक्त्वा प्रव्रजितः सर्वसत्त्वहितहेतोः।
  42. दुष्करतपश्चरित्वा उपागमद्येन महिमण्डः॥९॥
  43. सबलं निहत्य मारं बोधिप्राप्तो हिताय लोकस्य।
  44. वाराणसीमुपगतो धर्मचक्रं प्रवर्तयिता॥१०॥
  45. सब्रह्मणा सह सुरैरध्येष्टो वर्तयस्व शमचक्रम्।
  46. अधिवासितं मुनिना लोके कारुण्यमुत्पाद्य॥११॥
  47. सोऽयं दृढप्रतिज्ञो वाराणसिमुपगतो मृगदावम्।
  48. चक्रं ह्यनुत्तरमसौ प्रवर्तयितात्यद्भुतं श्रीमान्॥१२॥
  49. यः श्रोतुकामु धर्मं यः कल्पनयुतैः समार्जितु जिनेन।
  50. शीघ्रमसौ त्वरमाणो आगच्छतु धर्मश्रवणाय॥१३॥
  51. दुरवाप्यं मानुष्यं बुद्धोत्पादः सुदुर्लभा श्रद्धा।
  52. श्रेष्ठं धर्मश्रवणं अष्टाक्षणविवर्जन दुरापाः॥१४॥
  53. प्राप्ताश्च तेऽद्य सर्वे बुद्धोत्पादः क्षणस्तथा श्रद्धा।
  54. धर्मश्रवणश्च वरः प्रमादमखिलं विवर्जयत॥१५॥
  55. भवति कदाचिदवस्था यः कल्पनयुतैर्न श्रूयते धर्मः।
  56. संप्राप्तः वाद्य प्रमादमखिलं विवर्जयत॥१६॥
  57. भौमादीन् देवगणान् संचोदयती ब्रह्मपर्यन्ताम्।
  58. आयात लघुं सर्वे वर्तयिता नायको ह्यमृतचक्रम्॥१७॥
  59. संचोदिताश्च महता देवघोषेण तत्क्षणं सर्वे।
  60. त्यक्त्वा देवसमृद्धिं प्राप्ता बुद्धस्य ते पार्श्वे॥१८॥
  61. इति हि भिक्षवो भौमैदेवैर्वाराणस्यां ऋपिपतने मृगदावे धर्मचक्रप्रवर्तनार्थं तथागतस्य महामण्डलमात्रोऽधिष्ठितोऽभूत् चित्रो दर्शनीयो विपुलो विस्तीर्णः सप्तयोजनशतान्यायामो विस्तारेण। उपरिष्टाश्च देवैश्छत्रध्वजपताकावितानसमलंकृतं गगनतलं समलंकृतमभूत्। कामावचरै रूपावचरैश्च देवपुत्रैश्चतुरशीतिसिंहासनशतसहस्राणि तथागतायोपनामितान्यभूवन्-इह निषद्य भगवान् धर्मचक्रं प्रवर्तयतु अस्माकमनुकम्पामुपादायेति॥
  62. अथ खलु भिक्षवस्तस्मिन् समये पूर्वदक्षिणपश्चिमोत्तराभ्यो दिग्भ्य ऊर्ध्वमधः समन्ताद्दशभ्यो दिग्भ्यो बहवो बोधिसत्त्वकोट्यः पूर्वप्रणिधानसमन्वागता आगत्य तथागतस्य चरणयोर्निपत्य धर्मचक्रप्रवर्तनायाध्येषन्ते स्म। ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ शक्रो वा ब्रह्मा वा लोकपाला वा तदन्ये वा महेशाख्यमहेशाख्या देवपुत्रास्तेऽपि सर्वे तथागतस्य चरणयोः शिरोभिः प्रणिपत्य तथागतमध्येषन्ते स्म धर्मचक्रप्रवर्तनाय-प्रवर्तयतु भगवान् धर्मचक्रम्, प्रवर्तयतु सुगतो धर्मचक्रं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां मनुष्याणां च। यजस्व भगवन् धर्मयज्ञम्, प्रवर्ष महाधर्मवर्षम्, उच्छ्रेपय महाधर्मध्वजम्, प्रपूरय महाधर्मशङ्खम्, प्रताडय महाधर्मदुन्दुभिम्॥
  63. तत्रेदमुच्यते।
  64. त्रिसहस्र इतो बहु ब्रह्म सुरेश्वर पाल तथा
  65. उपगम्य जिनस्य क्रमेभि निपत्य उदाहरिषु।
  66. स्मर पूर्वप्रतिज्ञां महामुनि या त्वय वाच कृता
  67. अहु ज्येष्ठु विशिष्टु प्रजाय करिष्ये दुखस्य क्षयम्॥१९॥
  68. त्वय धर्षितु मारू ससैन्यु द्रुमेन्द्रि स्थिहित्व मुने
  69. वरबोधि विबुद्ध सुशान्ति निपातित क्लेशद्रुमाः।
  70. अभिप्रायु प्रपूर्ण अशेष चिन्तित कल्पशता
  71. जनतां प्रसमीक्ष्य अनायिक वर्तय चक्रवरम्॥२०॥
  72. सुगतस्य प्रभाय प्रभासित क्षेत्रसहस्रशता
  73. बहवः शतबुद्धसुताश्च उपागत ऋद्धिबलैः।
  74. विविधां सुगतस्य करित्वन पूज महानिचयां
  75. स्तवयिंसु तथागतु भूतगुणेभि अध्येषितु कारुणिकम्॥२१॥
  76. करुणाघन विद्युतप्रज्ञ विपश्यन वायुसमा
  77. अभिगर्जितु कल्पसहस्र निमन्त्रितु सर्वजगत्।
  78. अष्टाङ्गिकमार्गजलो धर वर्ष समेहि जगस्य तृषां
  79. बल‍इन्द्रियध्यानविमोक्ष विवर्धय सस्यधनम्॥२२॥
  80. बहुकल्पसहस्र सुशिक्षितु शून्यतत्त्व स्थिता
  81. समुदानितु धर्मजु भेषजु जानितु सत्त्वचरी।
  82. जनता इय व्याधिशतेभि उपद्रुत क्लेशगणैः
  83. जिनवैद्य प्रमोचय वर्तय धर्मचक्रवरम्॥२३॥
  84. षडि पारमिते चिररात्रु विवर्धितु कोशु त्वया
  85. असमं तु अचाल्यु प्रणीतु सुसंचितु धर्मधनम्।
  86. प्रज सर्व अनाथ दरिद्र अनायिक दृष्ट्व इमां
  87. विचरं धन सप्त विनायक चक्र प्रवर्तयही॥२४॥
  88. धनधान्य हिरण्यसुवर्ण तथैव वस्त्र शुभा
  89. वर पुष्प विलेपन धूपन चूर्ण गृहाश्च वराः।
  90. अन्तःपुर राज्य प्रियात्मज त्यक्त प्रहर्षयतो
  91. जिन बोधि गवेषत सातिविबुद्ध प्रवर्तय चक्रवरम्॥२५॥
  92. तथ शीलु अखण्डु अकल्मषु रक्षितु कल्पशतां
  93. सद क्षान्ति सुभावित वीर्य अलीनु अभूषि तव।
  94. वर ध्यान अभिज्ञ विपश्यन प्रज्ञ उपेक्ष मुने
  95. परिपूर्ण मनोरथ निर्ज्वर वर्तय चक्रवरम्॥२६॥
  96. अथ खलु भिक्षवः सहचित्तोत्पादधर्मचक्रप्रवर्ती नाम बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां चक्रं सर्वरत्नप्रत्युप्तं सर्वरत्नप्रशोभितं नानारत्नालंकारव्यूहविभूषितं सहस्रारं सहस्ररश्मि सनाभिकं सनेमिकं सपुष्पदामं सहेमजालं सकिङ्किणीजालं सगन्धहस्तं सपूर्णकुम्भं सनन्दिकावर्तं सस्वस्तिकालंकृतं नानारङ्गरक्तदिव्यवस्त्रोपशोभितं दिव्यपुष्पगन्धमाल्यविलेपनानुलिप्तं सर्वाकारवरोपेतं तथागताय धर्मचक्रप्रवर्तनाय पूर्वप्रणिधानाभिनिर्हृतं बोधिसत्त्वाशयविशोधितं तथागतपूजार्हं सर्वतथागतसमन्वाहृतं सर्वबुद्धाधिष्ठानाविलोपितं पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः प्रत्येषितं प्रवर्तितपूर्वं धर्मचक्रमुपनामयति स्म। उपनाम्य कृताञ्जलिपुटस्तथागतमाभिर्गाथाभिरभ्यष्टावीत्—
  97. दीपंकरेण यद व्याकृतु शुद्धसत्त्वो
  98. बुद्धो भविष्यसि हि त्वं नरसिंहसिंहः।
  99. तस्मिं समासि प्रणिधी इयमेवरूपा
  100. संबोधिप्राप्तु अहु धर्म अध्येषयेयम्॥२७॥
  101. शक्य सर्वि गणनाय अनुप्रवेष्टुं
  102. ये आगता दशदिशेभिरिहाग्रसत्त्वाः।
  103. अध्येषि शाक्यकुलनन्दन धर्मचक्रे
  104. प्रह्वा कृताञ्जलिपुटाश्चरणौ निपत्य॥२८॥
  105. या बोधिमण्डि प्रकृता सुरैर्वियूहा
  106. या वा वियूह कृत सर्वजिनात्मजेभिः।
  107. सा सर्व संस्थित वियूह ति धर्मचक्रे
  108. परिपूर्णकल्प भणमानु क्षयं गच्छेत्॥२९॥
  109. त्रिसहस्रि लोकि गगनं स्फुट देवसंघैः
  110. धरणीतलं असुरकिन्नरमानुषैश्च।
  111. उत्कासशब्दु नपि श्रूयति तन्मुहूर्तं
  112. सर्वि प्रसन्नमनसो जिनमभ्युदीक्षन्॥३०॥
  113. इति हि भिक्षवस्तथागतो रात्र्याः प्रथमे यामे तूष्णीभावेनाधिवासयति स्म। रात्र्या मध्यमे यामे संरञ्जनीयां कथां प्रवर्तयति स्म। रात्र्याः पश्चिमे यामे पञ्चकान् भद्रवर्गीयानामन्त्र्यैतदवोचत् - द्वाविमौ भिक्षवः प्रव्रजितस्यान्तावक्रमौ। यश्च कामेषु कामसुखल्लिका योगो हीनो ग्राम्यः पार्थग्जनिको नालमार्योऽनर्थोपसंहितो नायत्यां ब्रह्मचर्याय निर्विदे विरागाय निरोधाय नाभिज्ञाय संबोधये निर्वाणाय संवर्तते। या चेयममध्यमा प्रतिपदा आत्मकायक्लमथानुयोगो दुःखोऽनर्थोपसंहितो दृष्टधर्मदुःखश्चायत्यां दुःखविपाकः। एतौ भिक्षवो द्वावन्तावनुपगम्य मध्यमयैव प्रतिपदा तथागतो धर्मं देशयति-यदुत सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरिति। चत्वारीमानि भिक्षव आर्यसत्यानि। कतमानि चत्वारि? दुःखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी प्रतिपत्। तत्र कतमद् दुःखम्? जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि अप्रियसंप्रयोगोऽपि प्रियविप्रयोगोऽपि दुःखम्। यदपि इच्छन् पर्येषमाणो लभते तदपि दुःखम्। संक्षेपात् पञ्चोपादानस्कधा दुःखम्। इदमुच्यते दुःखम्। तत्र कतमो दुःखसमुदयः? येयं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी अयमुच्यते दुःखसमुदयः। तत्र कतमो दुःखनिरोधः? योऽस्या एव तृष्णायाः पुनर्भविक्या नन्दीरागसहगतायास्तत्रतत्राभिनन्दिन्या जनिकाया निर्वर्तिकाया अशेषो विरागो निरोधः अयं दुःखनिरोधः। तत्र कतमा दुःखनिरोधगामिनी प्रतिपत्? एष एवार्याष्टाङ्गमार्गः। तद्यथा। सम्यग्दृष्टिर्यावत्सम्यक्समाधिरिति। इदमुच्यते दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति। इमानि भिक्षवश्चत्वार्यार्यसत्यानि। इति दुःखमिति मे भिक्षवः पुर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं विद्योत्पन्ना भूरिरुत्पन्ना मेघोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादुर्भूतः। अयं दुःखसमुदय इति मे भिक्षवः पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं विद्योत्पन्ना भूरिरुत्पन्ना मेघोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादुर्भूतः। अयं दुःखनिरोध इति मे भिक्षवः सर्वं पूर्ववद्यावदालोकः प्रादुर्भूतः। इयं दुःखनिरोधगामिनी प्रतिपदिति मे भिक्षवः पूर्ववदेव पेयालं यावदालोकः प्रादुर्भूतः। यत्खल्विदं दुःखं परिज्ञेयमिति मे भिक्षवः पूर्ववदेव पेयालं यावदालोकः प्रादुर्भूतः। खल्वयं दुःखसमुदयः प्रहातव्य इति मे भिक्षवः पूर्वमश्रतेषु धर्मेषु सर्वं यावदालोक इति। खल्वयं दुःखनिरोधः साक्षात्कर्तव्य इति मे भिक्षवः पूर्ववद्यावदालोक इति। सा खल्वियं दुःखनिरोधगामिनी प्रतिपद्भावयितव्येति पूर्ववद्यावदालोक इति। तत्खल्विदं दुःखं परिज्ञातमिति मे भिक्षवः पूर्वमश्रतेषु इति पेयालम्। खल्वयं दुःखसमुदयः प्रहीण इति मे भिक्षवः पूर्वमश्रुतेति पेयालम्। खल्वयं दुःखनिरोधः साक्षात्कृत इति मे भिक्षवः पूर्वमश्रुतेति पेयालम्। सा खल्वियं दुःखनिरोधगामिनी प्रतिपद्भावितेति मे भिक्षवः पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुत्पन्नं चक्षुरुत्पन्नं भूरिरुत्पन्ना विद्योत्पन्ना मेधोत्पन्ना प्रज्ञोत्पन्ना आलोकः प्रादूर्भूतः॥
  114. इति हि भिक्षवो यावदेव मे एषु चतुर्ष्वार्यसत्येषु योनिशो मनसि कुर्वतो एवं त्रिपरिवर्तं द्वादशाकारं ज्ञानदर्शनमुत्पद्यते, तावदहं भिक्षवोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मि इति प्रतिज्ञासिषम्। मे ज्ञानदर्शनमुत्पद्यते। यतश्च मे भिक्षव एषु चतुर्ष्वार्यसत्येष्वेवं त्रिपरिवर्तं द्वादशाकारं ज्ञानदर्शनमुत्पन्नम्, अकोप्या मे चेतोविमुक्तिः, प्रज्ञाविमुक्तिश्च साक्षात्कृता, ततोऽहं भिक्षवोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽस्मि इति प्रतिज्ञासिषम्। ज्ञानदर्शनं मे उदपादि। क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरस्माद्भवं प्रजानामि॥
  115. तत्रेदमुच्यते।
  116. वाचाय ब्रह्मरुत किन्नरगर्जिताय
  117. अंशैः सहस्रनयुतेभि समुद्गताय।
  118. बहुकल्पकोटि सद सत्यसुभाविताय
  119. कौण्डिन्यमालपति शाक्यमुनिः स्वयंभूः॥३१॥
  120. चक्षुरनित्यमध्रुवं तथ श्रोत घ्राणं
  121. जिह्वा पि काय मन दुःखा अनात्म शून्या।
  122. जडास्वभाव तृणकुड्म इवा निरीहा
  123. नैवात्र आत्म नरो जीवमस्ति॥३२॥
  124. हेतुं प्रतीत्य इमि संभुत सर्वधर्मा
  125. अत्यन्तदृष्टिविगता गगनप्रकाशा।
  126. कारकोऽस्ति तथ नैव वेदकोऽस्ति
  127. कर्म पश्यति कृतं ह्यशुभं शुभं वा॥३३॥
  128. स्कन्धा प्रतीत्य समुदेति हि दुःखमेवं
  129. संभोन्ति तृष्ण सलिलेन विवर्धमाना।
  130. मार्गेण धर्मसमताय विपश्यमाना
  131. अत्यन्तक्षीण क्षयधर्मतया निरुद्धाः॥३४॥
  132. संकल्पकल्पजनितेन अयोनिशेन
  133. भवते अविद्य पि संभवकोऽस्य कश्चि।
  134. संस्कारहेतु ददते संक्रमोऽस्ति
  135. विज्ञानमुद्भवति संक्रमणं प्रतीत्य॥३५॥
  136. विज्ञान नाम तथ रूप समुत्थितास्ति
  137. नामे रूपि समुदेन्ति षडिन्द्रियाणि।
  138. षडिन्दियैर्निपतितो इति स्पर्श उक्तः
  139. स्पर्शेन तिस्र अनुवर्तति वेदना च॥३६॥
  140. यत्किंचि वेदयितु सर्व सतृष्ण उक्ता
  141. तृष्णात सर्व उपजायति दुःखस्कन्धः।
  142. उपादानतो भवति सर्व भवप्रवृत्तिः
  143. भवप्रत्यया समुदेति हि जातिरस्य॥३७॥
  144. जातीनिदान जरव्याधिदुखानि भोन्ति
  145. उपपत्ति नैक विविधा भवपञ्जरेऽस्मिन्।
  146. एवमेष सर्व इति प्रत्ययतो जगस्य
  147. आत्म पुद्गलु संक्रमकोऽस्ति कश्चि॥३८॥
  148. यस्मिन्न कल्पु विकल्पु योनिमाहुः
  149. यद्योनिशो भवति तत्र अविद्य काचि।
  150. यस्मिन्निरोधु भवतीह अविद्यतायाः
  151. सर्वे भवाङ्ग क्षयक्षीण क्षयं निरुद्धा॥३९॥
  152. एवमेष प्रत्ययत बुद्ध तथागतेन
  153. तेन स्वयंभु स्वकमात्मनु व्याकरोति।
  154. स्कन्ध आयतन धातु वदेमि बुद्धं
  155. नान्यत्र हेत्ववगमाद्भवतीह बुद्धः॥४०॥
  156. भूमिर्न चात्र परतीर्थिक निःसृतानां
  157. शून्या प्रवादि इह ईदृश धर्मयोगे।
  158. ये पूर्वबुद्धचरिता सुविशुद्धसत्त्वाः
  159. ते शक्नुवन्ति इमि धर्म विजाननाय॥४१॥
  160. एवं हि द्वादशाकारं धर्मचक्रं प्रवर्तितम्।
  161. कौण्डिन्येन आज्ञातं निर्वृत्ता रतना त्रयः॥४२॥
  162. बुद्धो धर्मश्च संघश्च इत्येतद्रतनत्रयम्।
  163. परस्परां गतः शब्दो यावद् ब्रह्मपुरालयम्॥४३॥
  164. वर्तितं विरजं चक्रं लोकनाथेन तायिना।
  165. उत्पन्ना रतना त्रीणि लोके परमदुर्लभा॥४४॥
  166. कौण्डिन्यं प्रथमं कृत्वा पञ्चकाश्चैव भिक्षवः।
  167. षष्टीनां देवकोटीनां धर्मचक्षुर्विशोधितम्॥४५॥
  168. अन्ये चाशीतिकोट्यस्तु रूपधातुकदेवताः।
  169. तेषां विशोधितं चक्षु धर्मचक्रप्रवर्तने॥४६॥
  170. चतुरशीतिसहस्राणि मनुष्याणां समागता।
  171. तेषां विशोधितं चक्षु मुक्ता सर्वेभि दुर्गती॥४७॥
  172. दशदिशतु अनन्त बुद्धस्वरो गच्छि तस्मिं क्षणे
  173. रुत मधुर मनोज्ञ संश्रूयन्ते चान्तरीक्षे शुभ।
  174. एष दशबलेन शाक्यर्षिणा धर्मचक्रोत्तमं
  175. ऋषिपतनमुपेत्य वाराणसी वर्तितो नान्यथा॥४८॥
  176. दश दिशित यि केचि बुद्धशता सर्वि तूष्णीभुताः
  177. तेष मुनिनये उपस्थायकाः सर्वि पृच्छी जिनां।
  178. किमिति दशबलेभि धर्माकथा छिन्न श्रुत्वा रूतं
  179. साधु भणत शीघ्र किं कारणं तूष्णीभावेन स्थिताः॥४९॥
  180. पुर्वभवशतेभि वीर्याबलै बोधि समुदानिया
  181. बहव शतसहस्र पश्चान्मुखा बोधिसत्त्वा कृताः।
  182. तेन हितकरेण उत्तप्तता प्राप्त बोधिः शिवा
  183. चक्र त्रिपरिवर्त प्रावर्तिता तेन तूष्णीभुताः॥५०॥
  184. इमु वचन श्रुणित्व तेषां मुनीसत्त्वकोट्यः शता
  185. मैत्रबल जनित्व संप्रस्थिता अग्रबोधिं शिवाम्।
  186. वयमपि अनुशिक्षि तस्या मुने वीर्यस्थामोद्गतं
  187. क्षिप्र भवेम लोकि लोकोत्तमा धर्मचक्षुर्ददाः॥५१॥इति॥
