มหาภารตะ

มหาภารตะวรรณคดีขนาดใหญ่ ยังถือว่าเป็นคัมภีร์ศักดิ์สิทธิ์ที่สำคัญของศาสนาฮินดู
มหาภารตะ เป็น เรื่องราวความขัดแย้ง ของ พี่น้องสองตระกูล ระหว่าง ตระกูลเการพ
และตระกูลปาณฑพ ซึ่งทั้งสองตระกูลต่างก็สืบเชื้อสายมาจากท้าวภรต แห่ง กรุงหัสตินาปุระ
จนบานปลายไปสู่ มหาสงครามที่ทุ่งกุรุเกษตร
( ตัวอย่างปริวรรต แสดงเฉพาะบรรพที่ ๖ ภีษมบรรพ อัธยายที่ ๒๓-๒๖[บรรพย่อยภควัทคีตา] )

เลือกชนิดตัวอักษรที่จะทำการเปรียบเทียบ

คลิกที่คำจะทำเครื่องหมายเน้นสี เพื่อทำการเปรียบเทียบ


       

เทวนาครี

  1. ||६ महाभारते भीष्मपर्वम् ||
  2. भगवद्गीतापर्व
  3. .................................
  4. २३
  5. धृतराष्ट्र उवाच||
  6. धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
  7. मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१||
  8. सञ्जय उवाच||
  9. दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
  10. आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ||२||
  11. पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
  12. व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||३||
  13. अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
  14. युयुधानो विराटश्च द्रुपदश्च महारथः ||४||
  15. धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
  16. पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ||५||
  17. युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
  18. सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||६||
  19. अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
  20. नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ||७||
  21. भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
  22. अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||८||
  23. अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |
  24. नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||९||
  25. अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
  26. पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१०||
  27. अयनेषु च सर्वेषु यथाभागमवस्थिताः |
  28. भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||११||
  29. तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
  30. सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१२||
  31. ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
  32. सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१३||
  33. ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
  34. माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१४||
  35. पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
  36. पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१५||
  37. अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
  38. नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१६||
  39. काश्यश्च परमेष्वासः शिखण्डी च महारथः |
  40. धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७||
  41. द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
  42. सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१८||
  43. स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
  44. नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ||१९||
  45. अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः |
  46. प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||२०||
  47. हृषीकेशं तदा वाक्यमिदमाह महीपते |
  48. सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||२१||
  49. यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
  50. कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ||२२||
  51. योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
  52. धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||२३||
  53. एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
  54. सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||२४||
  55. भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
  56. उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||२५||
  57. तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |
  58. आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||२६||
  59. श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
  60. तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||२७||
  61. कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
  62. दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् ||२८||
  63. सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
  64. वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||२९||
  65. गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
  66. न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||३०||
  67. निमित्तानि च पश्यामि विपरीतानि केशव |
  68. न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||३१||
  69. न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
  70. किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||३२||
  71. येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
  72. त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||३३||
  73. आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
  74. मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ||३४||
  75. एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
  76. अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||३५||
  77. निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
  78. पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||३६||
  79. तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् |
  80. स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||३७||
  81. यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
  82. कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||३८||
  83. कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |
  84. कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९||
  85. कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |
  86. धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||४०||
  87. अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |
  88. स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||४१||
  89. सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
  90. पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||४२||
  91. दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
  92. उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||४३||
  93. उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
  94. नरके नियतं वासो भवतीत्यनुशुश्रुम ||४४||
  95. अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
  96. यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||४५||
  97. यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
  98. धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||४६||
  99. एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |
  100. विसृज्य सशरं चापं शोकसंविग्नमानसः ||४७||
  101. २४
  102. सञ्जय उवाच||
  103. तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |
  104. विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||१||
  105. श्रीभगवानुवाच||
  106. कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |
  107. अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२||
  108. क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |
  109. क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||३||
  110. अर्जुन उवाच||
  111. कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |
  112. इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||४||
  113. गुरूनहत्वा हि महानुभावा; ञ्श्रेयो भोक्तुं भैक्षमपीह लोके |
  114. हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान् ||५||
  115. न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः |
  116. यानेव हत्वा न जिजीविषाम; स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||६||
  117. कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः |
  118. यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||७||
  119. न हि प्रपश्यामि ममापनुद्या; द्यच्छोकमुच्छोषणमिन्द्रियाणाम् |
  120. अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम् ||८||
  121. सञ्जय उवाच||
  122. एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |
  123. न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||९||
  124. तमुवाच हृषीकेशः प्रहसन्निव भारत |
  125. सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||१०||
  126. श्रीभगवानुवाच||
  127. अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |
  128. गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||११||
  129. न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |
  130. न चैव न भविष्यामः सर्वे वयमतः परम् ||१२||
  131. देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |
  132. तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||१३||
  133. मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |
  134. आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||१४||
  135. यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
  136. समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||१५||
  137. नासतो विद्यते भावो नाभावो विद्यते सतः |
  138. उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||१६||
  139. अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |
  140. विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||१७||
  141. अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |
  142. अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||१८||
  143. य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |
  144. उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||१९||
  145. न जायते म्रियते वा कदा चि; न्नायं भूत्वा भविता वा न भूयः |
  146. अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे ||२०||
  147. वेदाविनाशिनं नित्यं य एनमजमव्ययम् |
  148. कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२१||
  149. वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि |
  150. तथा शरीराणि विहाय जीर्णा; न्यन्यानि संयाति नवानि देही ||२२||
  151. नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
  152. न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२३||
  153. अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |
  154. नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२४||
  155. अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |
  156. तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२५||
  157. अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |
  158. तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ||२६||
  159. जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |
  160. तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२७||
  161. अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |
  162. अव्यक्तनिधनान्येव तत्र का परिदेवना ||२८||
  163. आश्चर्यवत्पश्यति कश्चिदेन; माश्चर्यवद्वदति तथैव चान्यः |
  164. आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित् ||२९||
  165. देही नित्यमवध्योऽयं देहे सर्वस्य भारत |
  166. तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||३