  188. अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-इमे भगवन् दशदिग्लोकधातुसंनिपतिता बोधिसत्त्वा महासत्त्वा भगवतः सकाशाद्धर्मचक्रप्रवर्तनविकुर्वणस्य प्रवेशं श्रोतुकामाः। तत्साधु भगवान् देशयतु तथागतोऽर्हन् सम्यक्संबुद्धः कियद्रूपं तथागतेन धर्मचक्रं प्रवर्तितम्? भगवानाह-गम्भीरं मैत्रेय धर्मचक्रं ग्राहानुपलब्धित्वात्। दुर्दर्शं तच्चक्रं द्वयविगतत्वात्। दुरनुबोधं तच्चक्रं मनसिकारामनसिकारत्वात्। दुर्विज्ञानं तच्चक्रं ज्ञानविज्ञानसमतानुबद्धत्वात्। अनाविलं तच्चक्रं अनावरणविमोक्षप्रतिलब्धत्वात्। सूक्ष्मं तच्चक्रं अनुपमोपन्यासविगतत्वात्। सारं तच्चक्रं वज्रोपमज्ञानप्रतिलब्धत्वात्। अभेद्यं तच्चक्रं पूर्वान्तसंभवत्वात्। अप्रपञ्चं तच्चक्रं सर्वप्रपञ्चोपारम्भविगतत्वात्।
  189. अकोप्यं तच्चक्रं अत्यन्तनिष्ठत्वात्। सर्वत्रानुगतं तच्चक्रं आकाशसदृशत्वात्। तत्खलु पुनर्मैत्रेय धर्मचक्रं सर्वधर्मप्रकृतिस्वभावं संदर्शनविभवचक्रं अनुत्पादानिरोधासंभवचक्रं अनालयचक्रं अकल्पाविकल्पधर्मनयविस्तीरणचक्रं शून्यताचक्रं अनिमित्तचक्रं अप्रणिहितचक्रं अनभिसंस्कारचक्रं विवेकचक्रं विरागचक्रं विरोधचक्रं तथागतानुबोधचक्रं धर्मधात्वसंभेदचक्रम्। भूतकोट्यविकोपनचक्रं असङ्गानावरणचक्रं प्रतीत्यावतारोभयान्तदृष्टिसमतिक्रमणचक्रं अनन्तमध्यधर्मधात्वविकोपनचक्रं अनाभोगबुद्धकार्यप्रतिप्रश्रब्धचक्रं अप्रवृत्यभिनिर्वृत्तिचक्रं अत्यन्तानुपलब्धिचक्रं अनायूहानिर्यूहचक्रं अनभिलाप्यचक्रं प्रकृतियथावच्चक्रं एकविषयसर्वधर्मसमतावतारचक्रं अक्षणसत्त्वविनयाधिष्ठानप्रत्युदावर्त्यचक्रं अद्वयसमारोपपरमार्थनयप्रवेशचक्रं धर्मधातुसमवसरणचक्रम्। अप्रेमयं तच्चक्रं सर्वप्रमाणातिक्रान्तम्। असंख्येयं तच्चक्रं सर्वसंख्यापगतम्। अचिन्त्यं तच्चक्रं चित्तपथसमतिक्रान्तम्। अतुल्यं तच्चक्रं तुलापगतम्। अनभिलाप्यं तच्चक्रं सर्वरुतघोषवाक्पथातीतम्। अप्रमाणमनुपममुपमागतमाकाशसमसदृशमनुच्छेदमशाश्वतं प्रतीत्यावताराविरुद्धशान्तमत्यन्तोपशमं तत्त्वं तथावितथानन्यथानन्यथीभावं सर्वसत्त्वरुतचरणम्। निग्रहो माराणां पराजयस्तीर्थिकानां समतिक्रामणं संसारविषयादवतारणं बुद्धविषये परिज्ञातमार्यपुद्गलैरनुबद्धं प्रत्येकबुद्धैः परिगृहीतं बोधिसत्त्वैः स्तुतं सर्वबुद्धैरसंभिन्नं सर्वतथागतैः। एवंरूपं भैत्रेय तथागतेन धर्मचक्रं प्रवर्तितं यस्य प्रवर्तनात्तथागत इत्युच्यते। सम्यक्संबुद्ध इत्युच्यते। स्वयंभूरित्युच्यते। धर्मस्वामीत्युच्यते। नायक इत्युच्यते। विनायक इत्युच्यते। परिणायक इत्युच्यते। सार्थवाह इत्युच्यते। सर्वधर्मवशवर्तीत्युच्यते। धर्मेश्वर इत्युच्यते। धर्मचक्रप्रवर्तीत्युच्यते। धर्मदानपतिरित्युच्यते। यज्ञस्वामीत्युच्यते। सुयष्टयज्ञ इत्युच्यते। सिद्धिव्रत इत्युच्यते। पूर्णाभिप्राय इत्युच्यते। देशिक इत्युच्यते। आश्वासक इत्युच्यते। क्षेमंकर इत्युच्यते। शूर इत्युच्यते। रणंजह इत्युच्यते। विजितसंग्राम इत्युच्यते। उच्छ्रितछत्रध्वजपताक इत्युच्यते। आलोककर इत्युच्यते। प्रभंकर इत्युच्यते। तमोनुद इत्युच्यते। उल्काधारीत्युच्यते। महावैद्यराज इत्युच्यते। भूतचिकित्सक इत्युच्यते। महाशल्यहर्ता इत्युच्यते। वितिमिरज्ञानदर्शन इत्युच्यते। समन्तदर्शीत्युच्यते। समन्तविलोकित इत्युच्यते। समन्तचक्षुरित्युच्यते। समन्तप्रभ इत्युच्यते। समन्तालोक इत्युच्यते। समन्तमुख इत्युच्यते।
  190. समन्तप्रभाकर इत्युच्यते। समन्तचन्द्र इत्युच्यते। समन्तप्रासादिक इत्युच्यते। अप्रतिष्ठानायूहानिर्यूह इत्युच्यते। धरणीसम इत्युच्यते अनुन्नतावनतत्वात्। शैलेन्द्रसम इत्युच्यते अप्रकम्प्यत्वात्। सर्वलोकश्रीरित्युच्यते सर्वलोकगुणसमन्वागतत्वात्। अनवलोकितमूर्ध इत्युच्यते सर्वलोकाभ्युद्गतत्वात्। समुद्रकल्प इत्युच्यते गम्भीरदुरवगाहत्वात्। धर्मरत्नाकर इत्युच्यते सर्वबोधिपाक्षिकधर्मरत्नप्रतिपूर्णत्वात्। वायुसम इत्युच्यते अनिकेतत्वात्। असङ्गबुद्धिरित्युच्यते असक्ताबद्धामुक्तचित्तत्वात्। अवैवर्तिकधर्म इत्युच्यते सर्वधर्मनिर्वेधिकज्ञानत्वात्। तेजःसम इत्युच्यते दुरासदसर्वमननाप्रहीणसर्वक्लेशदाहप्रत्युपस्थानत्वात्। अप्सम इत्युच्यते अनाविलसंकल्पनिर्मलकायचित्तवाहितपापत्वात्। आकाशसम इत्युच्यते असङ्गज्ञानविषयानन्तमध्येधर्मधातुगोचरज्ञानाभिज्ञप्राप्तत्वात्। अनावरणज्ञानविमोक्षविहारीत्युच्यते नानावरणीयधर्मसुप्रहीणत्वात्। सर्वधर्मधातुप्रसृतकाय इत्युच्यते गगनसमचक्षुःपथसमतिक्रान्तत्वात्। उत्तमसत्त्व इत्युच्यते सर्वलोकविषयासंक्लिष्टत्वात्। असङ्गसत्त्व इत्युच्यते। अप्रमाणबुद्धिरित्युच्यते। लोकोत्तरधर्मदेशिक इत्युच्यते। लोकाचार्य इत्युच्यते। लोकवैद्य इत्युच्यते। लोकाभ्युद्गत इत्युच्यते। लोकधर्मानुपलिप्त इत्युच्यते। लोकनाथ इत्युच्यते। लोकज्येष्ठ इत्युच्यते। लोकश्रेष्ठ इत्युच्यते। लोकेश्वर इत्युच्यते। लोकमहित इत्युच्यते। लोकपरायण इत्युच्यते। लोकपारंगत इत्युच्यते। लोकप्रदीप इत्युच्यते। लोकोत्तर इत्युच्यते। लोकगुरुरित्युच्यते। लोकार्थकर इत्युच्यते। लोकानुवर्तक इत्युच्यते। लोकविदित्युच्यते। लोकाधिपतेयप्राप्त इत्युच्यते। महादक्षिणीय इत्युच्यते। पूजार्ह इत्युच्यते। महापुण्यक्षेत्र इत्युच्यते। महासत्त्व इत्युच्यते। अग्रसत्त्व इत्युच्यते। वरसत्त्व इत्युच्यते। प्रवरसत्त्व इत्युच्यते। उत्तमसत्त्व इत्युच्यते। अनुत्तरसत्त्व इत्युच्यते। असमसत्त्व इत्युच्यते। असदृशसत्त्व इत्युच्यते। सततसमाहित इत्युच्यते। सर्वधर्मसमताविहारीत्युच्यते। मार्गप्राप्त इत्युच्यते। मार्गदर्शक इत्युच्यते। मार्गदेशिक इत्युच्यते। सुप्रतिष्ठितमार्ग इत्युच्यते। मारविषयसमतिक्रान्त इत्युच्यते। मारमण्डलविध्वंसकर इत्युच्यते। अजरामरशीतीभाव इत्युच्यते। विगततमोन्धकार इत्युच्यते। विगतकण्टक इत्युच्यते। विगतकाङ्क्ष इत्युच्यते। विगतक्लेश इत्युच्यते। विनीतसंशय इत्युच्यते। विमतिसमुद्धटित इत्युच्यते। विरक्त इत्युच्यते। विमुक्त इत्युच्यते। विशुद्ध इत्युच्यते। विगतराग इत्युच्यते। विगतदोष इत्युच्यते। विगतमोह इत्युच्यते। क्षीणाश्रव इत्युच्यते। निःक्लेश इत्युच्यते। वशीभूत इत्युच्यते। सुविमुक्तचित्त इत्युच्यते। सुविमुक्तप्रज्ञ इत्युच्यते। आजानेय इत्युच्यते। महानाग इत्युच्यते। कृतकृत्य इत्युच्यते। कृतकरणीय इत्युच्यते। अपहृतभार इत्युच्यते। अनुप्राप्तस्वकार्थ इत्युच्यते। परिक्षीणभवसंयोजन इत्युच्यते। समताज्ञानविमुक्त इत्युच्यते। सर्वचेतोवशिपरमपारमिताप्राप्त इत्युच्यते। दानपारग इत्युच्यते। शीलाभ्युद्गत इत्युच्यते। क्षान्तिपारग इत्युच्यते। वीर्याभ्युद्गत इत्युच्यते। ध्यानाभिज्ञप्राप्त इत्युच्यते। प्रज्ञापारंगत इत्युच्यते। सिद्धप्रणिधान इत्युच्यते। महामैत्रविहारीत्युच्यते।
  191. महाकरुणाविहारीत्युच्यते। महामुदिताविहारीत्युच्यते। महोपेक्षाविहारीत्युच्यते। सत्त्वसंग्रहप्रयुक्त इत्युच्यते। अनावरणप्रतिसंवित्प्राप्त इत्युच्यते। प्रतिशरणभूत इत्युच्यते। महापुण्य इत्युच्यते। महाज्ञानीत्युच्यते। स्मृतिमतिगतिबुद्धिसंपन्न इत्युच्यते। स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गसमर्थविदर्शनालोकप्राप्त इत्युच्यते। उत्तीर्णसंसारार्णव इत्युच्यते। पारग इत्युच्यते। स्थलगत इत्युच्यते। क्षेमप्राप्त इत्युच्यते। अभयप्राप्त इत्युच्यते। मर्दितक्लेशकण्टक इत्युच्यते। पुरुष इत्युच्यते। महापुरुष इत्युच्यते। पुरुषसिंह इत्युच्यते। विगतभयलोमहर्षण इत्युच्यते। नाग इत्युच्यते। निर्मल इत्युच्यते। त्रिमलमलप्रहीण इत्युच्यते। वेदक इत्युच्यते। त्रैविद्यानुप्राप्त इत्युच्यते। चतुरोघोत्तीर्ण इत्युच्यते। पारग इत्युच्यते। क्षत्रिय इत्युच्यते। ब्राह्मण इत्युच्यते। एकरत्नछत्रधारीत्युच्यते। वाहितपारधर्म इत्युच्यते। भिक्षुरित्युच्यते। भिन्नाविद्याण्डकोश इत्युच्यते। श्रमण इत्युच्यते। अर्थसङ्गपथसमतिक्रान्त इत्युच्यते। श्रोत्रिय इत्युच्यते। निःसृतक्लेश इत्युच्यते। बलवानित्युच्यते। दशबलधारीत्युच्यते। भगवानित्युच्यते। भावितकाय इत्युच्यते। राजातिराज इत्युच्यते। धर्मराज इत्युच्यते। वरप्रवरधर्मचक्रप्रवर्त्यनुशासक इत्युच्यते। अकोप्यधर्मदेशक इत्युच्यते। सर्वज्ञज्ञानाभिषिक्त इत्युच्यते। असङ्गमहाज्ञानविमलविरुक्तपट्टबद्ध इत्युच्यते। सप्तबोध्यङ्गरत्नसमन्वागत इत्युच्यते। सर्वधर्मविशेषप्राप्त इत्युच्यते। सर्वार्यश्रावकामात्यावलोकितमुखमण्डल इत्युच्यते। बोधिसत्त्वमहासत्त्वपुत्रपरिवार इत्युच्यते। सुविनीतविनय इत्युच्यते। सुव्याकृतबोधिसत्त्व इत्युच्यते। वैश्रवणसदृश इत्युच्यते। सप्तार्यधनविश्राणितकोश इत्युच्यते। त्यक्तत्याग इत्युच्यते। सर्वसुखसंपत्तिसमन्वागत इत्युच्यते। सर्वाभिप्रायदातेत्युच्यते। सर्वलोकहितसुखानुपालक इत्युच्यते। इन्द्रसम इत्युच्यते। ज्ञानबलवज्रधारी इत्युच्यते। समन्तनेत्र इत्युच्यते। सर्वधर्मानावरणज्ञानदर्शीत्युच्यते। समन्तज्ञानविकुर्वण इत्युच्यते। विपुलधर्मनाटकदर्शनप्रविष्ट इत्युच्यते। चन्द्रसम इत्युच्यते। सर्वजगदतृप्तदर्शन इत्युच्यते। समन्तविपुलविशुद्धप्रभ इत्युच्यते। प्रीतिप्रामोद्यकरप्रभ इत्युच्यते। सर्वसत्त्वाभिमुखदर्शनाभास इत्युच्यते। सर्वजगच्चित्ताशयभाजनप्रतिभासप्राप्त इत्युच्यते। महाव्यूह इत्युच्यते। शैक्षाशैक्षज्योतिर्गणपरिवार इत्युच्यते। आदित्यमण्डलसम इत्युच्यते। विधूतमोहान्धकार इत्युच्यते। महाकेतुराज इत्युच्यते। अप्रमाणानन्तरश्मिरित्युच्यते। महावभाससंदर्शक इत्युच्यते। सर्वप्रश्नव्याकरणनिर्देशासंमूढ इत्युच्यते। महाविद्यान्धकारविध्वंसनकर इत्युच्यते। महाज्ञानालोकविलोकितबुद्धिनिर्विकल्प इत्युच्यते। महामैत्रीकृपाकरुणासर्वजगत्समरश्मिप्रमुक्तप्रमाणविषय इत्युच्यते।
  192. प्रज्ञापारमितागम्भीरदुरासददुर्निरीक्षमण्डल इत्युच्यते। ब्रह्मसम इत्युच्यते। प्रशान्तेर्यापथ इत्युच्यते। सर्वेर्यापथचर्याविशेषसमन्वागत इत्युच्यते। परमरूपधारी इत्युच्यते। असेचनकदर्शन इत्युच्यते। शान्तेन्द्रिय इत्युच्यते। शान्तमानस इत्युच्यते। शमथसंभारपरिपूर्ण इत्युच्यते। उत्तमशमथप्राप्त इत्युच्यते। परमदमशमथप्राप्त इत्युच्यते। शमथविदर्शनापरिपूर्णसंभार इत्युच्यते। गुप्तो जितेन्द्रियो नाग इव सुदान्तो ह्रद इवाच्छोऽनाविलो विप्रसन्न इत्युच्यते। सर्वक्लेशवासनावरणसुप्रहीण इत्युच्यते। द्वात्रिंशन्महापुरुषलक्षणसमन्वागत इत्युच्यते। परमपुरुष इत्युच्यते। अशीत्यनुव्यञ्जनपरिवारविचित्ररचितगात्र इत्युच्यते। पुरुषर्षभ इत्युच्यते। दशबलसमन्वागत इत्युच्यते। चतुर्वैशारद्यप्राप्तानुत्तरपुरुषदम्यसारथिरित्युच्यते। शास्तेत्युच्यते। अष्टादशावेणिकबुद्धधर्मपरिपूर्ण इत्युच्यते। अनिन्दितकायवाङ्मनस्कर्मान्त इत्युच्यते। सर्वाकारवरोपेतसुपरिशोधितज्ञानदर्शनमण्डलत्वाच्छून्यताविहारीत्युच्यते। प्रतीत्यसमुत्पादसमताभिसंबोधादानिमित्तविहारीत्युच्यते। परमार्थसत्यनयप्रतिवेधादप्रणिहितविहारीत्युच्यते। सर्वप्रस्थानालिप्तत्वादनभिसंस्कारगोचर इत्युच्यते। सर्वसंस्कारप्रतिप्रश्रब्धत्वाद्भूतवादीत्युच्यते। भूतकोट्यविकोपितज्ञानविषयत्वादवितथानन्यथावादीत्युच्यते। तथताधर्मधात्वाकाशलक्षणालक्षणविषयत्वादरण्यधर्मसुप्रतिलब्ध इत्युच्यते। मायामरीचिस्वप्नोदकचन्द्रप्रतिश्रुत्कप्रतिभाससमतासर्वधर्मविहारित्वादमोघदर्शनश्रवण इत्युच्यते।
  193. परिनिर्वाणहेतुजनकत्वादमोघपदविक्रमीत्युच्यते। सत्त्वविनयपराक्रमविक्रान्तत्वादुत्क्षिप्तपरिखेद इत्युच्यते। अविद्याभवतृष्णासमुच्छिन्नत्वात्स्थापितसंक्रम इत्युच्यते। नैर्याणिकप्रतिपत्सुदेशकत्वान्निर्जितमारक्लेशप्रत्यर्थिक इत्युच्यते। सर्वमारविषयचर्याननुलिप्तत्वादुत्तीर्णकामपङ्क इत्युच्यते। कामधातुसमतिक्रान्तत्वात्पातितमानध्वज इत्युच्यते। रूपधातुसमतिक्रान्तत्वादुच्छ्रितप्रज्ञाध्वज इत्युच्यते। आरुप्यधातुसमतिक्रान्तत्वात्सर्वलोकविषयसमतिक्रान्त इत्युच्यते। धर्मकायज्ञानशरीरत्वान्महाद्रुम इत्युच्यते। अनन्तगुणरत्नज्ञानसंकुसुमितविमुक्तिफलसुसंपन्नत्वादुदुम्बरपुष्पसदृश इत्युच्यते। दुर्लभप्रादुर्भावदर्शनत्वाच्चिन्तामणिरत्नमणिराजसम इत्युच्यते। यथानयनिर्वाणभिप्रायसुप्रतिपूरणत्वात्सुप्रतिष्ठितपाद इत्युच्यते। दीर्घरात्रं त्यागशीलतपोव्रतब्रह्मचर्यदृढसमादानाचलाप्रकम्प्यत्वाद्विचित्रस्वस्तिकनन्द्यावर्तसहस्राचक्राङ्कितपादतल इत्युच्यते। दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयधार्मिकरक्षापरिपालनतया शरणागतानां चापरित्यागत्वादायतपार्ष्णिरित्युच्यते। दीर्घरात्रं प्राणातिपातोपरतत्वाद्दीर्घाङ्गुलीत्युच्यते। दीर्घरात्रं प्राणातिपातवैरमण्यंपरसत्त्वसमादायनत्वाद्बहुजनत्रातेत्युच्यते। दीर्घरात्रं प्राणातिपातवैरमण्यंगुणवर्णसंप्रकाशनत्वान्मृदुतरुणहस्तपाद इत्युच्यते। दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयोपस्थानपरिचर्यास्नानानुलेपनसर्पितैलाभ्यङ्गस्वहस्तशरीरपरिकर्मपरिखेदत्वाज्जालाङ्गुलीहस्तपाद इत्युच्यते। दीर्घरात्रं दानप्रियवद्यतार्थक्रियासमानार्थतासंग्रहवस्तुजालेन सत्त्वसंग्रहकौशल्यंसुशिक्षितत्वादुच्छङ्गपाद इत्युच्यते। दीर्घरात्रमुत्तरोत्तरि विशिष्टतरकुशलमूलाध्यालम्बनत्वादूर्ध्वाङ्गदक्षिणावर्तरोमकूप इत्युचते। दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयतथागतचैत्यप्रदक्षिणीकरणधर्मश्रवणचित्रीकाररोमहर्षणपरसत्त्वसंहर्षणधर्मदेशनाप्रयोगत्वादेणेयजङ्घ इत्युच्यते। दीर्घरात्रं सत्कृत्य धर्मश्रवणग्रहणधारणवाचनविज्ञापनार्थपदनिश्चयनिस्तीरणकौशल्येन जराव्याधिमरणाभिमुखानां सत्त्वानां शरणगमनानुप्रदानसत्कृत्यधर्मदेशनापरिभवबुद्धित्वात्कोशोपगतबस्तिगुह्य इत्युच्यते।
  194. दीर्घरात्रं श्रमणब्राह्मणानां तदन्येषां ब्रह्मचारिणां ब्रह्मचर्यानुग्रहसर्वपरिस्कारानुप्रदाननग्नबलानुप्रदानपरदारागमनब्रह्मचर्यगुणवर्णसंप्रकाशनह्र्यपत्राप्यानुपालनदृढसमादानत्वात्प्रलम्बबाहुरित्युच्यते। दीर्घरात्रं हस्तसंयतपादसंयतसत्त्वाविहेठनप्रयोगमैत्रकायकर्मवाक्कर्ममनस्कर्मसमन्वागतत्वान्न्यग्रोधपरिमण्डल इत्युच्यते। दीर्घरात्रं भोजनमात्रां ज्ञाता अल्पाहारतोदारसंयमग्लानभैषज्यानुप्रदानहीनजनापरिभवानाथानवमर्दनतथागतचैत्यविशीर्णप्रतिसंस्कारणस्तूपप्रतिष्ठापनत्वाद्भयार्दितेभ्यश्च सत्त्वेभ्योऽभयप्रदानत्वान्मृदुतरुणसूक्ष्मच्छविरित्युच्यते। दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां स्नानानुलेपनसर्पिस्तैलाभ्यङ्गशीते उष्णोदकमुष्णे शीतोदकच्छायातपऋतुसुखपरिभोगानुप्रदानमृदुतरुणतूलसंस्पर्शसुकुमारवस्त्रास्तीर्णशयनासनानुप्रदानतथागत-चैत्यगन्धतैलसेकसूक्ष्मपट्टध्वजपताकागुणप्रदानत्वात्सुवर्णच्छविरित्युच्यते। दीर्घरात्रं सर्वसत्त्वाप्रतिघातमैत्रीभावनायोगक्षान्तिसौरत्येपरसत्त्वसमादापनावैरव्यापादगुणवर्णसंप्रकाशनतया तथागतचैत्यतथागतप्रतिमानां सुवर्णखचनसुवर्णपुष्पसुवर्णचूर्णाभिकिरणसुवर्णवर्णपट्टपताकाध्वजालंकारसुवर्णभाजनसुवर्णवस्त्रानुप्रदानत्वादेकैकनिचितरोमकूप इत्युच्यते। दीर्घरात्रं पण्डितोपसंक्रमणकिंकुशलाकुशलपरिपृच्छनसावद्यानवद्यसेव्यहीनमध्यप्रणीतधर्मपरिपृच्छनार्थमीमांसनपरितुलनासंमोह-तथागतचैत्यकीटलूतालयाञ्जलियानिर्माल्यनानातृणशर्करासमुद्धरणसंप्रयोगत्वात्सप्तोत्सद इत्युच्यते। दीर्घरात्रं मातापितृज्येष्ठश्रेष्ठपूज्यश्रमणब्राह्मणकृपणवनीपकादिभ्य उपागतेभ्यः सत्कृत्य यथाभिप्रायमन्नपानासनवस्त्रापश्रयप्रदीपकल्पितजीविकपरिस्कारसंप्रदानकूपपुष्करिणीशीतजलपरीपूर्णमहाजनोपभोगानुप्रदान-
  195. त्वात्सिंहपूर्वार्धकाय इत्युच्यते। दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयावनमनप्रणमनाभिवादनाभयप्रदानदुर्बलापरिभवशरणागतापरित्यागदृढसर्गदानानुत्सर्गत्वाच्चितान्तरांस इत्युच्यते। दीर्घरात्रं स्वदोषपरितुलनप्रस्खलितपरछिद्रादोषदर्शनविवादमूलपरभेदकरमन्त्रपरिवर्जनसुप्रतिनिस्सर्गमन्त्रस्वारक्षितवाक्कर्मान्तत्वात्सुसंवृत्त- स्कन्ध इत्युच्यते। दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां प्रत्युत्थानप्रत्युद्रमनाभिवादनकामानां सर्वशास्त्रवैशारद्येन विवादकामसत्त्वनिग्रहस्वधर्मविनयानुलोमनसम्यक्प्रवृत्तराजामात्यसम्यक्प्रवृत्तकुशलधर्मपथप्रतिष्ठापनप्रभावनतथागतशासन-
  196. परिग्रहसंधारणसर्वकुशलचर्यासमादापन पूर्वंगमत्वात्सिंहहनुरित्युच्यते। दीर्घरात्रं सर्ववस्तुपरित्यागयथाभिप्राययाचनकप्रियाभिधानमुपसंक्रान्तानां चाविमाननाजिह्मीकरणाविक्षेपं सर्वेषां यथाभिप्रायपरिपूरणदानपरित्यागदृढसमादानानुत्सर्गत्वाच्चत्वारिंशत्समदन्त इत्युच्यते। दीर्घरात्रं पिशुनवचनपरिवर्जनभेदमन्त्राग्रहणसंधिसामग्रीरोचनसमग्राणां चेदाचित्तेन पिशुनवचनविगर्हणसंधिसामग्रीगुणवर्णप्रकाशनप्रयोगत्वात्सुशुक्लदन्त इत्युच्यते। दीर्घरात्रं कृष्णपक्षपरिवर्जनशुक्लपक्षकुशलोपचयकृष्णकर्मकृष्णविपाकपरिवर्जनशुक्लकर्मशुक्लविपाकसंवर्णनक्षीरभोजनशुक्लवस्त्रप्रदानतथागतचैत्येषु सुधाकृतकक्षीरमिश्रसंप्रदानसुमनावार्षिकीधानुस्कारिमालागुणपुष्पदामशुक्लवर्णकुसुमानुप्रदानत्वादविरलदन्त इत्युच्यते।
  197. दीर्घरात्रं हास्योच्चट्यनविवर्जनानन्दकरणवागनुरक्षणानन्दकरणवागुदीरणपरस्खलितापरछिद्रापरिमार्गणसर्वसत्त्वसमचित्तसमादापनसमप्रयोग- समधर्मदेशनदृढसमादानापरित्यागत्वाद्रसरसाग्रवानित्युच्यते। दीर्घरात्रं सर्वसत्त्वाविहेठनाविहिंसनविविधव्याधिस्पृष्टोपस्थानग्लानभैषज्यानुप्रदानत्वात्सर्वरसार्थिकेभ्यश्च सर्वरसप्रदानापरिखेदत्वाद्बह्मस्वर इत्युच्यते। दीर्घरात्रमनृतपरुषकर्कशशाठ्यपरकटुकपराभिषङ्गिन्यप्रियपरमर्भघट्टनवाक्परिवर्जनमैत्रीकरुणाप्रयोगमुदिताप्रामोद्यकरणी-स्निग्धममधुरश्लक्ष्णहृदयंगमसर्वेन्द्रियप्रह्लादकरणीसम्यग्वाक्यसम्यक्प्रयोगत्वादभिनीलनेत्र इत्युच्यते। दीर्घरात्रं मातापितृवत्सर्वसत्त्वाप्रतिहतचक्षुप्रयोगैकपुत्रवद्याचनकमैत्रीकारुण्यपूर्वंगमसंप्रेक्षणाजिह्मीकरणप्रसन्नेन्द्रियतथागत-चैत्यानिमिषनयनसंप्रेक्षणपरसत्त्वतथागतदर्शनसमादापनदृढसमादानत्वाद्गोपेक्षनेत्र इत्युच्यते। दीर्घरात्रं हीनचेतोविवर्जनोदारविपुलाधिमुक्तिपरिपूरणानुत्तरधर्मछन्दसत्त्वसमादापनभृकुटीमुखविवर्जनस्मितमुखसर्व- कल्याणमित्रोपसंक्रमणाभिमुखपूर्वंगमसर्वकुशलोपचयावैवर्तिकत्वाप्रभूतजिह्व इत्युच्यते। दीर्घरात्रं सर्ववाग्दोषविवर्जनसर्वश्रावकप्रत्येकबुद्धधर्मभाणकाप्रमाणगुणवर्णसंप्रकाशनतथागतसूत्रान्तलिखनवाचनपठनविज्ञापनं तेषां धर्माणामर्थपदप्रभेदपरसत्त्वसंप्रापणकौशल्यत्वादुष्णीषानवलोकितमूर्ध इत्युच्यते। दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां मूर्ध्नां चरणतलप्रणिपतनप्रव्रजितवन्दनाभिवादनकेशावरोपणसुगन्धतैलमूर्ध्निपरिषिञ्चनं सर्वयाचनकेभ्यश्चूर्णमाल्यमालागुणमूर्धाभरणानुप्रदानत्वाद् भ्रूमध्ये सुजातप्रदक्षिणावर्तोत्तप्तविशुद्धवर्णाभासोर्ण इत्युच्यते। दीर्घरात्रं निरर्गलसर्वयज्ञयजनसमादपनसर्वकल्याणमित्रानुशासन्यनुद्धरधर्मभाणकानां दौत्यप्रेक्षणे दिग्गमनागमनापरिखेदनसर्वबुद्धबोधिसत्त्वप्रत्त्येकबुद्धार्यश्रावकधर्मभाणकमातापितृगुरुदक्षिणीयतमोन्धकारविधमनतैल-धृततृणोल्काप्रदीपनानागन्धतैलप्रदीपसर्वाकारवरोपेतप्रासादिकतथागतप्रतिमाकारणक्षीरप्रतिभासरत्नोत्तीर्णकोशप्रतिमण्डन-
  198. परसत्त्वबोधचित्तामुखीकरणकुशलसंभारविशेषत्वान्महास्थामप्राप्त इत्युच्यते। महानारायणबलोपेतत्वान्महानारायण इत्युच्यते। कोटीशतमारधर्षणबलोपेतत्वात्सर्वपरप्रमर्दक इत्युच्यते। दशतथागतबलोपेतत्वाद्दशतथागतबलोपेत इत्युच्यते।
  199. स्थानास्थानज्ञानकुशलहीनप्रादेशिकयानविवर्जनमहायानगुणसमुदानयनबलोपेतातृप्तबलप्रयोगत्वात्स्थानज्ञानबलोपेत इत्युच्यते। अतीतानागतप्रत्युत्पन्नकर्मसमादानहेतुशोविपाकशोज्ञानबलोपेतत्वादतीतानागतप्रत्युत्पन्नसर्वकर्मसमादानहेतुविपाकज्ञानबलोपेत इत्युच्यते। सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेतत्वात्सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेत इत्युच्यते। अनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेतत्वादनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेत इत्युच्यते। अनेकाधिमुक्तिनानाधिमुक्तिनिरवशेषाधिमुक्तिविमुक्तिज्ञानबलोपेतत्वादनेकाधिमुक्तिनानाधिमुक्तिसर्वनिरवशेषाधिमुक्तिज्ञानबलोपेत इत्युच्यते। सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेतत्वात्सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेत इत्युच्यते। सर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्यवस्थापनज्ञानबलोपेतत्वासर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेश-व्यवदानव्यवस्थापनज्ञानबलोपेत इत्युच्यते। अनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेतत्वादनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेत इत्युच्यते। निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेतत्वान्निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेत इत्युच्यते। सर्वंवासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेतत्वात्सर्ववासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेत इत्युच्यते।
  200. निरवशेषसर्वधर्माभिसंबुद्धप्रतिज्ञारोहणसदेवलोकानभिभूतप्रतिज्ञावैशारद्यप्राप्तत्वान्निरवशेषसर्वधर्माभिसंप्रबुद्धतिज्ञारोहण-सदेवलोकेऽनभिभूतप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते। सर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येतितत्प्रतिज्ञारोहणसदेवके लोकेऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्तत्वासर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येति तत्प्रतिज्ञारोहणसदेवके लोकेऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते। नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोकेऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्तत्वान्नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोकेऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते। सवाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोकेऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्तत्वात्सर्वाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोकेऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते। अस्खलितपदधर्मदेशकत्वादस्खलितपदधर्मदेशक इत्युच्यते। अरुतानभिलाप्यधर्मस्वभावानुबुद्धत्वादरुतानभिलाप्यधर्मस्वभावानुबुद्ध इत्युच्यते। अविरतत्वादविरत इत्युच्यते।
  201. सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थत्वात्सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थ इत्युच्यते। अमुषितस्मृतित्वादमुषितस्मृतिरित्युच्यते। नानात्वसंज्ञाविगतत्वान्नानात्वसंज्ञाविगत इत्युच्यते। सर्वचित्तसमाहितसुमाहितसत्त्वात्सर्वचित्तसमाहितसुसमाहित इत्युच्यते। अप्रतिसंख्यासमुपेक्षकत्वादप्रतिसंख्यासमुपेक्षक इत्युच्यते। छन्दसंस्कारसमाध्यपरिहीनत्वाच्छन्दसंस्कारसमाध्यपरिहीन इत्युच्यते। वीर्यसंस्कारसमाध्यनाछेद्यापरिहीनवीर्यत्वाद्वीर्यसंस्कारसमाध्यपरिहीनवीर्य इत्युच्यते। स्मृत्यपरिहीनत्वादपरिहीनस्मृतिरित्युच्यते। अपरिहीनप्रज्ञत्वादपरिहीनप्रज्ञ इत्युच्यते। विमुक्त्यपरिहीनत्वादपरिहीनविमुक्तिरित्युच्यते। विमुक्तिज्ञानदर्शनाप्रहीनत्वादपरिहीनविमुक्तिज्ञानदर्शन इत्युच्यते। सर्वकायकर्मवाक्कर्ममनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिसमन्वागतत्वात्सर्वकायवाङ्भमनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिज्ञानसमन्वागत इत्युच्यते। अतीतानागतप्रत्युत्पन्नेष्वध्वस्वसङ्गाप्रतिहतज्ञानदर्शनसमन्वागतत्वात् त्र्यध्वासङ्गाप्रतिहतज्ञानदर्शनसमन्वागत इत्युच्यते। अनावरणविमोक्षप्रतिलब्धत्वादनावरणविमोक्षप्रतिलब्ध इत्युच्यते। अधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थितत्वोदधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थित इत्युच्यते। यथाप्रत्यर्हधर्मदेशनाकुशलत्वाद्यथाप्रत्यर्हधर्मदेशनाकुशल इत्युच्यते।
  202. सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्तत्वात्सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्त इत्युच्यते। सर्वरुतप्रतिरुतनिश्चारणकौशल्यप्राप्तत्वाद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुत इत्युच्यते। ब्रह्मस्वररुतरवितनिर्घोष इत्युच्यते। कलविङ्करुतस्वर इत्युच्यते। दुन्दुभिसंगीतिरुतस्वर इत्युच्यते। धरणीतलनिर्नादनिर्घोषस्वर इत्युच्यते। सागरनागेन्द्रमेघस्तनितगर्जितघोषस्वर इत्युच्यते। सिंहवृषभिताभिगर्जितनिर्घोषस्वर इत्युच्यते। सर्वसत्त्वरुतरवितानुचरणसंतोषणस्वर इत्युच्यते। असङ्गानावरणसर्वपर्षन्मण्डलाभिराधनस्वर इत्युच्यते। एकरुतात्सर्वरुतसंप्रापनस्वर इत्युच्यते। ब्रह्मेन्द्रपूजित इत्युच्यते। देवेन्द्रसत्कृत इत्युच्यते। नागेन्द्रनमस्कृत इत्युच्यते। यक्षेन्द्रावलोकितमुखमण्डल इत्युच्यते। गन्धर्वेन्द्रोपगीत इत्युच्यते। राक्षसेन्द्रप्रसन्नेन्द्रियानिनिमिषनयनसंप्रेक्षित इत्युच्यते। असुरेन्द्राभिप्रणत इत्युच्यते। गरुडेन्द्राविहिंसाप्रेक्षित इत्युच्यते। किन्नरेन्द्राभिष्टुत इत्युच्यते। महोरगेन्द्राभिलषितदर्शन इत्युच्यते। मनुजेन्द्राभिसंपूजित इत्युच्यते। अहर्गणसेवित इत्युच्यते। सर्वबोधिसत्त्वसमादायकसमुत्तेजकसंहप्रर्षक इत्युच्यते। निरामिषधर्मदेशक इत्युच्यते। अक्षुण्णपदव्यञ्जनावन्ध्यधर्मदेशक इत्युच्यते। कालानतिक्रमणधर्मदेशक इत्युच्यते। इदं तन्मैत्रेय धर्मचक्रप्रवर्तनं तथागतगुणवर्णप्रदेशस्य यत्किंचिदवतारमात्रं संक्षेपेण निर्देशितः विस्तरेण पुनमैत्रेय तथागतः कल्पं वा कल्पावशेषं वा निर्दिशेत्। चास्य निर्दिश्यमानस्य पर्यन्तो भवेत्॥
  203. अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत्—
  204. गम्भीरं दुर्दृशं सूक्ष्मं धर्मचक्रं प्रवर्तितम्।
  205. यत्र मारा गाहन्ते सर्वे परतीर्थिकाः॥५२॥
  206. अनालयं निष्प्रपञ्चं अनुत्पादमसंभवम्।
  207. विविक्तं प्रकृतीशून्यं धर्मचक्रं प्रवर्तितम्॥५३॥
  208. अनायूहमनिर्यूहमनिमित्तमलक्षणम्।
  209. समताधर्मनिर्देशं चक्रं बुद्धेन वर्णितम्॥५४॥
  210. मायामरीचि स्वप्नं दकचन्द्र प्रतिश्रुत्का।
  211. यथैते तथा तच्चक्रं लोकनाथेन वर्तितम्॥५५॥
  212. प्रतीत्यधर्मतारमनुच्छेदमशाश्वतम्।
  213. सर्वदृष्टिसमुच्छेदो धर्मचक्रमिति स्मृतम्॥५६॥
  214. आकाशेन सदा तुल्यं निर्विकल्पं प्रभास्वरम्।
  215. अनन्तमध्यनिर्देशं धर्मचक्रमिहोच्यते॥५७॥
  216. अस्तिनास्तिविनिर्मुक्तमात्म्यनैरात्म्यवर्जितम्।
  217. प्रकृत्याजातिनिर्देशं धर्मचक्रमिहोच्यते॥५८॥
  218. भूतकोटीमकोटीं तथतायां तथत्वतः।
  219. अद्वयो धर्मनिर्देशो धर्मचक्रं निरुच्यते॥५९॥
  220. चक्षुः स्वभावतः शून्यं श्रोतं घ्राणं तथैव च।
  221. जिह्वा कायं चित्तं शून्यात्मानो निरीहकः॥६०॥
  222. इदं तदीद्दशं चक्रं धर्मचक्रं प्रवर्तितम्।
  223. बोधयत्यबुधान् सत्त्वांस्तेन बुद्धो निरुच्यते॥६१॥
  224. स्वयं मयानुबुद्धोऽयं स्वभावो धर्मलक्षणम्।
  225. ऋते परोपदेशेन स्वयंभूस्तथ चक्षुमान्॥६२॥
  226. सर्वधर्मवशिप्राप्तो धर्मस्वामी निरुच्यते।
  227. नयानयज्ञो धर्मेषु नायकस्तेन चोच्यते॥६३॥
  228. यथा भवन्ति वैनेया विनयाम्यमितां जनां।
  229. विनेयपारमिप्राप्तस्तेन प्रोक्तो विनायकः॥६४॥
  230. नष्टमार्गा हि ये सत्त्वा मार्गं देशेमि उत्तमम्।
  231. नयामि पारिमं तीरं तस्मादस्मि विनायकः॥६५॥
  232. संग्रहावस्तुज्ञानेन संगृह्य जनतामहम्।
  233. संसाराटविनिस्तीर्णः सार्थवाहस्ततो ह्यहम्॥६६॥
  234. वशवर्ती सर्वधर्मेषु तेन धर्मेश्वरो जिनः।
  235. धर्मचक्रं प्रवर्तित्वा धर्मराजो निरुच्यते॥६७॥
  236. धर्मदानपतिः शास्ता धर्मस्वामी निरुत्तरः।
  237. सुयष्टयज्ञसिद्धार्थः पूर्णाशः सिद्धमङ्गलः॥६८॥
  238. आश्वासकः क्षेमदर्शी शूरो महारणंजहः।
  239. उत्तीर्णसर्वसंग्रामो मुक्तो मोचयिता प्रजाः॥६९॥
  240. आलोकभूतो लोकस्य प्रज्ञाज्ञानप्रभंकरः।
  241. अज्ञानतमसो हन्ता उल्काधारि महाप्रभः॥७०॥
  242. महावैद्यो महाज्ञानी महाक्लेशचिकित्सकः।
  243. सत्त्वानां क्लेशविद्धानां शल्यहर्ता निरुत्तरः॥७१॥
  244. सर्वलक्षणसंपन्नः सर्वव्यञ्जनशोभितः।
  245. समन्तभद्रकायेन हीनानां चानुवर्तकः॥७२॥
  246. दशभिर्बलभिर्बलवान् वैशारद्यविशारदः।
  247. आवेणिकैरष्टदशै अग्रयानी महामुनिः॥७३॥
  248. एष संक्षेपनिर्देशो धर्मचक्रप्रवर्तने।
  249. तथागतगुणवर्णः परीत्तोऽयं प्रकाशितः॥७४॥
  250. बुद्धज्ञानमनन्तं हि आकाशविपुलं समम्।
  251. क्षपयेत्कल्प भाषन्तो बुद्धगुणक्षयः॥७५॥ इति॥
  252. इति श्रीललितविस्तरे धर्मचक्रप्रवर्तनपरिवर्तो नाम षड्विंशतितमोऽध्यायः॥

ไทย-ทั่วไป(แบบปรับรูป)

  1. นะมะห์ สรรวะพุทธะโพธิสัตตเวภยะห์ฯ
  2. ละลิตะวิสตะระห์ฯ
  3. โอม นะโม ทะศะทิคะนันตาปรรยันตะโลกะธาตุประติษฐิตะสรรวะพุทธะโพธิสัตตวารยะศราวะกัปรัตเยกะพุทเธภโย'ตีตานาคะตัปรัตยุตปันเนภยะห์๚
  4. ............
  5. ๒๖ ๚ธรรมะจักระประวรรตะนะปะริวรรตะห์ ษัฑวิมศะห์๚
  6. อะถะ ขะลุ ภิกษะวัสตะถาคะตะห์ กฤตะกฤตยะห์ กฤตะกะระณียะห์ สรรวะพันธะนะสะมุจฉินนะห์ สรรวะกเลโศทธฤโต นิรวานตะมะลักเลโศ นิหะตะมารัปรัตยรรถิกะห์ สรรวะพุทธะธรรมะนะยานุประวิษฏะห์ สรรวะชญะห์ สรรวะทรรศี ทะศะพะละสะมันวาคะตัศจะตุรไวศารัทยัปราปโต'ษฏาทะศาเวณิกะพุทธะธรรมะประติปูรณะห์ ปัญจะจักษุห์สะมันวาคะโต'นาวะระเณนะ พุทธะจักษุษา สรรวาวันตัม โลกะมะวะโลกไยวัม จินตะยะติ สมะ-กัสมา อะยะมะหัม สรรวะประถะมัม ธรรมัม เทศะเยยัม? กะตะมะห์ สัตตวะห์ ศุทธะห์ สวาการะห์ สุวิเนยะห์ สุวิชญาปะกะห์ สุวิโศธะโก มันทะราคะโทษะโมโห'ปะโรกษะวิชญาโน โย'ศรุตะวาน ธรรมัสยะ ปะริหียะเต? ตัสมายะหัม สรรวะประถะมัม ธรรมัม เทศะเยยัม, ยัศจะ เม ธรรมัม เทศิตะมาชานียานนะ จะ มาม สะ วิเหฐะเยต๚
  7. อะถะ ขะลุ ภิกษะวัสตะถาคะตัสไยตะทะภูต-รุทระกะห์ ขะลุ รามะปุตระห์ ศุทธะห์ สวาการะห์ สุวิชญาปะกะห์ สุวิโศธะโก มันทะราคะโมโห'ปะโรกษะวิชญานะห์ฯ โส'ศระวะณาทธรรมัสยะ ปะริหียะเตฯ ศราวะเกภโย ไนวะสัญชญานาสัญชญายะตะนะสะหะวระตาไย ธรรมัม เทศะยะติฯ กุตราสาเวตรรหิ ประติวะสะตีตยาชญาสีตฯ อัทยะ สัปตาหะกาละคะตะ อิติฯ เทวะตา อะปิ ตะถาคะตัสยะ จะระณะโยรนิปัตไยวะมาหุห์-เอวะเมตัทภะคะวัน, เอวะเมตัตสุคะตะ, อัทยะ สัปตาหะกาละคะโต รุทระโก รามะปุตระห์ฯ ตัสยะ เม ภิกษะวะ เอตะทะภูต-มะหาหานิรวรรตะเต รุทระกัสยะ รามะปุตรัสยะ, ยะ อิมะเมวะ สุประณีตัม ธรรมะมัศรุตวา กาละคะตะห์ฯ สะเจทะสาวิมัม ธรรมะมะโศรษยะทาชญาสยัตฯ ตัสไม จาหัม ประถะมัม ธรรมะ เทศะยิษยัม, นะ จะ มาม สะ วยะเหฐะยิษยัต๚
  8. ปุนะระปิ ภิกษะวัสตะถาคะตัสไยตะทะภุต-โก'นยะห์ สัตตวะห์ ศุทธะห์ สุวิเนยะห์ ปูรวะวัทยาวันนะ จะ ธรรมะเทศะนาม วิเหฐะเยทิติฯ ตะโต ภิกษะวัสตะถาคะตัสไยตะทะภะวัต-อะยัม ขัลวัปยาราฑะห์ กาลาปะห์ ศุทโธ ยาวันนะ จะ เม ธรรมะเทศะนาม วิเหฐะเยทิติฯ สะมันวาหะระติ สมะ ภิกษะวัสตะถาคะตะห์ กุตราสาเวตรรหีติฯ สะมันวาหะรัมศจาชญาสีทัทยะ ตรีณยะหานิ กาละคะตัสเยติฯ ศุทธาวาสะกายิกา อะปิ จะ เทวะตา เอนะมรรถัม ตะถาคะตัสยาโรจะยันติ สมะ-เอวะเมตัทภะคะวัน, เอวะเมตัตสุคะตะฯ อัทยะ ตรยะหัม กาละคะตัสยาราฑัสยะ กาลาปัสยะฯ ตะตัสตะถาคะตัสไยตะทะภะวัต-มะหาหานิรวรรตะเต อะราฑัสยะ กาลาปัสยะ, ยะ อิมะเมวัม สุประณีตัม ธรรมะมัศรุตวา กาละคะตะ อิติ๚
  9. ปุนะระปิ ภิกษะวัสตะถาคะตัสไยตะทะภูต-กะห์ ขัลวันยะห์ สัตตวะห์ ศุทธะห์ สวากาโร ยาวันนะ จะ เม ธรรมะเทศะนาม วิเหฐะเยทิติ๚
  10. อะถะ ขะลุ ภิกษะวัสตะถาคะตัสไยตะทะภะวัต-เต ขะลุ ปัญจะกา ภะทระวรรคียาห์ ศุทธาห์ สวาการาห์ สุวิชญาปะกาห์ สุวิโศธะกา มันทะราคะโทษะโมหา อะปะโรกษะวิชญานาห์ฯ เต'ศระวะณาทธรรมัสยะ ปะริหียันเตฯ ไตศจาหัม ทุษกะระจรรยาม จะรันนุปัสถิโต'ภูวัมฯ เต มะยา ธรรมัม เทศิตะมาชญาสยันติ, นะ จะ เม หะ วิเหฐะยิษยันติ๚
  11. อะถะ ขะลุ ภิกษะวัสตะถาคะตัสไยตะทะภะวัต-ยันนวะหัม ปัญจะเกภโย ภะทระวรรคีเยภยะห์ ประถะมัม ธรรมัม เทศะเยยัม๚
  12. อะถะ ขะลุ ภิกษะวัสตะถาคะตัสยะ ปุนะเรตะทะภะวัต-กัสมินเนตรรหิ ปัญจะกา ภะทระวรรคียาห์ ประติวะสันติ? อะถะ ตะถาคะตะห์ สรรวาวันตัม โลกัม พุทธะจักษุษา วยะวะโลกะยัน ปัศยะติ สมะฯ อัทรากษีตปัญจะกาน ภะทระวรรคียาน วาราณัสยาม วิหะระตะ ฤษิปะตะเน มฤคะทาเวฯ ทฤษฏวา จะ ตะถาคะตัสไยตะทะภะวัต-ยันนวะหัม ปัญจะเกภโย ภะทระวรรคีเยภยะห์ สรรวะประถะมัม ธรรมัม เทศะเยยัมฯ เต หิ มะมะ สรรวะประถะมัม ธรรมัม เทศิตะมาชญาสยันติฯ ตัตกัสยะ เหโตห์? จะริตาวิโน หิ เต ภิกษะวะห์ สุปะริปัณฑิตะศุกละธรรมาโณ โมกษะมารคาภิมุขา นิพันธาปะนีตาห์๚
  13. อะถะ ขะลุ ภิกษะวัสตะถาคะตะ เอวะมะนุวิจินตยะ โพธิมัณฑาทุตถายะ ตริสาหะสระมะหาสาหะสรัม โลกะธาตุม สัมประกัมปยานุปูรเวณะ มะคะเธษุ จรรยาม จะรัน กาศิษุ ชะนะปะเทษุ จาริกาม ประกรามัตฯ อะถะ คะยายาม โพธิมัณฑัสยะ จานตะราทันยะตะมะ อาชีวะโก'ทรากษีตตะถาคะตัม ทูระตะ เอวาคัจฉันตัมฯ ทฤษฏวา จะ ปุนรรเยนะ ตะถาคะตัสเตโนปะชะคามะฯ อุเปตไยกานเต'สถาตฯ เอกานเต สถิตัศจะ ภิกษะวะ อาชีวะกัสตะถาคะเตนะ สารธัม วิวิธาม สัมโมทะนีม กะถาม กฤตวา เอวะมาหะ-วิประสันนานิ เต อายุษมัน เคาตะมะ อินทริยาณิฯ ปะริศุทธะห์ ปรรยะวะทาตะห์ ปีตะนิรภาสัศจะ เต ฉะวิวรรณะห์ ตัทยะถาปิ นามะ ศาระทัม กาลัม ปาณฑุระวรรณัม ประภาสวะรัม ปีตะนิรภาสัม ภะวะติ, เอวะเมวะ ภะวะโต เคาตะมัสยะ ปะริศุทธานีนทริยาณิ ปะริศุทธัม มุขะมัณฑะลัม ปรรยะวะทาตัมฯ ตัทยะถาปิ นามะ ตาละผะลัสยะ ปักวัสยะ สะมะนันตะระวฤนตัจยุตัสยะ พันธะนาศระยะห์ ปีตะนิรภาโส ภะวะติ ปะริศุทธะห์ ปรรยะวะทาตะห์, เอวะเมวะ ภะวะโต เคาตะมัสยะ ปะริศุทธานีนทริยาณิ ปะริศุทธัม มุขะมัณฑะลัม ปรรยะวะทาตัมฯ ตัทยะถาปิ นามะ ชามพูนะทะวรรณะนิษกะห์ อุลกามุขะประกฤษโฏ ทักษิณะกรรมาระปุเตรณะ สุปะริกรรมะกฤตะห์ ปาณฑุกัมพะโลปะนิกษิปโต วรรณะวาน ภะวะติ ปะริศุทธะห์ ปรรยะวะทาตะห์ ปีตะนิรภาโส'ตีวะ ประภาสวะระห์, เอวะเมวะ ภะวะโต เคาตะมัสยะ วิประสันนานีนทริยาณิ, ปะริศุทธัสตวัควรรณะห์, ปรรยะวะทาตัม มุขะมัณฑะลัมฯ กัสมินนายุษมัน เคาตะมะ พรหมะจรรยะมุษยะเต? เอวะมุกเต ภิกษะวัสตะถาคะตัสตะมาชีวะกัม คาถะยา ปรัตยะภาษะตะ—
  14. อาจารโย นะ หิ เม กัศจิตสะทฤโศ เม นะ วิทยะเตฯ
  15. เอโก'หะมัสมิ สัมพุทธะห์ ศีตีภูโต นิราศระวะห์๚๑๚
  16. โส'โวจัต-อรรหัม ขะลุ เคาตะมะมาตมานัม ปราติชานีเษฯ ตะถาคะโต'โวจัต—
  17. อะหะเมวาระหัม โลเก ศาสตา หยะหะมะนุตตะระห์ฯ
  18. สะเทวาสุระคันธรรเว นาสติ เม ประติปุทคะละห์๚๒๚
  19. โส'โวจัต-ชินัม ขะลุ เคาตะมะ มาตมานัม ประติชานีเษฯ ตะถาคะโต'โวจัต—
  20. ชินา หิ มาทฤศา ชเญยา เย ปราปตา อาศระวักษะยัมฯ
  21. ชิตา เม ปาปะกา ธรรมาสเตโนปะคะ ชิโน หยะหัม๚๓๚
  22. โส'โวจัต-กวะ ตรรหยายุษมัน เคาตะมะ คะมิษยะสิ? ตะถาคะโต'โวจัต—
  23. วาราณะสีม คะมิษยามิ คัตวา ไว กาศินาม ปุรีมฯ
  24. อันธะภูตัสยะ โลกัสยะ กรรตาสมยะสะทฤศาม ประภาม๚๔๚
  25. วาราณะสีม คะมิษยะมิ คัตวา ไว กาศินาม ปุรีมฯ
  26. ศัพทะหีนัสยะ โลกัสยะ ตาฑะยิษเย'มฤตะทุนทุภิม๚๕๚
  27. วาราณะสีม คะมิษยามิ คัตวา ไว กาศินาม ปุรีมฯ
  28. ธรรมะจะกรัม ประวรรติษเย โลเกษวะประติวรรติตัม๚๖๚
  29. ตัทภะวิษยะสิ เคาตะมะ อิตยุกตวา สะ อาชีวะโก ทักษิณามุขะห์ ปรากรามัตฯ ตะถาคะโต'ปยุตตะรามุขะห์ ปรากรามัต๚
  30. อิติ หิ ภิกษะวัสตะถาคะโต คะยายาม สุทรรศะเนนะ นาคะราเชนะ นิมันตริโต'ภุต วาเสนะ ภักเตนะ จะฯ ตะตัสตะถาคะโต โรหิตะวัสตุมะคะมัต, ตัสมาทุรุพิลวากัลปัม ตัสมาทะณาละมะคะมัต, ตะตะห์ สาระถิปุรัมฯ เอษุ จะ สรรเวษุ ภิกษะวัสตะถาคะโต คฤหะปะติภิรภักเตนะ วาเสนะ โจปะนิมันตรยะมาโณ'นุปูรเวณะ คังคายา นัทยาสตีระมุปาคะมัต๚
  31. เตนะ ขะลุ ปุนรรภิกษะวะห์ สะมะเยนะ คังคา มะหานะที สุปะริปูรณา สะมะตีรถะกา วะหะติ สมะ๚
  32. อะถะ ขะลุ ภิกษะวัสตะถาคะโต นาวิกะสะมีปะมุปาคะมัตปาระสันตะระณายะฯ สะ ปราหะ-ประยัจฉะ เคาตะมะ ตะระปัณยัมฯ นะ เม'สติ มารษะ ตะระปัณยะมิตยุกตวา ตะถาคะโต วิหายะสา ปะถา ตีราตปะรัม ตีระมะคะมัตฯ ตะตะห์ สะ นาวิกัสตัม ทฤษฏวาตีวะ วิประติสารยะภุต-เอวัมวิโธ ทักษิณีโย มะยา นะ ตาริตะ อิติฯ หา กัษฏะมิติ กฤตวา มูรฉิตะห์ ปฤถิวยาม ปะติตะห์ฯ ตะตะ เอนาม ประกฤติม นาวิโก ราชเญ พิมพิสารายะ อาโรจะยามาสะ-ศระมะณะห์ สวามิ เคาตะมัสตะระปัณยัม ยาจะมาโน นาสติ ตะระปัณยะมิตยุกตวา วิหายะสา อะตัสตีราตปะรัม ตีรัม คะตะ อิติฯ ตัจฉรุตวา ตะทะเครณะ ราชญา พิมพิสาเรณะ สรรวะประวระชิตานาม ตะระปัณยะมุตสฤษฏะมะภะวัต๚
  33. อิติ หิ ภิกษะวัสตะถาคะโต'นุปูรเวณะ ชะนะปะทะจรรยาม จะรัน เยนะ วาราณะสี มะหานะคะรี เตโนปะสังกรามัตฯ อุปะสังกรัมยะ กาลยะเมวะ นิวาสยะ ปาตระจีวะระมาทายะ วาราณะสีม มะหานะคะรีม ปิณฑายะ ปราวิกษัตฯ ตัสยาม ปิณฑายะ จะริตวา กฤตะภักตะกฤตยะห์ ปัศจาทภักตะปิณฑะปาตระประติกรานตะห์ เยนะ ฤษิปะตะโน มฤคะทาโว เยนะ จะ ปัญจะกา ภะทระวรรคียาสเตโนปะสังกรามะติ สมะฯ อัทรากษุห์ ขะลุ ปุนะห์ ปัญจะกา ภะทระวรรคียาสตะถาคะตัม ทูระตะ เอวาคัจฉันตัมฯ ทฤษฏวา จะ กริยาพันธะมะการษุห์-เอษะ สะ อายุษมันตะห์ ศระมะโณ เคาตะมะ อาคัจฉะติ สมะ ไศถิลิโก พาหุลิกะห์ ประธานะวิภรัษฏะห์ฯ อะเนนะ ขัลวะปิ ตะยาปิ ตาวัตปูรวิกะยา ทุษกะระจรรยะยา นะ ศะกิตัม กิญจิทุตตะริมะนุษยะธรรมาทะละมารยัชญานะทรรศะนะวิเศษัม สากษาตกรรตุมฯ กิม ปุนะเรตรรหิ เอาทาริกะมาหาระมาหะรัน สุขัลลิกาโยคะมะนุยุกโต วิหะรันฯ อะภะวยะห์ ขัลเวษะ ไศถิลิโก พาหุลิกะห์ฯ นาสยะ เกนะจิตปรัตยุทคันตะวยัม นะ ปรัตยุตถาตะวยัมฯ นะ ปาตระจีวะรัม ประติคระหีตะวยัม นาศะนัม ทาตะวยัม นะ ปานียัม ปะริโภคยัม นะ ปาทะประติษฐานัม สถาปะยิตวาติริกตานยาสะนานิฯ วักตะวยัม จะ-สัมวิทยันตะ อิมานยายุษมัน เคาตะมะ อะติริกตานยาสะนานิฯ สะเจทากางกษะสิ นิษีเทติฯ อายุษมามสตวาชญานะเกาณฑินยัศจิตเตนาธิวาสะยะติ สมะฯ วาจา จะ นะ ประติกษิปะติ สมะฯ ยะถา ยะถา จะ ภิกษะวัสตะถาคะโต เยนะ ปัญจะกา ภะทระวรรคียาสเตโนปะสังกรามะติ สมะ, ตะถา ตะถา เต สวะกัสวะเกษวาสะเนษุ นะ ระมันเต สมะ, อุตถาตุกามา อะภูวันฯ ตัทยะถาปิ นามะ ปักษี ศะกุนิห์ ปัญชะระคะตะห์ สยาต, ตัสยะ จะ ปัญชะระคะตัสยาโธ'คนิรทัคโธ ภะเวตฯ โส'คนิสันตัปตัสตวะริตะมูรธวะมุตปะติตุกาโม ภะเวต ประเตรตุกามัศจะ, เอวะเมวะ ยะถา ยะถา ตะถาคะตะห์ ปัญจะกานาม ภะทระวรรคียาณาม สะกาศะมุปะสังกรามะติ สมะ, ตะถา ตะถา ปัญจะกา ภะทระวรรคียาห์ สวะกัสวะเกษวาสะเนษุ นะ ระมันเต สมะ, อุตถาตุกามา อะภูวันฯ ตัตกัสมาต? นะ สะ กัศจิตสัตตวะห์ สัตตวะนิกาเย สัมวิทยะเต ยัสตะถาคะตัม ทฤษฏวา อาสะนานนะ ปรัตยุตติษเฐตฯ ยะถา ยะถา จะ ตะถาคะตะห์ ปัญจะกาน ภะทระวรรคียานุปะสังกรามะติ สมะ, ตะถา ตะถา ปัญจะกา ภะทระวรรคียาสตะถาคะตัสยะ ศริยัม เตชัศจาสะหะมานา อาสะเนภยะห์ ประกัมปยะมานาห์ สรรเว กริยาการัม ภิตตวา โจตถายาสะเนภยะห์, กัศจิตปรัตยุทคัจฉะติ สมะ, กัศจิตปรัตยุทคัมยะ ปาตระจีวะรัม ประติคฤหณาติ สมะฯ กัศจิทาสะนะมุปะนามะยะติ สมะฯ กัศจิตปาทะประติษฐาปะนัม กัศจิตปาทัปรักษาละโนทะกะมุปัสถาปะยะติ สมะฯ เอวัม จาโวจัต-สวาคะตัม เต อายุษมัน เคาตะมะ, สวาคะตัม เต อายุษมัน เคาตัมฯ นิษีเททะมาสะนัม ปรัชญัปตัมฯ นยะษีทัตขัลวะปิ ภิกษะวัสตะถาคะตะห์ ปรัชญัปตะ เอวาสะเนฯ ปัญจะกา ปิ ภะทระวรรคียาสเต ตะถาคะเตนะ สารธัม วิวิธาม สัมโมทะนีม สัมรัญชะนีม กะถาม กฤตไวกานเต นิเษทุห์ฯ เอกานเต นิษัณณาศจะ เต ปัญจะกา ภะทระวรรคียาสตะถาคะตะเมตะทะโวจัน-วิประสันนานิ เต อายุษมัน เคาตะเมนทริยาณิ, ปะริศุทธัศฉะวิวรรณะ อิติ หิ สรรวะม ปูรวะวัตฯ ตะทัสติ เต อายุษมัน เคาตะมะ กัศจิทุตตะริมะนุษยะธรรมานทะละมารยัชญานะทรรศะนะวิเศษะห์ สากษาตกฤตะห์? เอวะมุกเต ภิกษะวัสตะถาคะตะห์ ปัญจะกาน ภะทระวรรคียาเนวะมาหะ-มา ยูยัม ภิกษะวัสตะถาคะตะมายุษมัทวาเทนะ สะมุทาจะริษฏะฯ มา โว ภูททีรฆะราตระมรรถายะ หิตายะ สุขายะฯ อะมฤตัม มะยา ภิกษะวะห์ สากษาตกฤโต'มฤตะคามี จะ มารคะห์ฯ พุทโธ'หะมัสมิ ภิกษะวะห์ สรรวะชญะห์ สรรวะทรรศี ศีตีภูโต'นาศระวะห์ฯ วะศี สรรวะธรรเมษุฯ ธรรมะมะหัม ภิกษะโว เทศะยิษยามิ, อาศุ คัจฉะตะ ศฤณุตะ ประติปัทยัธวัมฯ โศรตะมะวะทะธะตะ อะหะมะวะวะทามยะนุศาสมิฯ ยะถา มะยา สัมยะคะวะวะทิตาห์ สัมยะคะนุศิษฏา ยูยะมัปยาศระวาณาม เจโตวิมุกตัม ปรัชญาวิมุกติม จะ ทฤษฏะ เอวะ ธรรเม สากษาตกฤตโวปะสัมปัทยะ ประเวทะยิษยะถะ-กษีณา โน ชาติรุษิตัม จะ พรหมะจรรยัม, กฤตัม กะระณียัม, นาปะระมิตยะโต'นยัทภะวัม ประชานามะ อิติฯ นะนุ จะ ยุษมากัม ภิกษะวะ เอตะทะภูต-อะยัม ขัลวายุษมันตะ อาคัจฉะติ ศระมะโณ เคาตะมะห์ ไศถิลิโก พาหุลิกะห์ ประธานะวิภรัษฏะ อิติ ปูรวะวัตฯ สะเจทากางกษะสิ นิษีเทติฯ เตษาม จะ เอหิ ภิกษะวะ อิตยุกเต ยัตกิญจิตตีรถิกะลิงคัม ตีรถิกัธวะชะห์, สรรโว'เสา ตัตกษะณะเมวานตะระฆาตฯ ตริจีวะรัม ปาตรัม จะ ปราทุระภูต, ตะทะนุ ฉินนาศจะ เกศาห์ฯ ตัทยะถาปิ นามะ วรรษะศะโตปะสัมปันนัสยะ ภิกโษรีรยาปะถะห์ สัมวฤตโต'ภุตฯ ไสวะ จะ เตษาม ประวรัชยาภูตไสโวปะสัมปัทภิกษุภาวะห์๚
  34. อะถะ ขะลุ ภิกษะวัสตัสยาม เวลายาม ปัญจะกา ภะทระวรรคียา ภิกษะวัสตะถาคะตัสยะ จะระณะโยรนิปัตยาตยะยัม เทศะยันติ สมะฯ ตะถาคะตัสยานติเก ศาสตฤสัญชญาม เปรมัม จะ ประสาทัม จะ เคาระวัม โจตปาทะยันติ สมะฯ เคาระวะชาตาศจะ พะหุวิจิตระปุษกะริณยาม ตะถาคะตัสยะ สนานะปะริกรรมะ กุรวันติ สมะฯ สนานัปรัตยุตตีรณัสยะ จะ ภิกษะวัสตะถาคะตัสไยตะทะภะวัต-กัสมิน ขะลุ ปูรวะไกสตะถาคะไตรรรหัทภิห์ สัมยักสัมพุทไธรนิษัทยะ ธรรมะจะกรัม ประวรรติตัม? ยัสมิมศจะ ภิกษะวะห์ ปฤถิวีประเทเศ ปูรวะไกสตะถาคะไตรรรหัทภิรธรรมะจะกรัม ประวรรติตะมะภูต, อะถะ ตัสมิน ปฤถิวีประเทเศ สัปตะรัตนะมะยะมาสะนะสะหะสรัม ปราทุระภูต๚
  35. อะถะ ตะถาคะตะห์ ปูรวะกาณาม ตะถาคะตานาม เคาระเวณะ ตรีณยาสะนานิ ประทักษิณีกฤตยะ สิมหะ อิวะ นิรภีศจะตุรถะ อาสะเน ปรรยังกะมาภุชยะ นิษีทะติ สมะฯ ปัญจะกา อะปิ ภิกษะวัสตะถาคะตัสยะ ปาเทา ศิโรภิระภิวันทยะ ตะถาคะตัสยะ ปุระโต นิเษทุห์๚
  36. อะถะ ขะลุ ภิกษะวัสตัสยาม เวลายาม ตะถารูปาม กายาตประภาม ตะถาคะตะห์ ปรามุญจัทยะยา ประภะยา อะยัม ตริสาหะสระมะหาสาหะโสร โลกะธาตุรมะหะตาวะภาเสนะ สผุโฏ'ภูตฯ เตนะ จาวะภาเสนะ ยา อะปิ โลกานตะริกา อะฆา อะฆัสผุฏา อันธะการะตะมิสรา ยะเตรเมา จันทระสูรเยา เอวัมมะหรรทธิกาเววัม มะหานุภาวาเววัม มะเหศาขเยา อาภะยา อาภาม วรรเณนัม วรรณัม เตชะสา เตโช นาภิตะปะโต นาภิวิโรจะตะห์ฯ ตะตระ เย สัตตวา อุปะปันนาสเต สวะกัสวะกะมะปิ พาหุม ประสาริตัม นะ ปัศยันติ สมะ, ตะตราปิ ตัสมิน สะมะเย มะหะตะ อุทารัสยาวะภาสัสยะ โลเก ปราทุรภาโว'ภุตฯ เย จะ ตะตระ สัตตวา อุปะปันนาสเต เตนาวะภาเสนะ ปะริสผุฏาห์ สะมานา อันโยนยัม ปัศยันติ สมะฯ อันโยนยัม สัญชานันเต สมะฯ เอวัม จาหุห์-อันเย'ปิ กิละ โภห์ สัตตวา อิโหปะปันนาห์, อันเย'ปิ กิละ โภห์ สัตตวา อิโหปะปันนาห์ อิติฯ อะยัม จะ ตริสาหะสระมะหาสาหะโสร โลกะธาตุห์ ษัฑวิการะมัษฏาทะศะมะหานิมิตตะมะภูต-อะกัมปัต ปรากัมปัต สัมปรากัมปัตฯ อะเวธัต ปราเวธัต สัมปราเวธัตฯ อะจะลัต ปราจะลัต สัมปราจะลัตฯ อักษุภยัต ปรากษุภยัต สัมปรากษุภยัตฯ อะระณัต ปราระณัต สัมปราระณัตฯ อะครรชัต ปราครรชัต สัมปราครรชัตฯ อันเต'วะนะมะติ สมะ, มัธเย อุนนะมะติ สมะฯ มัธเย'วะนะมะติ สมะ อันเต อุนนะมะติ สมะฯ ปูรวัสยาม ทิศยะวะนะมะติ สมะ, ปัศจิมายาม ทิศยุนนะมะติ สมะฯ ปัศจิมายาม ทิศยะวะนะมะติ สมะ, ปูรวัสยาม ทิศยุนนะมะติ สมะฯ ทักษิณัสยาม ทิศยะวะนะมะติ สมะ, อุตตะรัสยาม ทิศยุนนะมะติ สมะฯ อุตตะรัสยาม ทิศยะวะนะมะติ สมะ, ทักษิณัสยาม ทิศยุนนะมะติ สมะฯ ตัสมิมศจะ สะมะเย หรรษะณียาสโตษะณียาห์ เปรมะณียาห์ ประสาทะนียา อะวะโลกะนียาห์ ปรหลาทะนียา นิรวรรณะนียา อะประติวรรณะนียา อะเสจะนียา อะประติกูลา อะนุตตราสะกะราห์ ศัพทาห์ ศรูยันเต สมะฯ นะ จะ กัสยะจิตสัตตวัสยะ ตัสมิน กษะเณ วิเหฐา วา ตราโส วา ภะยัม วา สตัมภิตัตวัม วาภูตฯ นะ จะ ภูยะห์ สูรยะจันทระมะโสรนะ ศักระพรหมะโลกะปาลานาม ตัสมิน กษะเณ ประภาห์ ปรัชญายันเต สมะฯ สรรวะนะระกะติรยัคโยนิยะมะโลโกปะปันนาศจะ สัตตวาสตัสมิน กษะเณ วิคะตะทุห์ขา อะภุวัน สรรวะสุขะสะมรรปิตาห์ฯ นะ จะ กัสยะจิตสัตตวัสยะ ราโค พาธะเต สมะ, ทเวโษ วา โมโห วา อีรษยา วา มาตสรรยัม วา มาโน วา มรักโษ วา มะโท วา โกรโธ วา วยาปาโท วา ปะริทาโห วาฯ สรรวะสัตตวาสตัสมิน กษะเณ ไมตระจิตตาห์ หิตะจิตตาห์ ปะรัสปะรัม มาตาปิตฤสัญชญิโน'ภูวันฯ ตะตัศจะ ประภาวยูหาทิมา คาถา นิศจะรันติ สมะ—
  37. โย'เสา ตุษิตาละยาจจยุตวา โอกรานตุ มาตุกุกเษา หิฯ
  38. ชาตัศจะ ลุมพินิวะเน ประติคฤหีตะห์ ศะจีปะตินา๚๗๚
  39. ยะห์ สิมหะวิกระมะคะติห์ สัปตะปะทา วิกระมี อะสัมมูฒะห์ฯ
  40. พรหมัสวะรามะถะ คิรัม ประมุโมจะ ชะคัตยะหัม เศรษฐะห์๚๘๚
  41. จะตุโร ทวีปามสตยักตวา ประวระชิตะห์ สรรวะสัตตวะหิตะเหโตห์ฯ
  42. ทุษกะระตะปัศจะริตวา อุปาคะมัทเยนะ มะหิมัณฑะห์๚๙๚
  43. สะพะลัม นิหัตยะ มารัม โพธิปราปโต หิตายะ โลกัสยะฯ
  44. วาราณะสีมุปะคะโต ธรรมะจะกรัม ประวรรตะยิตา๚๑๐๚
  45. สะพรหมะณา สะหะ สุไรรัธเยษโฏ วรรตะยัสวะ ศะมะจะกรัมฯ
  46. อะธิวาสิตัม จะ มุนินา โลเก การุณยะมุตปาทยะ๚๑๑๚
  47. โส'ยัม ทฤฒะประติชโญ วาราณะสิมุปะคะโต มฤคะทาวัมฯ
  48. จะกรัม หยะนุตตะระมะเสา ประวรรตะยิตาตยัทภุตัม ศรีมาน๚๑๒๚
  49. ยะห์ โศรตุกามุ ธรรมัม ยะห์ กัลปะนะยุไตห์ สะมารชิตุ ชิเนนะฯ
  50. ศีฆระมะเสา ตวะระมาโณ อาคัจฉะตุ ธรรมะศระวะณายะ๚๑๓๚
  51. ทุระวาปยัม มานุษยัม พุทโธตปาทะห์ สุทุรละภา ศรัทธาฯ
  52. เศรษฐัม จะ ธรรมะศระวะณัม อัษฏากษะณะวิวรรชะนะ ทุราปาห์๚๑๔๚
  53. ปราปตาศจะ เต'ทยะ สรรเว พุทโธตปาทะห์ กษะณัสตะถา ศรัทธาฯ
  54. ธรรมะศระวะณัศจะ วะระห์ ประมาทะมะขิลัม วิวรรชะยะตะ๚๑๕๚
  55. ภะวะติ กะทาจิทะวัสถา ยะห์ กัลปะนะยุไตรนะ ศรูยะเต ธรรมะห์ฯ
  56. สัมปราปตะห์ สะ จะ วาทยะ ประมาทะมะขิลัม วิวรรชะยะตะ๚๑๖๚
  57. เภามาทีน เทวะคะณาน สัญโจทะยะตี จะ พรหมะปรรยันตามฯ
  58. อายาตะ ละฆุม สรรเว วรรตะยิตา นายะโก หยะมฤตะจะกรัม๚๑๗๚
  59. สัญโจทิตาศจะ มะหะตา เทวะโฆเษณะ ตัตกษะณัม สรรเวฯ
  60. ตยักตวา เทวะสะมฤทธิม ปราปตา พุทธัสยะ เต ปารศเว๚๑๘๚
  61. อิติ หิ ภิกษะโว เภาไมเทไวรวาราณัสยาม ฤปิปะตะเน มฤคะทาเว ธรรมะจักระประวรรตะนารถัม ตะถาคะตัสยะ มะหามัณฑะละมาโตร'ธิษฐิโต'ภูต จิโตร ทรรศะนีโย วิปุโล วิสตีรณะห์ สัปตะโยชะนะศะตานยายาโม วิสตาเรณะฯ อุปะริษฏาศจะ เทไวศฉัตรัธวะชะปะตากาวิตานะสะมะลังกฤตัม คะคะนะตะลัม สะมะลังกฤตะมะภูตฯ กามาวะจะไร รูปาวะจะไรศจะ เทวะปุไตรศจะตุระศีติสิมหาสะนะศะตะสะหะสราณิ ตะถาคะตาโยปะนามิตานยะภูวัน-อิหะ นิษัทยะ ภะคะวาน ธรรมะจะกรัม ประวรรตะยะตุ อัสมากะมะนุกัมปามุปาทาเยติ๚
  62. อะถะ ขะลุ ภิกษะวัสตัสมิน สะมะเย ปูรวะทักษิณะปัศจิโมตตะราภโย ทิคภยะ อูรธวะมะธะห์ สะมันตาททะศัภโย ทิคภโย พะหะโว โพธิสัตตวะโกฏยะห์ ปูรวะประณิธานะสะมันวาคะตา อาคัตยะ ตะถาคะตัสยะ จะระณะโยรนิปัตยะ ธรรมะจักระประวรรตะนายาธเยษันเต สมะฯ เย เจหะ ตริสาหะสระมะหาสาหะเสร โลกะธาเตา ศะโกร วา พรหมา วา โลกะปาลา วา ตะทันเย วา มะเหศาขยะมะเหศาขยา เทวะปุตราสเต'ปิ สรรเว ตะถาคะตัสยะ จะระณะโยห์ ศิโรภิห์ ประณิปัตยะ ตะถาคะตะมัธเยษันเต สมะ ธรรมะจักระประวรรตะนายะ-ประวรรตะยะตุ ภะคะวาน ธรรมะจะกรัม, ประวรรตะยะตุ สุคะโต ธรรมะจะกรัม พะหุชะนะหิตายะ พะหุชะนะสุขายะ โลกานุกัมปาไย มะหะโต ชะนะกายัสยารถายะ หิตายะ สุขายะ เทวานาม จะ มะนุษยาณาม จะฯ ยะชัสวะ ภะคะวัน ธรรมะยัชญัม, ประวรรษะ มะหาธรรมะวรรษัม, อุจเฉรปะยะ มะหาธรรมัธวะชัม, ประปูระยะ มะหาธรรมะศังขัม, ประตาฑะยะ มะหาธรรมะทุนทุภิม๚
  63. ตะเตรทะมุจยะเตฯ
  64. ตริสะหะสระ อิโต พะหุ พรหมะ สุเรศวะระ ปาละ ตะถา
  65. อุปะคัมยะ ชินัสยะ กระเมภิ นิปัตยะ อุทาหะริษุฯ
  66. สมะระ ปูรวะประติชญาม มะหามุนิ ยา ตวะยะ วาจะ กฤตา
  67. อะหุ ชเยษฐุ วิศิษฏุ ประชายะ กะริษเย ทุขัสยะ กษะยัม๚๑๙๚
  68. ตวะยะ ธรรษิตุ มารู สะไสนยุ ทรุเมนทริ สถิหิตวะ มุเน
  69. วะระโพธิ วิพุทธะ สุศานติ นิปาติตะ กเลศะทรุมาห์ฯ
  70. อะภิปรายุ ประปูรณะ อะเศษะ ยะ จินติตะ กัลปะศะตา
  71. ชะนะตาม ประสะมีกษยะ อะนายิกะ วรรตะยะ จะกระวะรัม๚๒๐๚
  72. สุคะตัสยะ ประภายะ ประภาสิตะ กเษตระสะหะสระศะตา
  73. พะหะวะห์ ศะตะพุทธะสุตาศจะ อุปาคะตะ ฤทธิพะไลห์ฯ
  74. วิวิธาม สุคะตัสยะ กะริตวะนะ ปูชะ มะหานิจะยาม
  75. สตะวะยิมสุ ตะถาคะตุ ภูตะคุเณภิ อัธเยษิตุ การุณิกัม๚๒๑๚
  76. กะรุณาฆะนะ วิทยุตะปรัชญะ วิปัศยะนะ วายุสะมา
  77. อะภิครรชิตุ กัลปะสะหะสระ นิมันตริตุ สรรวะชะคัตฯ
  78. อัษฏางคิกะมารคะชะโล ธะระ วรรษะ สะเมหิ ชะคัสยะ ตฤษาม
  79. พะละอินทริยัธยานะวิโมกษะ วิวรรธะยะ สัสยะธะนัม๚๒๒๚
  80. พะหุกัลปะสะหะสระ สุศิกษิตุ ศูนยะตัตตวะ สถิตา
  81. สะมุทานิตุ ธรรมะชุ เภษะชุ ชานิตุ สัตตวะจะรีฯ
  82. ชะนะตา อิยะ วยาธิศะเตภิ อุปะทรุตะ กเลศะคะไณห์
  83. ชินะไวทยะ ประโมจะยะ วรรตะยะ ธรรมะจะกระวะรัม๚๒๓๚
  84. ษะฑิ ปาระมิเต จิระราตรุ วิวรรธิตุ โกศุ ตวะยา
  85. อะสะมัม ตุ อะจาลยุ ประณีตุ สุสัญจิตุ ธรรมะธะนัมฯ
  86. ประชะ สรรวะ อะนาถะ ทะริทระ อะนายิกะ ทฤษฏวะ อิมาม
  87. วิจะรัม ธะนะ สัปตะ วินายะกะ จะกระ ประวรรตะยะหี๚๒๔๚
  88. ธะนะธานยะ หิรัณยะสุวรรณะ ตะไถวะ จะ วัสตระ ศุภา
  89. วะระ ปุษปะ วิเลปะนะ ธูปะนะ จูรณะ คฤหาศจะ วะราห์ฯ
  90. อันตะห์ปุระ ราชยะ ปริยาตมะชะ ตยักตะ ประหรรษะยะโต
  91. ชินะ โพธิ คะเวษะตะ สาติวิพุทธะ ประวรรตะยะ จะกระวะรัม๚๒๕๚
  92. ตะถะ ศีลุ อะขัณฑุ อะกัลมะษุ รักษิตุ กัลปะศะตาม
  93. สะทะ กษานติ สุภาวิตะ วีรยะ อะลีนุ อะภูษิ ตะวะฯ
  94. วะระ ธยานะ อะภิชญะ วิปัศยะนะ ปรัชญะ อุเปกษะ มุเน
  95. ปะริปูรณะ มะโนระถะ นิรชวะระ วรรตะยะ จะกระวะรัม๚๒๖๚
  96. อะถะ ขะลุ ภิกษะวะห์ สะหะจิตโตตปาทะธรรมะจักระประวรรตี นามะ โพธิสัตตโว มะหาสัตตวัสตัสยาม เวลายาม จะกรัม สรรวะรัตนัปรัตยุปตัม สรรวะรัตนะประโศภิตัม นานารัตนาลังการะวยูหะวิภูษิตัม สะหะสรารัม สะหะสระรัศมิ สะนาภิกัม สะเนมิกัม สะปุษปะทามัม สะเหมะชาลัม สะกิงกิณีชาลัม สะคันธะหัสตัม สะปูรณะกุมภัม สะนันทิกาวรรตัม สัสวัสติกาลังกฤตัม นานารังคะรักตะทิวยะวัสโตรปะโศภิตัม ทิวยะปุษปะคันธะมาลยะวิเลปะนานุลิปตัม สรรวาการะวะโรเปตัม ตะถาคะตายะ ธรรมะจักระประวรรตะนายะ ปูรวะประณิธานาภินิรหฤตัม โพธิสัตตวาศะยะวิโศธิตัม ตะถาคะตะปูชารหัม สรรวะตะถาคะตะสะมันวาหฤตัม สรรวะพุทธาธิษฐานาวิโลปิตัม ปูรวะไกสตะถาคะไตรรรหัทภิห์ สัมยักสัมพุทไธห์ ปรัตเยษิตัม ประวรรติตะปูรวัม จะ ธรรมะจะกระมุปะนามะยะติ สมะฯ อุปะนามยะ จะ กฤตาญชะลิปุฏัสตะถาคะตะมาภิรคาถาภิรัภยัษฏาวีต—
  97. ทีปังกะเรณะ ยะทะ วยากฤตุ ศุทธะสัตตโว
  98. พุทโธ ภะวิษยะสิ หิ ตวัม นะระสิมหะสิมหะห์ฯ
  99. ตัสมิม สะมาสิ ประณิธี อิยะเมวะรูปา
  100. สัมโพธิปราปตุ อะหุ ธรรมะ อัธเยษะเยยัม๚๒๗๚
  101. นะ จะ ศักยะ สรรวิ คะณะนายะ อะนุประเวษฏุม
  102. เย อาคะตา ทะศะทิเศภิริหาคระสัตตวาห์ฯ
  103. อัธเยษิ ศากยะกุละนันทะนะ ธรรมะจะเกร
  104. ปรหวา กฤตาญชะลิปุฏาศจะระเณา นิปัตยะ๚๒๘๚
  105. ยา โพธิมัณฑิ ประกฤตา จะ สุไรรวิยูหา
  106. ยา วา วิยูหะ กฤตะ สรรวะชินาตมะเชภิห์ฯ
  107. สา สรรวะ สัมสถิตะ วิยูหะ ติ ธรรมะจะเกร
  108. ปะริปูรณะกัลปะ ภะณะมานุ กษะยัม นะ คัจเฉต๚๒๙๚
  109. ตริสะหะสริ โลกิ คะคะนัม สผุฏะ เทวะสังไฆห์
  110. ธะระณีตะลัม อะสุระกินนะระมานุไษศจะฯ
  111. อุตกาสะศัพทุ นะปิ ศรูยะติ ตันมุหูรตัม
  112. สรรวิ ประสันนะมะนะโส ชินะมัภยุทีกษัน๚๓๐๚
  113. อิติ หิ ภิกษะวัสตะถาคะโต ราตรยาห์ ประถะเม ยาเม ตูษณีภาเวนาธิวาสะยะติ สมะฯ ราตรยา มัธยะเม ยาเม สัมรัญชะนียาม กะถาม ประวรรตะยะติ สมะฯ ราตรยาห์ ปัศจิเม ยาเม ปัญจะกาน ภะทระวรรคียานามันตรไยตะทะโวจัต - ทวาวิเมา ภิกษะวะห์ ประวระชิตัสยานตาวะกระเมาฯ ยัศจะ กาเมษุ กามะสุขัลลิกา โยโค หีโน ครามยะห์ ปารถัคชะนิโก นาละมารโย'นรรโถปะสัมหิโต นายัตยาม พรหมะจรรยายะ นะ นิรวิเท นะ วิราคายะ นะ นิโรธายะ นาภิชญายะ นะ สัมโพธะเย นะ นิรวาณายะ สัมวรรตะเตฯ ยา เจยะมะมัธยะมา ประติปะทา อาตมะกายักละมะถานุโยโค ทุห์โข'นรรโถปะสัมหิโต ทฤษฏะธรรมะทุห์ขัศจายัตยาม จะ ทุห์ขะวิปากะห์ฯ เอเตา จะ ภิกษะโว ทวาวันตาวะนุปะคัมยะ มัธยะมะไยวะ ประติปะทา ตะถาคะโต ธรรมัม เทศะยะติ-ยะทุตะ สัมยัคทฤษฏิห์ สัมยักสังกัลปะห์ สัมยัควาก สัมยักกรรมานตะห์ สัมยะคาชีวะห์ สัมยัควยายามะห์ สัมยักสมฤติห์ สัมยักสะมาธิริติฯ จัตวารีมานิ ภิกษะวะ อารยะสัตยานิฯ กะตะมานิ จัตวาริ? ทุห์ขัม ทุห์ขะสะมุทะโย ทุห์ขะนิโรโธ ทุห์ขะนิโรธะคามินี ประติปัตฯ ตะตระ กะตะมัท ทุห์ขัม? ชาติระปิ ทุห์ขัม ชะราปิ ทุห์ขัม วยาธิระปิ ทุห์ขัม มะระณะมะปิ อะปริยะสัมประโยโค'ปิ ปริยะวิประโยโค'ปิ ทุห์ขัมฯ ยะทะปิ อิจฉัน ปรรเยษะมาโณ นะ ละภะเต ตะทะปิ ทุห์ขัมฯ สังกเษปาต ปัญโจปาทานัสกะธา ทุห์ขัมฯ อิทะมุจยะเต ทุห์ขัมฯ ตะตระ กะตะโม ทุห์ขะสะมุทะยะห์? เยยัม ตฤษณา เปานรรภะวิกี นันทีราคะสะหะคะตา ตะตระตะตราภินันทินี อะยะมุจยะเต ทุห์ขะสะมุทะยะห์ฯ ตะตระ กะตะโม ทุห์ขะนิโรธะห์? โย'สยา เอวะ ตฤษณายาห์ ปุนรรภะวิกยา นันทีราคะสะหะคะตายาสตะตระตะตราภินันทินยา ชะนิกายา นิรวรรติกายา อะเศโษ วิราโค นิโรธะห์ อะยัม ทุห์ขะนิโรธะห์ฯ ตะตระ กะตะมา ทุห์ขะนิโรธะคามินี ประติปัต? เอษะ เอวารยาษฏางคะมารคะห์ฯ ตัทยะถาฯ สัมยัคทฤษฏิรยาวัตสัมยักสะมาธิริติฯ อิทะมุจยะเต ทุห์ขะนิโรธะคามินี ประติปะทารยะสัตยะมิติฯ อิมานิ ภิกษะวัศจัตวารยารยะสัตยานิฯ อิติ ทุห์ขะมิติ เม ภิกษะวะห์ ปุรวะมะศรุเตษุ ธรรเมษุ โยนิโศมะนะสิการาทพะหุลีการาชชญานะมุตปันนัม จักษุรุตปันนัม วิทโยตปันนา ภูริรุตปันนา เมโฆตปันนา ปรัชโญตปันนา อาโลกะห์ ปราทุรภูตะห์ฯ อะยัม ทุห์ขะสะมุทะยะ อิติ เม ภิกษะวะห์ ปูรวะมะศรุเตษุ ธรรเมษุ โยนิโศมะนะสิการาทพะหุลีการาชชญานะมุตปันนัม จักษุรุตปันนัม วิทโยตปันนา ภูริรุตปันนา เมโฆตปันนา ปรัชโญตปันนา อาโลกะห์ ปราทุรภูตะห์ฯ อะยัม ทุห์ขะนิโรธะ อิติ เม ภิกษะวะห์ สรรวะม ปูรวะวัทยาวะทาโลกะห์ ปราทุรภูตะห์ฯ อิยัม ทุห์ขะนิโรธะคามินี ประติปะทิติ เม ภิกษะวะห์ ปูรวะวะเทวะ เปยาลัม ยาวะทาโลกะห์ ปราทุรภูตะห์ฯ ยัตขัลวิทัม ทุห์ขัม ปะริชเญยะมิติ เม ภิกษะวะห์ ปูรวะวะเทวะ เปยาลัม ยาวะทาโลกะห์ ปราทุรภูตะห์ฯ สะ ขัลวะยัม ทุห์ขะสะมุทะยะห์ ประหาตะวยะ อิติ เม ภิกษะวะห์ ปูรวะมะศระเตษุ ธรรเมษุ สรรวะม ยาวะทาโลกะ อิติฯ สะ ขัลวะยัม ทุห์ขะนิโรธะห์ สากษาตกรรตะวยะ อิติ เม ภิกษะวะห์ ปูรวะวัทยาวะทาโลกะ อิติฯ สา ขัลวิยัม ทุห์ขะนิโรธะคามินี ประติปัทภาวะยิตะวเยติ ปูรวะวัทยาวะทาโลกะ อิติฯ ตัตขัลวิทัม ทุห์ขัม ปะริชญาตะมิติ เม ภิกษะวะห์ ปูรวะมะศระเตษุ อิติ เปยาลัมฯ สะ ขัลวะยัม ทุห์ขะสะมุทะยะห์ ประหีณะ อิติ เม ภิกษะวะห์ ปูรวะมะศรุเตติ เปยาลัมฯ สะ ขัลวะยัม ทุห์ขะนิโรธะห์ สากษาตกฤตะ อิติ เม ภิกษะวะห์ ปูรวะมะศรุเตติ เปยาลัมฯ สา ขัลวิยัม ทุห์ขะนิโรธะคามินี ประติปัทภาวิเตติ เม ภิกษะวะห์ ปูรวะมะศรุเตษุ ธรรเมษุ โยนิโศมะนะสิการาทพะหุลีการาชชญานะมุตปันนัม จักษุรุตปันนัม ภูริรุตปันนา วิทโยตปันนา เมโธตปันนา ปรัชโญตปันนา อาโลกะห์ ปราทูรภูตะห์๚
  114. อิติ หิ ภิกษะโว ยาวะเทวะ เม เอษุ จะตุรษวารยะสัตเยษุ โยนิโศ มะนะสิ กุรวะโต เอวัม ตริปะริวรรตัม ทวาทะศาการัม ชญานะทรรศะนะมุตปัทยะเต, นะ ตาวะทะหัม ภิกษะโว'นุตตะราม สัมยักสัมโพธิมะภิสัมพุทโธ'สมิ อิติ ประติชญาสิษัมฯ นะ จะ เม ชญานะทรรศะนะมุตปัทยะเตฯ ยะตัศจะ เม ภิกษะวะ เอษุ จะตุรษวารยะสัตเยษเววัม ตริปะริวรรตัม ทวาทะศาการัม ชญานะทรรศะนะมุตปันนัม, อะโกปยา จะ เม เจโตวิมุกติห์, ปรัชญาวิมุกติศจะ สากษาตกฤตา, ตะโต'หัม ภิกษะโว'นุตตะราม สัมยักสัมโพธิมะภิสัมพุทโธ'สมิ อิติ ประติชญาสิษัมฯ ชญานะทรรศะนัม เม อุทะปาทิฯ กษีณา เม ชาติห์, อุษิตัม พรหมะจรรยัม, กฤตัม กะระณียัม, นาปะรัสมาทภะวัม ประชานามิ๚
  115. ตะเตรทะมุจยะเตฯ
  116. วาจายะ พรหมะรุตะ กินนะระครรชิตายะ
  117. อัมไศห์ สะหะสระนะยุเตภิ สะมุทคะตายะฯ
  118. พะหุกัลปะโกฏิ สะทะ สัตยะสุภาวิตายะ
  119. เกาณฑินยะมาละปะติ ศากยะมุนิห์ สวะยัมภูห์๚๓๑๚
  120. จักษุระนิตยะมะธรุวัม ตะถะ โศรตะ ฆราณัม
  121. ชิหวา ปิ กายะ มะนะ ทุห์ขา อะนาตมะ ศูนยาฯ
  122. ชะฑาสวะภาวะ ตฤณะกุฑมะ อิวา นิรีหา
  123. ไนวาตระ อาตมะ นะ นะโร นะ จะ ชีวะมัสติ๚๓๒๚
  124. เหตุม ประตีตยะ อิมิ สัมภุตะ สรรวะธรรมา
  125. อัตยันตะทฤษฏิวิคะตา คะคะนะประกาศาฯ
  126. นะ จะ การะโก'สติ ตะถะ ไนวะ จะ เวทะโก'สติ
  127. นะ จะ กรรมะ ปัศยะติ กฤตัม หยะศุภัม ศุภัม วา๚๓๓๚
  128. สกันธา ประตีตยะ สะมุเทติ หิ ทุห์ขะเมวัม
  129. สัมโภนติ ตฤษณะ สะลิเลนะ วิวรรธะมานาฯ
  130. มารเคณะ ธรรมะสะมะตายะ วิปัศยะมานา
  131. อัตยันตักษีณะ กษะยะธรรมะตะยา นิรุทธาห์๚๓๔๚
  132. สังกัลปะกัลปะชะนิเตนะ อะโยนิเศนะ
  133. ภะวะเต อะวิทยะ นะ ปิ สัมภะวะโก'สยะ กัศจิฯ
  134. สัมสการะเหตุ ทะทะเต นะ จะ สังกระโม'สติ
  135. วิชญานะมุทภะวะติ สังกระมะณัม ประตีตยะ๚๓๕๚
  136. วิชญานะ นามะ ตะถะ จะ รูปะ สะมุตถิตาสติ
  137. นาเม จะ รูปิ สะมุเทนติ ษะฑินทริยาณิฯ
  138. ษะฑินทิไยรนิปะติโต อิติ สปรรศะ อุกตะห์
  139. สปรรเศนะ ติสระ อะนุวรรตะติ เวทะนา จะ๚๓๖๚
  140. ยัตกิญจิ เวทะยิตุ สรรวะ สะตฤษณะ อุกตา
  141. ตฤษณาตะ สรรวะ อุปะชายะติ ทุห์ขัสกันธะห์ฯ
  142. อุปาทานะโต ภะวะติ สรรวะ ภะวะประวฤตติห์
  143. ภะวัปรัตยะยา จะ สะมุเทติ หิ ชาติรัสยะ๚๓๗๚
  144. ชาตีนิทานะ ชะระวยาธิทุขานิ โภนติ
  145. อุปะปัตติ ไนกะ วิวิธา ภะวะปัญชะเร'สมินฯ
  146. เอวะเมษะ สรรวะ อิติ ปรัตยะยะโต ชะคัสยะ
  147. นะ จะ อาตมะ ปุทคะลุ นะ สังกระมะโก'สติ กัศจิ๚๓๘๚
  148. ยัสมินนะ กัลปุ นะ วิกัลปุ โยนิมาหุห์
  149. ยัทโยนิโศ ภะวะติ นะ ตะตระ อะวิทยะ กาจิฯ
  150. ยัสมินนิโรธุ ภะวะตีหะ อะวิทยะตายาห์
  151. สรรเว ภะวางคะ กษะยักษีณะ กษะยัม นิรุทธา๚๓๙๚
  152. เอวะเมษะ ปรัตยะยะตะ พุทธะ ตะถาคะเตนะ
  153. เตนะ สวะยัมภุ สวะกะมาตมะนุ วยากะโรติฯ
  154. นะ สกันธะ อายะตะนะ ธาตุ วะเทมิ พุทธัม
  155. นานยะตระ เหตวะวะคะมาทภะวะตีหะ พุทธะห์๚๔๐๚
  156. ภูมิรนะ จาตระ ปะระตีรถิกะ นิห์สฤตานาม
  157. ศูนยา ประวาทิ อิหะ อีทฤศะ ธรรมะโยเคฯ
  158. เย ปูรวะพุทธะจะริตา สุวิศุทธะสัตตวาห์
  159. เต ศักนุวันติ อิมิ ธรรมะ วิชานะนายะ๚๔๑๚
  160. เอวัม หิ ทวาทะศาการัม ธรรมะจะกรัม ประวรรติตัมฯ
  161. เกาณฑินเยนะ จะ อาชญาตัม นิรวฤตตา ระตะนา ตระยะห์๚๔๒๚
  162. พุทโธ ธรรมัศจะ สังฆัศจะ อิตเยตะทระตะนะตระยัมฯ
  163. ปะรัสปะราม คะตะห์ ศัพโท ยาวัท พรหมะปุราละยัม๚๔๓๚
  164. วรรติตัม วิระชัม จะกรัม โลกะนาเถนะ ตายินาฯ
  165. อุตปันนา ระตะนา ตรีณิ โลเก ปะระมะทุรละภา๚๔๔๚
  166. เกาณฑินยัม ประถะมัม กฤตวา ปัญจะกาศไจวะ ภิกษะวะห์ฯ
  167. ษัษฏีนาม เทวะโกฏีนาม ธรรมะจักษุรวิโศธิตัม๚๔๕๚
  168. อันเย จาศีติโกฏยัสตุ รูปะธาตุกะเทวะตาห์ฯ
  169. เตษาม วิโศธิตัม จักษุ ธรรมะจักระประวรรตะเน๚๔๖๚
  170. จะตุระศีติสะหะสราณิ มะนุษยาณาม สะมาคะตาฯ
  171. เตษาม วิโศธิตัม จักษุ มุกตา สรรเวภิ ทุรคะตี๚๔๗๚
  172. ทะศะทิศะตุ อะนันตะ พุทธัสวะโร คัจฉิ ตัสมิม กษะเณ
  173. รุตะ มะธุระ มะโนชญะ สัมศรูยันเต จานตะรีกเษ ศุภะฯ
  174. เอษะ ทะศะพะเลนะ ศากยรรษิณา ธรรมะจะโกรตตะมัม
  175. ฤษิปะตะนะมุเปตยะ วาราณะสี วรรติโต นานยะถา๚๔๘๚
  176. ทะศะ ทิศิตะ ยิ เกจิ พุทธะศะตา สรรวิ ตูษณีภุตาห์
  177. เตษะ มุนินะเย อุปัสถายะกาห์ สรรวิ ปฤจฉี ชินามฯ
  178. กิมิติ ทะศะพะเลภิ ธรรมากะถา ฉินนะ ศรุตวา รูตัม
  179. สาธุ ภะณะตะ ศีฆระ กิม การะณัม ตูษณีภาเวนะ สถิตาห์๚๔๙๚
  180. ปุรวะภะวะศะเตภิ วีรยาพะไล โพธิ สะมุทานิยา
  181. พะหะวะ ศะตะสะหะสระ ปัศจานมุขา โพธิสัตตวา กฤตาห์ฯ
  182. เตนะ หิตะกะเรณะ อุตตัปตะตา ปราปตะ โพธิห์ ศิวา
  183. จะกระ ตริปะริวรรตะ ปราวรรติตา เตนะ ตูษณีภุตาห์๚๕๐๚
  184. อิมุ วะจะนะ ศรุณิตวะ เตษาม มุนีสัตตวะโกฏยะห์ ศะตา
  185. ไมตระพะละ ชะนิตวะ สัมปรัสถิตา อะคระโพธิม ศิวามฯ
  186. วะยะมะปิ อะนุศิกษิ ตัสยา มุเน วีรยัสถาโมทคะตัม
  187. กษิประ ภะเวมะ โลกิ โลโกตตะมา ธรรมะจักษุรทะทาห์๚๕๑๚อิติ๚
  188. อะถะ ขะลุ ไมเตรโย โพธิสัตตโว มะหาสัตตโว ภะคะวันตะเมตะทะโวจัต-อิเม ภะคะวัน ทะศะทิคโลกะธาตุสันนิปะติตา โพธิสัตตวา มะหาสัตตวา ภะคะวะตะห์ สะกาศาทธรรมะจักระประวรรตะนะวิกุรวะณัสยะ ประเวศัม โศรตุกามาห์ฯ ตัตสาธุ ภะคะวาน เทศะยะตุ ตะถาคะโต'รหัน สัมยักสัมพุทธะห์ กิยะทรูปัม ตะถาคะเตนะ ธรรมะจะกรัม ประวรรติตัม? ภะคะวานาหะ-คัมภีรัม ไมเตรยะ ธรรมะจะกรัม คราหานุปะลัพธิตวาตฯ ทุรทรรศัม ตัจจะกรัม ทวะยะวิคะตัตวาตฯ ทุระนุโพธัม ตัจจะกรัม มะนะสิการามะนะสิการัตวาตฯ ทุรวิชญานัม ตัจจะกรัม ชญานะวิชญานะสะมะตานุพัทธัตวาตฯ อะนาวิลัม ตัจจะกรัม อะนาวะระณะวิโมกษะประติลัพธัตวาตฯ สูกษมัม ตัจจะกรัม อะนุปะโมปันยาสะวิคะตัตวาตฯ สารัม ตัจจะกรัม วะโชรปะมัชญานะประติลัพธัตวาตฯ อะเภทยัม ตัจจะกรัม ปูรวานตะสัมภะวัตวาตฯ อะประปัญจัม ตัจจะกรัม สรรวะประปัญโจปารัมภะวิคะตัตวาตฯ
  189. อะโกปยัม ตัจจะกรัม อัตยันตะนิษฐัตวาตฯ สรรวะตรานุคะตัม ตัจจะกรัม อากาศะสะทฤศัตวาตฯ ตัตขะลุ ปุนรรไมเตรยะ ธรรมะจะกรัม สรรวะธรรมะประกฤติสวะภาวัม สันทรรศะนะวิภะวะจะกรัม อะนุตปาทานิโรธาสัมภะวะจะกรัม อะนาละยะจะกรัม อะกัลปาวิกัลปะธรรมะนะยะวิสตีระณะจะกรัม ศูนยะตาจะกรัม อะนิมิตตะจะกรัม อะประณิหิตะจะกรัม อะนะภิสัมสการะจะกรัม วิเวกะจะกรัม วิราคะจะกรัม วิโรธะจะกรัม ตะถาคะตานุโพธะจะกรัม ธรรมะธาตวะสัมเภทะจะกรัมฯ ภูตะโกฏยะวิโกปะนะจะกรัม อะสังคานาวะระณะจะกรัม ประตีตยาวะตาโรภะยานตะทฤษฏิสะมะติกระมะณะจะกรัม อะนันตะมัธยะธรรมะธาตวะวิโกปะนะจะกรัม อะนาโภคะพุทธะการยะประติปรัศรัพธะจะกรัม อะประวฤตยะภินิรวฤตติจะกรัม อัตยันตานุปะลัพธิจะกรัม อะนายูหานิรยูหะจะกรัม อะนะภิลาปยะจะกรัม ประกฤติยะถาวัจจะกรัม เอกะวิษะยะสรรวะธรรมะสะมะตาวะตาระจะกรัม อักษะณะสัตตวะวินะยาธิษฐานัปรัตยุทาวรรตยะจะกรัม อัทวะยะสะมาโรปะปะระมารถะนะยะประเวศะจะกรัม ธรรมะธาตุสะมะวะสะระณะจะกรัมฯ อะเปรมะยัม ตัจจะกรัม สรรวะประมาณาติกรานตัมฯ อะสังขเยยัม ตัจจะกรัม สรรวะสังขยาปะคะตัมฯ อะจินตยัม ตัจจะกรัม จิตตะปะถะสะมะติกรานตัมฯ อะตุลยัม ตัจจะกรัม ตุลาปะคะตัมฯ อะนะภิลาปยัม ตัจจะกรัม สรรวะรุตะโฆษะวากปะถาตีตัมฯ อะประมาณะมะนุปะมะมุปะมาคะตะมากาศะสะมะสะทฤศะมะนุจเฉทะมะศาศวะตัม ประตีตยาวะตาราวิรุทธะศานตะมัตยันโตปะศะมัม ตัตตวัม ตะถาวิตะถานันยะถานันยะถีภาวัม สรรวะสัตตวะรุตะจะระณัมฯ นิคระโห มาราณาม ปะราชะยัสตีรถิกานาม สะมะติกรามะณัม สัมสาระวิษะยาทะวะตาระณัม พุทธะวิษะเย ปะริชญาตะมารยะปุทคะไลระนุพัทธัม ปรัตเยกะพุทไธห์ ปะริคฤหีตัม โพธิสัตตไวห์ สตุตัม สรรวะพุทไธระสัมภินนัม สรรวะตะถาคะไตห์ฯ เอวะมรูปัม ไภเตรยะ ตะถาคะเตนะ ธรรมะจะกรัม ประวรรติตัม ยัสยะ ประวรรตะนาตตะถาคะตะ อิตยุจยะเตฯ สัมยักสัมพุทธะ อิตยุจยะเตฯ สวะยัมภูริตยุจยะเตฯ ธรรมัสวามีตยุจยะเตฯ นายะกะ อิตยุจยะเตฯ วินายะกะ อิตยุจยะเตฯ ปะริณายะกะ อิตยุจยะเตฯ สารถะวาหะ อิตยุจยะเตฯ สรรวะธรรมะวะศะวรรตีตยุจยะเตฯ ธรรเมศวะระ อิตยุจยะเตฯ ธรรมะจักระประวรรตีตยุจยะเตฯ ธรรมะทานะปะติริตยุจยะเตฯ ยัชญัสวามีตยุจยะเตฯ สุยัษฏะยัชญะ อิตยุจยะเตฯ สิทธิวระตะ อิตยุจยะเตฯ ปูรณาภิปรายะ อิตยุจยะเตฯ เทศิกะ อิตยุจยะเตฯ อาศวาสะกะ อิตยุจยะเตฯ กเษมังกะระ อิตยุจยะเตฯ ศูระ อิตยุจยะเตฯ ระณัญชะหะ อิตยุจยะเตฯ วิชิตะสังครามะ อิตยุจยะเตฯ อุจฉริตะฉัตรัธวะชะปะตากะ อิตยุจยะเตฯ อาโลกะกะระ อิตยุจยะเตฯ ประภังกะระ อิตยุจยะเตฯ ตะโมนุทะ อิตยุจยะเตฯ อุลกาธารีตยุจยะเตฯ มะหาไวทยะราชะ อิตยุจยะเตฯ ภูตะจิกิตสะกะ อิตยุจยะเตฯ มะหาศัลยะหรรตา อิตยุจยะเตฯ วิติมิรัชญานะทรรศะนะ อิตยุจยะเตฯ สะมันตะทรรศีตยุจยะเตฯ สะมันตะวิโลกิตะ อิตยุจยะเตฯ สะมันตะจักษุริตยุจยะเตฯ สะมันตะประภะ อิตยุจยะเตฯ สะมันตาโลกะ อิตยุจยะเตฯ สะมันตะมุขะ อิตยุจยะเตฯ
  190. สะมันตะประภากะระ อิตยุจยะเตฯ สะมันตะจันทระ อิตยุจยะเตฯ สะมันตะปราสาทิกะ อิตยุจยะเตฯ อะประติษฐานายูหานิรยูหะ อิตยุจยะเตฯ ธะระณีสะมะ อิตยุจยะเต อะนุนนะตาวะนะตัตวาตฯ ไศเลนทระสะมะ อิตยุจยะเต อะประกัมปยัตวาตฯ สรรวะโลกะศรีริตยุจยะเต สรรวะโลกะคุณะสะมันวาคะตัตวาตฯ อะนะวะโลกิตะมูรธะ อิตยุจยะเต สรรวะโลกาภยุทคะตัตวาตฯ สะมุทระกัลปะ อิตยุจยะเต คัมภีระทุระวะคาหัตวาตฯ ธรรมะรัตนากะระ อิตยุจยะเต สรรวะโพธิปากษิกะธรรมะรัตนะประติปูรณัตวาตฯ วายุสะมะ อิตยุจยะเต อะนิเกตัตวาตฯ อะสังคะพุทธิริตยุจยะเต อะสักตาพัทธามุกตะจิตตัตวาตฯ อะไววรรติกะธรรมะ อิตยุจยะเต สรรวะธรรมะนิรเวธิกัชญานัตวาตฯ เตชะห์สะมะ อิตยุจยะเต ทุราสะทะสรรวะมะนะนาประหีณะสรรวะกเลศะทาหัปรัตยุปัสถานัตวาตฯ อัปสะมะ อิตยุจยะเต อะนาวิละสังกัลปะนิรมะละกายะจิตตะวาหิตะปาปัตวาตฯ อากาศะสะมะ อิตยุจยะเต อะสังคัชญานะวิษะยานันตะมัธเยธรรมะธาตุโคจะรัชญานาภิชญัปราปตัตวาตฯ อะนาวะระณัชญานะวิโมกษะวิหารีตยุจยะเต นานาวะระณียะธรรมะสุประหีณัตวาตฯ สรรวะธรรมะธาตุประสฤตะกายะ อิตยุจยะเต คะคะนะสะมะจักษุห์ปะถะสะมะติกรานตัตวาตฯ อุตตะมะสัตตวะ อิตยุจยะเต สรรวะโลกะวิษะยาสังกลิษฏัตวาตฯ อะสังคะสัตตวะ อิตยุจยะเตฯ อะประมาณะพุทธิริตยุจยะเตฯ โลโกตตะระธรรมะเทศิกะ อิตยุจยะเตฯ โลกาจารยะ อิตยุจยะเตฯ โลกะไวทยะ อิตยุจยะเตฯ โลกาภยุทคะตะ อิตยุจยะเตฯ โลกะธรรมานุปะลิปตะ อิตยุจยะเตฯ โลกะนาถะ อิตยุจยะเตฯ โลกัชเยษฐะ อิตยุจยะเตฯ โลกัเศรษฐะ อิตยุจยะเตฯ โลเกศวะระ อิตยุจยะเตฯ โลกะมะหิตะ อิตยุจยะเตฯ โลกะปะรายะณะ อิตยุจยะเตฯ โลกะปารังคะตะ อิตยุจยะเตฯ โลกะประทีปะ อิตยุจยะเตฯ โลโกตตะระ อิตยุจยะเตฯ โลกะคุรุริตยุจยะเตฯ โลการถะกะระ อิตยุจยะเตฯ โลกานุวรรตะกะ อิตยุจยะเตฯ โลกะวิทิตยุจยะเตฯ โลกาธิปะเตยัปราปตะ อิตยุจยะเตฯ มะหาทักษิณียะ อิตยุจยะเตฯ ปูชารหะ อิตยุจยะเตฯ มะหาปุณยักเษตระ อิตยุจยะเตฯ มะหาสัตตวะ อิตยุจยะเตฯ อะคระสัตตวะ อิตยุจยะเตฯ วะระสัตตวะ อิตยุจยะเตฯ ประวะระสัตตวะ อิตยุจยะเตฯ อุตตะมะสัตตวะ อิตยุจยะเตฯ อะนุตตะระสัตตวะ อิตยุจยะเตฯ อะสะมะสัตตวะ อิตยุจยะเตฯ อะสะทฤศะสัตตวะ อิตยุจยะเตฯ สะตะตะสะมาหิตะ อิตยุจยะเตฯ สรรวะธรรมะสะมะตาวิหารีตยุจยะเตฯ มารคัปราปตะ อิตยุจยะเตฯ มารคะทรรศะกะ อิตยุจยะเตฯ มารคะเทศิกะ อิตยุจยะเตฯ สุประติษฐิตะมารคะ อิตยุจยะเตฯ มาระวิษะยะสะมะติกรานตะ อิตยุจยะเตฯ มาระมัณฑะละวิธวัมสะกะระ อิตยุจยะเตฯ อะชะรามะระศีตีภาวะ อิตยุจยะเตฯ วิคะตะตะโมนธะการะ อิตยุจยะเตฯ วิคะตะกัณฏะกะ อิตยุจยะเตฯ วิคะตะกางกษะ อิตยุจยะเตฯ วิคะตักเลศะ อิตยุจยะเตฯ วินีตะสัมศะยะ อิตยุจยะเตฯ วิมะติสะมุทธะฏิตะ อิตยุจยะเตฯ วิรักตะ อิตยุจยะเตฯ วิมุกตะ อิตยุจยะเตฯ วิศุทธะ อิตยุจยะเตฯ วิคะตะราคะ อิตยุจยะเตฯ วิคะตะโทษะ อิตยุจยะเตฯ วิคะตะโมหะ อิตยุจยะเตฯ กษีณาศระวะ อิตยุจยะเตฯ นิห์กเลศะ อิตยุจยะเตฯ วะศีภูตะ อิตยุจยะเตฯ สุวิมุกตะจิตตะ อิตยุจยะเตฯ สุวิมุกตะปรัชญะ อิตยุจยะเตฯ อาชาเนยะ อิตยุจยะเตฯ มะหานาคะ อิตยุจยะเตฯ กฤตะกฤตยะ อิตยุจยะเตฯ กฤตะกะระณียะ อิตยุจยะเตฯ อะปะหฤตะภาระ อิตยุจยะเตฯ อะนุปราปตัสวะการถะ อิตยุจยะเตฯ ปะริกษีณะภะวะสัมโยชะนะ อิตยุจยะเตฯ สะมะตาชญานะวิมุกตะ อิตยุจยะเตฯ สรรวะเจโตวะศิปะระมะปาระมิตาปราปตะ อิตยุจยะเตฯ ทานะปาระคะ อิตยุจยะเตฯ ศีลาภยุทคะตะ อิตยุจยะเตฯ กษานติปาระคะ อิตยุจยะเตฯ วีรยาภยุทคะตะ อิตยุจยะเตฯ ธยานาภิชญัปราปตะ อิตยุจยะเตฯ ปรัชญาปารังคะตะ อิตยุจยะเตฯ สิทธะประณิธานะ อิตยุจยะเตฯ มะหาไมตระวิหารีตยุจยะเตฯ
  191. มะหากะรุณาวิหารีตยุจยะเตฯ มะหามุทิตาวิหารีตยุจยะเตฯ มะโหเปกษาวิหารีตยุจยะเตฯ สัตตวะสังคระหะประยุกตะ อิตยุจยะเตฯ อะนาวะระณะประติสัมวิตปราปตะ อิตยุจยะเตฯ ประติศะระณะภูตะ อิตยุจยะเตฯ มะหาปุณยะ อิตยุจยะเตฯ มะหาชญานีตยุจยะเตฯ สมฤติมะติคะติพุทธิสัมปันนะ อิตยุจยะเตฯ สมฤตยุปัสถานะสัมยักประหาณะฤทธิปาเทนทริยะพะละโพธยังคะสะมรรถะวิทรรศะนาโลกัปราปตะ อิตยุจยะเตฯ อุตตีรณะสัมสารารณะวะ อิตยุจยะเตฯ ปาระคะ อิตยุจยะเตฯ สถะละคะตะ อิตยุจยะเตฯ กเษมัปราปตะ อิตยุจยะเตฯ อะภะยัปราปตะ อิตยุจยะเตฯ มรรทิตักเลศะกัณฏะกะ อิตยุจยะเตฯ ปุรุษะ อิตยุจยะเตฯ มะหาปุรุษะ อิตยุจยะเตฯ ปุรุษะสิมหะ อิตยุจยะเตฯ วิคะตะภะยะโลมะหรรษะณะ อิตยุจยะเตฯ นาคะ อิตยุจยะเตฯ นิรมะละ อิตยุจยะเตฯ ตริมะละมะละประหีณะ อิตยุจยะเตฯ เวทะกะ อิตยุจยะเตฯ ไตรวิทยานุปราปตะ อิตยุจยะเตฯ จะตุโรโฆตตีรณะ อิตยุจยะเตฯ ปาระคะ อิตยุจยะเตฯ กษะตริยะ อิตยุจยะเตฯ พราหมะณะ อิตยุจยะเตฯ เอกะรัตนะฉะตระธารีตยุจยะเตฯ วาหิตะปาระธรรมะ อิตยุจยะเตฯ ภิกษุริตยุจยะเตฯ ภินนาวิทยาณฑะโกศะ อิตยุจยะเตฯ ศระมะณะ อิตยุจยะเตฯ อรรถะสังคะปะถะสะมะติกรานตะ อิตยุจยะเตฯ โศรตริยะ อิตยุจยะเตฯ นิห์สฤตักเลศะ อิตยุจยะเตฯ พะละวานิตยุจยะเตฯ ทะศะพะละธารีตยุจยะเตฯ ภะคะวานิตยุจยะเตฯ ภาวิตะกายะ อิตยุจยะเตฯ ราชาติราชะ อิตยุจยะเตฯ ธรรมะราชะ อิตยุจยะเตฯ วะระประวะระธรรมะจักระประวรรตยะนุศาสะกะ อิตยุจยะเตฯ อะโกปยะธรรมะเทศะกะ อิตยุจยะเตฯ สรรวะชญัชญานาภิษิกตะ อิตยุจยะเตฯ อะสังคะมะหาชญานะวิมะละวิรุกตะปัฏฏะพัทธะ อิตยุจยะเตฯ สัปตะโพธยังคะรัตนะสะมันวาคะตะ อิตยุจยะเตฯ สรรวะธรรมะวิเศษัปราปตะ อิตยุจยะเตฯ สรรวารยะศราวะกามาตยาวะโลกิตะมุขะมัณฑะละ อิตยุจยะเตฯ โพธิสัตตวะมะหาสัตตวะปุตระปะริวาระ อิตยุจยะเตฯ สุวินีตะวินะยะ อิตยุจยะเตฯ สุวยากฤตะโพธิสัตตวะ อิตยุจยะเตฯ ไวศระวะณะสะทฤศะ อิตยุจยะเตฯ สัปตารยะธะนะวิศราณิตะโกศะ อิตยุจยะเตฯ ตยักตัตยาคะ อิตยุจยะเตฯ สรรวะสุขะสัมปัตติสะมันวาคะตะ อิตยุจยะเตฯ สรรวาภิปรายะทาเตตยุจยะเตฯ สรรวะโลกะหิตะสุขานุปาละกะ อิตยุจยะเตฯ อินทระสะมะ อิตยุจยะเตฯ ชญานะพะละวะชระธารี อิตยุจยะเตฯ สะมันตะเนตระ อิตยุจยะเตฯ สรรวะธรรมานาวะระณัชญานะทรรศีตยุจยะเตฯ สะมันตัชญานะวิกุรวะณะ อิตยุจยะเตฯ วิปุละธรรมะนาฏะกะทรรศะนะประวิษฏะ อิตยุจยะเตฯ จันทระสะมะ อิตยุจยะเตฯ สรรวะชะคะทะตฤปตะทรรศะนะ อิตยุจยะเตฯ สะมันตะวิปุละวิศุทธะประภะ อิตยุจยะเตฯ ปรีติปราโมทยะกะระประภะ อิตยุจยะเตฯ สรรวะสัตตวาภิมุขะทรรศะนาภาสะ อิตยุจยะเตฯ สรรวะชะคัจจิตตาศะยะภาชะนะประติภาสัปราปตะ อิตยุจยะเตฯ มะหาวยูหะ อิตยุจยะเตฯ ไศกษาไศกษัชโยติรคะณะปะริวาระ อิตยุจยะเตฯ อาทิตยะมัณฑะละสะมะ อิตยุจยะเตฯ วิธูตะโมหานธะการะ อิตยุจยะเตฯ มะหาเกตุราชะ อิตยุจยะเตฯ อะประมาณานันตะรัศมิริตยุจยะเตฯ มะหาวะภาสะสันทรรศะกะ อิตยุจยะเตฯ สรรวะปรัศนะวยากะระณะนิรเทศาสัมมูฒะ อิตยุจยะเตฯ มะหาวิทยานธะการะวิธวัมสะนะกะระ อิตยุจยะเตฯ มะหาชญานาโลกะวิโลกิตะพุทธินิรวิกัลปะ อิตยุจยะเตฯ มะหาไมตรีกฤปากะรุณาสรรวะชะคัตสะมะรัศมิประมุกตะประมาณะวิษะยะ อิตยุจยะเตฯ
  192. ปรัชญาปาระมิตาคัมภีระทุราสะทะทุรนิรีกษะมัณฑะละ อิตยุจยะเตฯ พรหมะสะมะ อิตยุจยะเตฯ ประศานเตรยาปะถะ อิตยุจยะเตฯ สรรเวรยาปะถะจรรยาวิเศษะสะมันวาคะตะ อิตยุจยะเตฯ ปะระมะรูปะธารี อิตยุจยะเตฯ อะเสจะนะกะทรรศะนะ อิตยุจยะเตฯ ศานเตนทริยะ อิตยุจยะเตฯ ศานตะมานะสะ อิตยุจยะเตฯ ศะมะถะสัมภาระปะริปูรณะ อิตยุจยะเตฯ อุตตะมะศะมะถัปราปตะ อิตยุจยะเตฯ ปะระมะทะมะศะมะถัปราปตะ อิตยุจยะเตฯ ศะมะถะวิทรรศะนาปะริปูรณะสัมภาระ อิตยุจยะเตฯ คุปโต ชิเตนทริโย นาคะ อิวะ สุทานโต หระทะ อิวาจโฉ'นาวิโล วิประสันนะ อิตยุจยะเตฯ สรรวะกเลศะวาสะนาวะระณะสุประหีณะ อิตยุจยะเตฯ ทวาตริมศันมะหาปุรุษะลักษะณะสะมันวาคะตะ อิตยุจยะเตฯ ปะระมะปุรุษะ อิตยุจยะเตฯ อะศีตยะนุวยัญชะนะปะริวาระวิจิตระระจิตะคาตระ อิตยุจยะเตฯ ปุรุษรรษะภะ อิตยุจยะเตฯ ทะศะพะละสะมันวาคะตะ อิตยุจยะเตฯ จะตุรไวศารัทยัปราปตานุตตะระปุรุษะทัมยะสาระถิริตยุจยะเตฯ ศาสเตตยุจยะเตฯ อัษฏาทะศาเวณิกะพุทธะธรรมะปะริปูรณะ อิตยุจยะเตฯ อะนินทิตะกายะวางมะนัสกรรมานตะ อิตยุจยะเตฯ สรรวาการะวะโรเปตะสุปะริโศธิตัชญานะทรรศะนะมัณฑะลัตวาจฉูนยะตาวิหารีตยุจยะเตฯ ประตีตยะสะมุตปาทะสะมะตาภิสัมโพธาทานิมิตตะวิหารีตยุจยะเตฯ ปะระมารถะสัตยะนะยะประติเวธาทะประณิหิตะวิหารีตยุจยะเตฯ สรรวะปรัสถานาลิปตัตวาทะนะภิสัมสการะโคจะระ อิตยุจยะเตฯ สรรวะสัมสการะประติปรัศรัพธัตวาทภูตะวาทีตยุจยะเตฯ ภูตะโกฏยะวิโกปิตัชญานะวิษะยัตวาทะวิตะถานันยะถาวาทีตยุจยะเตฯ ตะถะตาธรรมะธาตวากาศะลักษะณาลักษะณะวิษะยัตวาทะรัณยะธรรมะสุประติลัพธะ อิตยุจยะเตฯ มายามะรีจิสวัปโนทะกะจันทระประติศรุตกะประติภาสะสะมะตาสรรวะธรรมะวิหาริตวาทะโมฆะทรรศะนะศระวะณะ อิตยุจยะเตฯ
  193. ปะรินิรวาณะเหตุชะนะกัตวาทะโมฆะปะทะวิกระมีตยุจยะเตฯ สัตตวะวินะยะปะรากระมะวิกรานตัตวาทุตกษิปตะปะริเขทะ อิตยุจยะเตฯ อะวิทยาภะวะตฤษณาสะมุจฉินนัตวาตสถาปิตะสังกระมะ อิตยุจยะเตฯ ไนรยาณิกะประติปัตสุเทศะกัตวานนิรชิตะมารักเลศัปรัตยรรถิกะ อิตยุจยะเตฯ สรรวะมาระวิษะยะจรรยานะนุลิปตัตวาทุตตีรณะกามะปังกะ อิตยุจยะเตฯ กามะธาตุสะมะติกรานตัตวาตปาติตะมานัธวะชะ อิตยุจยะเตฯ รูปะธาตุสะมะติกรานตัตวาทุจฉริตะปรัชญาธวะชะ อิตยุจยะเตฯ อารุปยะธาตุสะมะติกรานตัตวาตสรรวะโลกะวิษะยะสะมะติกรานตะ อิตยุจยะเตฯ ธรรมะกายัชญานะศะรีรัตวานมะหาทรุมะ อิตยุจยะเตฯ อะนันตะคุณะรัตนัชญานะสังกุสุมิตะวิมุกติผะละสุสัมปันนัตวาทุทุมพะระปุษปะสะทฤศะ อิตยุจยะเตฯ ทุรละภะปราทุรภาวะทรรศะนัตวาจจินตามะณิรัตนะมะณิราชะสะมะ อิตยุจยะเตฯ ยะถานะยะนิรวาณะภิปรายะสุประติปูระณัตวาตสุประติษฐิตะปาทะ อิตยุจยะเตฯ ทีรฆะราตรัม ตยาคะศีละตะโปวระตะพรหมะจรรยะทฤฒะสะมาทานาจะลาประกัมปยัตวาทวิจิตรัสวัสติกะนันทยาวรรตะสะหะสราจักรางกิตะปาทะตะละ อิตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤศระมะณะพราหมะณะคุรุทักษิณียะธารมิกะรักษาปะริปาละนะตะยา ศะระณาคะตานาม จาปะริตยาคัตวาทายะตะปารษณิริตยุจยะเตฯ ทีรฆะราตรัม ปราณาติปาโตปะระตัตวาททีรฆางคุลีตยุจยะเตฯ ทีรฆะราตรัม ปราณาติปาตะไวระมัณยัมปะระสัตตวะสะมาทายะนัตวาทพะหุชะนะตราเตตยุจยะเตฯ ทีรฆะราตรัม ปราณาติปาตะไวระมัณยังคุณะวรรณะสัมประกาศะนัตวานมฤทุตะรุณะหัสตะปาทะ อิตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤศระมะณะพราหมะณะคุรุทักษิณีโยปัสถานะปะริจรรยาสนานานุเลปะนะสรรปิไตลาภยังคัสวะหัสตะศะรีระปะริกรรมะปะริเขทัตวาชชาลางคุลีหัสตะปาทะ อิตยุจยะเตฯ ทีรฆะราตรัม ทานะปริยะวัทยะตารถะกริยาสะมานารถะตาสังคระหะวัสตุชาเลนะ สัตตวะสังคระหะเกาศัลยัมสุศิกษิตัตวาทุจฉังคะปาทะ อิตยุจยะเตฯ ทีรฆะราตระมุตตะโรตตะริ วิศิษฏะตะระกุศะละมูลาธยาลัมพะนัตวาทูรธวางคะทักษิณาวรรตะโรมะกูปะ อิตยุจะเตฯ ทีรฆะราตรัม มาตาปิตฤศระมะณะพราหมะณะคุรุทักษิณียะตะถาคะตะไจตยะประทักษิณีกะระณะธรรมะศระวะณะจิตรีการะโรมะหรรษะณะปะระสัตตวะสัมหรรษะณะธรรมะเทศะนาประโยคัตวาเทเณยะชังฆะ อิตยุจยะเตฯ ทีรฆะราตรัม สัตกฤตยะ ธรรมะศระวะณะคระหะณะธาระณะวาจะนะวิชญาปะนารถะปะทะนิศจะยะนิสตีระณะเกาศัลเยนะ ชะราวยาธิมะระณาภิมุขานาม จะ สัตตวานาม ศะระณะคะมะนานุประทานะสัตกฤตยะธรรมะเทศะนาปะริภะวะพุทธิตวาตโกโศปะคะตะพัสติคุหยะ อิตยุจยะเตฯ
  194. ทีรฆะราตรัม ศระมะณะพราหมะณานาม ตะทันเยษาม จะ พรหมะจาริณาม พรหมะจรรยานุคระหะสรรวะปะริสการานุประทานะนัคนะพะลานุประทานะปะระทาราคะมะนะพรหมะจรรยะคุณะวรรณะสัมประกาศะนหรยะปัตราปยานุปาละนะทฤฒะสะมาทานัตวาตประลัมพะพาหุริตยุจยะเตฯ ทีรฆะราตรัม หัสตะสัมยะตะปาทะสัมยะตะสัตตวาวิเหฐะนะประโยคะไมตระกายะกรรมะวากกรรมะมะนัสกรรมะสะมันวาคะตัตวานนยะโครธะปะริมัณฑะละ อิตยุจยะเตฯ ทีรฆะราตรัม โภชะนะมาตราม ชญาตา อัลปาหาระโตทาระสัมยะมัคลานะไภษัชยานุประทานะหีนะชะนาปะริภะวานาถานะวะมรรทะนะตะถาคะตะไจตยะวิศีรณะประติสัมสการะณัสตูปะประติษฐาปะนัตวาทภะยารทิเตภยัศจะ สัตตเวภโย'ภะยะประทานัตวานมฤทุตะรุณะสูกษมัจฉะวิริตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤศระมะณะพราหมะณะคุรุทักษิณียานาม สนานานุเลปะนะสรรปิสไตลาภยังคะศีเต อุษโณทะกะมุษเณ ศีโตทะกัจฉายาตะปะฤตุสุขะปะริโภคานุประทานะมฤทุตะรุณะตูละสัมสปรรศะสุกุมาระวัสตราสตีรณะศะยะนาสะนานุประทานะตะถาคะตะ-ไจตยะคันธะไตละเสกะสูกษมะปัฏฏัธวะชะปะตากาคุณะประทานัตวาตสุวรรณัจฉะวิริตยุจยะเตฯ ทีรฆะราตรัม สรรวะสัตตวาประติฆาตะไมตรีภาวะนาโยคักษานติเสารัตเยปะระสัตตวะสะมาทาปะนาไวระวยาปาทะคุณะวรรณะสัมประกาศะนะตะยา ตะถาคะตะไจตยะตะถาคะตะประติมานาม จะ สุวรรณะขะจะนะสุวรรณะปุษปะสุวรรณะจูรณาภิกิระณะสุวรรณะวรรณะปัฏฏะปะตากาธวะชาลังการะสุวรรณะภาชะนะสุวรรณะวัสตรานุประทานัตวาเทไกกะนิจิตะโรมะกูปะ อิตยุจยะเตฯ ทีรฆะราตรัม ปัณฑิโตปะสังกระมะณะกิงกุศะลากุศะละปะริปฤจฉะนะสาวัทยานะวัทยะเสวยะหีนะมัธยะประณีตะธรรมะปะริปฤจฉะนารถะมีมามสะนะปะริตุละนาสัมโมหะ-ตะถาคะตะไจตยะกีฏะลูตาละยาญชะลิยานิรมาลยะนานาตฤณะศรรกะราสะมุทธะระณะสัมประโยคัตวาตสัปโตตสะทะ อิตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤชเยษฐัเศรษฐะปูชยะศระมะณะพราหมะณะกฤปะณะวะนีปะกาทิภยะ อุปาคะเตภยะห์ สัตกฤตยะ ยะถาภิปรายะมันนะปานาสะนะวัสตราปะศระยะประทีปะกัลปิตะชีวิกะปะริสการะสัมประทานะกูปะปุษกะริณีศีตะชะละปะรีปูรณะมะหาชะโนปะโภคานุประทานะ-
  195. ตวาตสิมหะปูรวารธะกายะ อิตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤศระมะณะพราหมะณะคุรุทักษิณียาวะนะมะนะประณะมะนาภิวาทะนาภะยะประทานะทุรพะลาปะริภะวะศะระณาคะตาปะริตยาคะทฤฒะสรรคะทานานุตสรรคัตวาจจิตานตะรามสะ อิตยุจยะเตฯ ทีรฆะราตรัม สวะโทษะปะริตุละนัปรัสขะลิตะปะระฉิทราโทษะทรรศะนะวิวาทะมูละปะระเภทะกะระมันตระปะริวรรชะนะสุประตินิสสรรคะมันตรัสวารักษิตะวากกรรมานตัตวาตสุสัมวฤตตะ- สกันธะ อิตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤศระมะณะพราหมะณะคุรุทักษิณียานาม ปรัตยุตถานัปรัตยุทระมะนาภิวาทะนะกามานาม จะ สรรวะศาสตระไวศารัทเยนะ วิวาทะกามะสัตตวะนิคระหัสวะธรรมะวินะยานุโลมะนะสัมยักประวฤตตะราชามาตยะสัมยักประวฤตตะกุศะละธรรมะปะถะประติษฐาปะนะประภาวะนะตะถาคะตะศาสะนะ-
  196. ปะริคระหะสันธาระณะสรรวะกุศะละจรรยาสะมาทาปะนะ ปูรวังคะมัตวาตสิมหะหะนุริตยุจยะเตฯ ทีรฆะราตรัม สรรวะวัสตุปะริตยาคะยะถาภิปรายะยาจะนะกะปริยาภิธานะมุปะสังกรานตานาม จาวิมานะนาชิหมีกะระณาวิกเษปัม สรรเวษาม ยะถาภิปรายะปะริปูระณะทานะปะริตยาคะทฤฒะสะมาทานานุตสรรคัตวาจจัตวาริมศัตสะมะทันตะ อิตยุจยะเตฯ ทีรฆะราตรัม ปิศุนะวะจะนะปะริวรรชะนะเภทะมันตราคระหะณะสันธิสามะครีโรจะนะสะมะคราณาม เจทาจิตเตนะ ปิศุนะวะจะนะวิครรหะณะสันธิสามะครีคุณะวรรณะประกาศะนะประโยคัตวาตสุศุกละทันตะ อิตยุจยะเตฯ ทีรฆะราตรัม กฤษณะปักษะปะริวรรชะนะศุกละปักษะกุศะโลปะจะยะกฤษณะกรรมะกฤษณะวิปากะปะริวรรชะนะศุกละกรรมะศุกละวิปากะสัมวรรณะนักษีระโภชะนะศุกละวัสตระประทานะตะถาคะตะไจตเยษุ สุธากฤตะกักษีระมิศระสัมประทานะสุมะนาวารษิกีธานุสการิมาลาคุณะปุษปะทามะศุกละวรรณะกุสุมานุประทานัตวาทะวิระละทันตะ อิตยุจยะเตฯ
  197. ทีรฆะราตรัม หาสโยจจัฏยะนะวิวรรชะนานันทะกะระณะวาคะนุรักษะณานันทะกะระณะวาคุทีระณะปะรัสขะลิตาปะระฉิทราปะริมารคะณะสรรวะสัตตวะสะมะจิตตะสะมาทาปะนะสะมะประโยคะ- สะมะธรรมะเทศะนะทฤฒะสะมาทานาปะริตยาคัตวาทระสะระสาคระวานิตยุจยะเตฯ ทีรฆะราตรัม สรรวะสัตตวาวิเหฐะนาวิหิมสะนะวิวิธะวยาธิสปฤษโฏปัสถานัคลานะไภษัชยานุประทานัตวาตสรรวะระสารถิเกภยัศจะ สรรวะระสะประทานาปะริเขทัตวาทพหมัสวะระ อิตยุจยะเตฯ ทีรฆะราตระมะนฤตะปะรุษะกรรกะศะศาฐยะปะระกะฏุกะปะราภิษังคินยะปริยะปะระมรรภะฆัฏฏะนะวากปะริวรรชะนะไมตรีกะรุณาประโยคะมุทิตาปราโมทยะกะระณี-สนิคธะมะมะธุรัศลักษณะหฤทะยังคะมะสรรเวนทริยะปรหลาทะกะระณีสัมยัควากยะสัมยักประโยคัตวาทะภินีละเนตระ อิตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤวัตสรรวะสัตตวาประติหะตะจักษุประโยไคกะปุตระวัทยาจะนะกะไมตรีการุณยะปูรวังคะมะสัมเปรกษะณาชิหมีกะระณะประสันเนนทริยะตะถาคะตะ-ไจตยานิมิษะนะยะนะสัมเปรกษะณะปะระสัตตวะตะถาคะตะทรรศะนะสะมาทาปะนะทฤฒะสะมาทานัตวาทโคเปกษะเนตระ อิตยุจยะเตฯ ทีรฆะราตรัม หีนะเจโตวิวรรชะโนทาระวิปุลาธิมุกติปะริปูระณานุตตะระธรรมะฉันทะสัตตวะสะมาทาปะนะภฤกุฏีมุขะวิวรรชะนัสมิตะมุขะสรรวะ- กัลยาณะมิโตรปะสังกระมะณาภิมุขะปูรวังคะมะสรรวะกุศะโลปะจะยาไววรรติกัตวาประภูตะชิหวะ อิตยุจยะเตฯ ทีรฆะราตรัม สรรวะวาคโทษะวิวรรชะนะสรรวะศราวะกัปรัตเยกะพุทธะธรรมะภาณะกาประมาณะคุณะวรรณะสัมประกาศะนะตะถาคะตะสูตรานตะลิขะนะวาจะนะปะฐะนะวิชญาปะนัม เตษาม จะ ธรรมาณามรรถะปะทะประเภทะปะระสัตตวะสัมปราปะณะเกาศัลยัตวาทุษณีษานะวะโลกิตะมูรธะ อิตยุจยะเตฯ ทีรฆะราตรัม มาตาปิตฤศระมะณะพราหมะณะคุรุทักษิณียานาม มูรธนาม จะระณะตะละประณิปะตะนัประวระชิตะวันทะนาภิวาทะนะเกศาวะโรปะณะสุคันธะไตละมูรธนิปะริษิญจะนัม สรรวะยาจะนะเกภยัศจูรณะมาลยะมาลาคุณะมูรธาภะระณานุประทานัตวาท ภรูมัธเย สุชาตะประทักษิณาวรรโตตตัปตะวิศุทธะวรรณาภาโสรณะ อิตยุจยะเตฯ ทีรฆะราตรัม นิรรรคะละสรรวะยัชญะยะชะนะสะมาทะปะนะสรรวะกัลยาณะมิตรานุศาสันยะนุทธะระธรรมะภาณะกานาม เทาตยัเปรกษะเณ ทิคคะมะนาคะมะนาปะริเขทะนะสรรวะพุทธะโพธิสัตตวัปรัตตเยกะพุทธารยะศราวะกะธรรมะภาณะกะมาตาปิตฤคุรุทักษิณียะตะโมนธะการะวิธะมะนะไตละ-ธฤตะตฤโณลกาประทีปะนานาคันธะไตละประทีปะสรรวาการะวะโรเปตะปราสาทิกะตะถาคะตะประติมาการะณักษีระประติภาสะรัตโนตตีรณะโกศะประติมัณฑะนะ-
  198. ปะระสัตตวะโพธะจิตตามุขีกะระณะกุศะละสัมภาระวิเศษัตวานมะหาสถามัปราปตะ อิตยุจยะเตฯ มะหานารายะณะพะโลเปตัตวานมะหานารายะณะ อิตยุจยะเตฯ โกฏีศะตะมาระธรรษะณะพะโลเปตัตวาตสรรวะปะระประมรรทะกะ อิตยุจยะเตฯ ทะศะตะถาคะตะพะโลเปตัตวาททะศะตะถาคะตะพะโลเปตะ อิตยุจยะเตฯ
  199. สถานาสถานัชญานะกุศะละหีนะปราเทศิกะยานะวิวรรชะนะมะหายานะคุณะสะมุทานะยะนะพะโลเปตาตฤปตะพะละประโยคัตวาตสถานัชญานะพะโลเปตะ อิตยุจยะเตฯ อะตีตานาคะตัปรัตยุตปันนะกรรมะสะมาทานะเหตุโศวิปากะโศชญานะพะโลเปตัตวาทะตีตานาคะตัปรัตยุตปันนะสรรวะกรรมะสะมาทานะเหตุวิปากัชญานะพะโลเปตะ อิตยุจยะเตฯ สรรวะสัตตเวนทริยะวีรยะวิมาตระตาชญานะพะโลเปตัตวาตสรรวะสัตตเวนทริยะวีรยะวิมาตระตาชญานะพะโลเปตะ อิตยุจยะเตฯ อะเนกะธาตุนานาธาตุโลกะประเวศัชญานะพะโลเปตัตวาทะเนกะธาตุนานาธาตุโลกะประเวศัชญานะพะโลเปตะ อิตยุจยะเตฯ อะเนกาธิมุกตินานาธิมุกตินิระวะเศษาธิมุกติวิมุกติชญานะพะโลเปตัตวาทะเนกาธิมุกตินานาธิมุกติสรรวะนิระวะเศษาธิมุกติชญานะพะโลเปตะ อิตยุจยะเตฯ สรรวะตระคามินีประติปัชชญานะพะโลเปตัตวาตสรรวะตระคามินีประติปัชชญานะพะโลเปตะ อิตยุจยะเตฯ สรรวะธยานะวิโมกษะสะมาธิสะมาปัตติสังกเลศะวยะวะทานะวยะวัสถาปะนัชญานะพะโลเปตัตวาสรรวะธยานะวิโมกษะสะมาธิสะมาปัตติสังกเลศะ-วยะวะทานะวยะวัสถาปะนัชญานะพะโลเปตะ อิตยุจยะเตฯ อะเนกะวิธะปูรวะนิวาสานุสมฤตยาสังคัชญานะพะโลเปตัตวาทะเนกะวิธะปูรวะนิวาสานุสมฤตยาสังคัชญานะพะโลเปตะ อิตยุจยะเตฯ นิระวะเศษะสรรวะรูปานาวะระณะทรรศะนะทิวยะจักษุรชญานะพะโลเปตัตวานนิระวะเศษะสรรวะรูปานาวะระณะทรรศะนะทิวยะจักษุรชญานะพะโลเปตะ อิตยุจยะเตฯ สรรวะมวาสะนานุสันธิคะตะนิระวะเศษะสรรวาศระวักษะยัชญานะพะโลเปตัตวาตสรรวะวาสะนานุสันธิคะตะนิระวะเศษะสรรวาศระวักษะยัชญานะพะโลเปตะ อิตยุจยะเตฯ
  200. นิระวะเศษะสรรวะธรรมาภิสัมพุทธะประติชญาโรหะณะสะเทวะโลกานะภิภูตะประติชญาไวศารัทยัปราปตัตวานนิระวะเศษะสรรวะธรรมาภิสัมประพุทธะติชญาโรหะณะ-สะเทวะโลเก'นะภิภูตะประติชญาไวศารัทยัปราปตะ อิตยุจยะเตฯ สรรวะสางกเลศิกานตะรายิกะธรรมานตะรายะกะระณานิรวาณัสเยติตัตประติชญาโรหะณะสะเทวะเก โลเก'นาเฉทยะประติชญาไวศารัทยัปราปตัตวาสรรวะสางกเลศิกานตะรายิกะธรรมานตะรายะกะระณานิรวาณัสเยติ ตัตประติชญาโรหะณะสะเทวะเก โลเก'นาเฉทยะประติชญาไวศารัทยัปราปตะ อิตยุจยะเตฯ ไนรยาณิกีม ประติปะทัม ประติปัทยะมาโน นิรวาณะมาราคะยิษยะตีติ ประติชญาโรหะณะสะเทวะเก โลเก'ประติโจทยะประติชญาไวศารัทยัปราปตัตวานไนรยาณิกีม ประติปะทัม ประติปัทยะมาโน นิรวาณะมาราคะยิษยะตีติ ประติชญาโรหะณะสะเทวะเก โลเก'ประติโจทยะประติชญาไวศารัทยัปราปตะ อิตยุจยะเตฯ สะวาศระวักษะยัชญานะประหาณัชญานะประติชญาโรหะณะสะเทวะเก โลเก'วิวรรตยะประติชญาไวศารัทยัปราปตัตวาตสรรวาศระวักษะยัชญานะประหาณัชญานะประติชญาโรหะณะสะเทวะเก โลเก'วิวรรตยะประติชญาไวศารัทยัปราปตะ อิตยุจยะเตฯ อัสขะลิตะปะทะธรรมะเทศะกัตวาทัสขะลิตะปะทะธรรมะเทศะกะ อิตยุจยะเตฯ อะรุตานะภิลาปยะธรรมัสวะภาวานุพุทธัตวาทะรุตานะภิลาปยะธรรมัสวะภาวานุพุทธะ อิตยุจยะเตฯ อะวิระตัตวาทะวิระตะ อิตยุจยะเตฯ
  201. สรรวะสัตตวะรุตาประมาณะพุทธะธรรมะรุตะนิรโฆษาธิษฐานะสะมรรถัตวาตสรรวะสัตตวะรุตาประมาณะพุทธะธรรมะรุตะนิรโฆษาธิษฐานะสะมรรถะ อิตยุจยะเตฯ อะมุษิตัสมฤติตวาทะมุษิตัสมฤติริตยุจยะเตฯ นานาตวะสัญชญาวิคะตัตวานนานาตวะสัญชญาวิคะตะ อิตยุจยะเตฯ สรรวะจิตตะสะมาหิตะสุมาหิตะสัตตวาตสรรวะจิตตะสะมาหิตะสุสะมาหิตะ อิตยุจยะเตฯ อะประติสังขยาสะมุเปกษะกัตวาทะประติสังขยาสะมุเปกษะกะ อิตยุจยะเตฯ ฉันทะสัมสการะสะมาธยะปะริหีนัตวาจฉันทะสัมสการะสะมาธยะปะริหีนะ อิตยุจยะเตฯ วีรยะสัมสการะสะมาธยะนาเฉทยาปะริหีนะวีรยัตวาทวีรยะสัมสการะสะมาธยะปะริหีนะวีรยะ อิตยุจยะเตฯ สมฤตยะปะริหีนัตวาทะปะริหีนัสมฤติริตยุจยะเตฯ อะปะริหีนะปรัชญัตวาทะปะริหีนะปรัชญะ อิตยุจยะเตฯ วิมุกตยะปะริหีนัตวาทะปะริหีนะวิมุกติริตยุจยะเตฯ วิมุกติชญานะทรรศะนาประหีนัตวาทะปะริหีนะวิมุกติชญานะทรรศะนะ อิตยุจยะเตฯ สรรวะกายะกรรมะวากกรรมะมะนัสกรรมัชญานะปูรวังคะมัชญานานุปะริวรรติสะมันวาคะตัตวาตสรรวะกายะวางภะมะนัสกรรมัชญานะปูรวังคะมัชญานานุปะริวรรติชญานะสะมันวาคะตะ อิตยุจยะเตฯ อะตีตานาคะตัปรัตยุตปันเนษวัธวัสวะสังคาประติหะตัชญานะทรรศะนะสะมันวาคะตัตวาต ตรยัธวาสังคาประติหะตัชญานะทรรศะนะสะมันวาคะตะ อิตยุจยะเตฯ อะนาวะระณะวิโมกษะประติลัพธัตวาทะนาวะระณะวิโมกษะประติลัพธะ อิตยุจยะเตฯ อะธิษฐิตะสรรวะสัตตวะจะริตะประเวศะเกาศัลยาวัสถิตัตโวทะธิษฐิตะสรรวะสัตตวะจะริตะประเวศะเกาศัลยาวัสถิตะ อิตยุจยะเตฯ ยะถาปรัตยรรหะธรรมะเทศะนากุศะลัตวาทยะถาปรัตยรรหะธรรมะเทศะนากุศะละ อิตยุจยะเตฯ
  202. สรรวะสวะรางคะมัณฑะละปะระมะปาระมิตาปราปตัตวาตสรรวะสวะรางคะมัณฑะละปะระมะปาระมิตาปราปตะ อิตยุจยะเตฯ สรรวะรุตะประติรุตะนิศจาระณะเกาศัลยัปราปตัตวาทเทวะนาคะยักษะคันธรรวาสุระคะรุฑะกินนะระมะโหระคะรุตะ อิตยุจยะเตฯ พรหมัสวะระรุตะระวิตะนิรโฆษะ อิตยุจยะเตฯ กะละวิงกะรุตัสวะระ อิตยุจยะเตฯ ทุนทุภิสังคีติรุตัสวะระ อิตยุจยะเตฯ ธะระณีตะละนิรนาทะนิรโฆษัสวะระ อิตยุจยะเตฯ สาคะระนาเคนทระเมฆัสตะนิตะครรชิตะโฆษัสวะระ อิตยุจยะเตฯ สิมหะวฤษะภิตาภิครรชิตะนิรโฆษัสวะระ อิตยุจยะเตฯ สรรวะสัตตวะรุตะระวิตานุจะระณะสันโตษะณัสวะระ อิตยุจยะเตฯ อะสังคานาวะระณะสรรวะปรรษันมัณฑะลาภิราธะนัสวะระ อิตยุจยะเตฯ เอกะรุตาตสรรวะรุตะสัมปราปะนัสวะระ อิตยุจยะเตฯ พรหเมนทระปูชิตะ อิตยุจยะเตฯ เทเวนทระสัตกฤตะ อิตยุจยะเตฯ นาเคนทระนะมัสกฤตะ อิตยุจยะเตฯ ยักเษนทราวะโลกิตะมุขะมัณฑะละ อิตยุจยะเตฯ คันธรรเวนโทรปะคีตะ อิตยุจยะเตฯ รากษะเสนทระประสันเนนทริยานินิมิษะนะยะนะสัมเปรกษิตะ อิตยุจยะเตฯ อะสุเรนทราภิประณะตะ อิตยุจยะเตฯ คะรุเฑนทราวิหิมสาเปรกษิตะ อิตยุจยะเตฯ กินนะเรนทราภิษฏุตะ อิตยุจยะเตฯ มะโหระเคนทราภิละษิตะทรรศะนะ อิตยุจยะเตฯ มะนุเชนทราภิสัมปูชิตะ อิตยุจยะเตฯ อะหรรคะณะเสวิตะ อิตยุจยะเตฯ สรรวะโพธิสัตตวะสะมาทายะกะสะมุตเตชะกะสัมหัปรรรษะกะ อิตยุจยะเตฯ นิรามิษะธรรมะเทศะกะ อิตยุจยะเตฯ อักษุณณะปะทะวยัญชะนาวันธยะธรรมะเทศะกะ อิตยุจยะเตฯ กาลานะติกระมะณะธรรมะเทศะกะ อิตยุจยะเตฯ อิทัม ตันไมเตรยะ ธรรมะจักระประวรรตะนัม ตะถาคะตะคุณะวรรณะประเทศัสยะ ยัตกิญจิทะวะตาระมาตรัม สังกเษเปณะ นิรเทศิตะห์ วิสตะเรณะ ปุนะไมเตรยะ ตะถาคะตะห์ กัลปัม วา กัลปาวะเศษัม วา นิรทิเศตฯ นะ จาสยะ นิรทิศยะมานัสยะ ปรรยันโต ภะเวต๚
  203. อะถะ ขะลุ ภะคะวามสตัสยาม เวลายามิมาม คาถามะภาษัต—
  204. คัมภีรัม ทุรทฤศัม สูกษมัม ธรรมะจะกรัม ประวรรติตัมฯ
  205. ยะตระ มารา นะ คาหันเต สรรเว จะ ปะระตีรถิกาห์๚๕๒๚
  206. อะนาละยัม นิษประปัญจัม อะนุตปาทะมะสัมภะวัมฯ
  207. วิวิกตัม ประกฤตีศูนยัม ธรรมะจะกรัม ประวรรติตัม๚๕๓๚
  208. อะนายูหะมะนิรยูหะมะนิมิตตะมะลักษะณัมฯ
  209. สะมะตาธรรมะนิรเทศัม จะกรัม พุทเธนะ วรรณิตัม๚๕๔๚
  210. มายามะรีจิ สวัปนัม จะ ทะกะจันทระ ประติศรุตกาฯ
  211. ยะไถเต ตะถา ตัจจะกรัม โลกะนาเถนะ วรรติตัม๚๕๕๚
  212. ประตีตยะธรรมะตาระมะนุจเฉทะมะศาศวะตัมฯ
  213. สรรวะทฤษฏิสะมุจเฉโท ธรรมะจะกระมิติ สมฤตัม๚๕๖๚
  214. อากาเศนะ สะทา ตุลยัม นิรวิกัลปัม ประภาสวะรัมฯ
  215. อะนันตะมัธยะนิรเทศัม ธรรมะจะกระมิโหจยะเต๚๕๗๚
  216. อัสตินาสติวินิรมุกตะมาตมยะไนราตมยะวรรชิตัมฯ
  217. ประกฤตยาชาตินิรเทศัม ธรรมะจะกระมิโหจยะเต๚๕๘๚
  218. ภูตะโกฏีมะโกฏีม จะ ตะถะตายาม ตะถัตวะตะห์ฯ
  219. อัทวะโย ธรรมะนิรเทโศ ธรรมะจะกรัม นิรุจยะเต๚๕๙๚
  220. จักษุห์ สวะภาวะตะห์ ศูนยัม โศรตัม ฆราณัม ตะไถวะ จะฯ
  221. ชิหวา กายัม จะ จิตตัม จะ ศูนยาตมาโน นิรีหะกะห์๚๖๐๚
  222. อิทัม ตะทีททะศัม จะกรัม ธรรมะจะกรัม ประวรรติตัมฯ
  223. โพธะยัตยะพุธาน สัตตวามสเตนะ พุทโธ นิรุจยะเต๚๖๑๚
  224. สวะยัม มะยานุพุทโธ'ยัม สวะภาโว ธรรมะลักษะณัมฯ
  225. ฤเต ปะโรปะเทเศนะ สวะยัมภูสตะถะ จักษุมาน๚๖๒๚
  226. สรรวะธรรมะวะศิปราปโต ธรรมัสวามี นิรุจยะเตฯ
  227. นะยานะยัชโญ ธรรเมษุ นายะกัสเตนะ โจจยะเต๚๖๓๚
  228. ยะถา ภะวันติ ไวเนยา วินะยามยะมิตาม ชะนามฯ
  229. วิเนยะปาระมิปราปตัสเตนะ โปรกโต วินายะกะห์๚๖๔๚
  230. นัษฏะมารคา หิ เย สัตตวา มารคัม เทเศมิ อุตตะมัมฯ
  231. นะยามิ ปาริมัม ตีรัม ตัสมาทัสมิ วินายะกะห์๚๖๕๚
  232. สังคระหาวัสตุชญาเนนะ สังคฤหยะ ชะนะตามะหัมฯ
  233. สัมสาราฏะวินิสตีรณะห์ สารถะวาหัสตะโต หยะหัม๚๖๖๚
  234. วะศะวรรตี สรรวะธรรเมษุ เตนะ ธรรเมศวะโร ชินะห์ฯ
  235. ธรรมะจะกรัม ประวรรติตวา ธรรมะราโช นิรุจยะเต๚๖๗๚
  236. ธรรมะทานะปะติห์ ศาสตา ธรรมัสวามี นิรุตตะระห์ฯ
  237. สุยัษฏะยัชญะสิทธารถะห์ ปูรณาศะห์ สิทธะมังคะละห์๚๖๘๚
  238. อาศวาสะกะห์ กเษมะทรรศี ศูโร มะหาระณัญชะหะห์ฯ
  239. อุตตีรณะสรรวะสังคราโม มุกโต โมจะยิตา ประชาห์๚๖๙๚
  240. อาโลกะภูโต โลกัสยะ ปรัชญาชญานะประภังกะระห์ฯ
  241. อัชญานะตะมะโส หันตา อุลกาธาริ มะหาประภะห์๚๗๐๚
  242. มะหาไวทโย มะหาชญานี มะหากเลศะจิกิตสะกะห์ฯ
  243. สัตตวานาม กเลศะวิทธานาม ศัลยะหรรตา นิรุตตะระห์๚๗๑๚
  244. สรรวะลักษะณะสัมปันนะห์ สรรวะวยัญชะนะโศภิตะห์ฯ
  245. สะมันตะภะทระกาเยนะ หีนานาม จานุวรรตะกะห์๚๗๒๚
  246. ทะศะภิรพะละภิรพะละวาน ไวศารัทยะวิศาระทะห์ฯ
  247. อาเวณิไกรัษฏะทะไศ อะคระยานี มะหามุนิห์๚๗๓๚
  248. เอษะ สังกเษปะนิรเทโศ ธรรมะจักระประวรรตะเนฯ
  249. ตะถาคะตะคุณะวรรณะห์ ปะรีตโต'ยัม ประกาศิตะห์๚๗๔๚
  250. พุทธัชญานะมะนันตัม หิ อากาศะวิปุลัม สะมัมฯ
  251. กษะปะเยตกัลปะ ภาษันโต นะ จะ พุทธะคุณักษะยะห์๚๗๕๚ อิติ๚
  252. อิติ ศรีละลิตะวิสตะเร ธรรมะจักระประวรรตะนะปะริวรรโต นามะ ษัฑวิมศะติตะโม'ธยายะห์๚

Thai - Sanscritp เป็นผลงานของมหาวิทยาลัยเทคโนโลยีพระจอมเกล้าธนบุรี จัดทำโดย ธนกฤต พรหมศิริ

เป็นซอฟต์แวร์โอเพนซอร์ซ รหัสโปรแกรม อนุญาตให้ใช้ได้ตาม สัญญาอนุญาตของครีเอทีฟคอมมอนส์แบบ แสดงที่มา-ไม่ใช้เพื่อการค้า-อนุญาตแบบเดียวกัน 4.0 International Base on learnsanskrit.org/tools/sanscript & virtualvinodh.com/aksharamukha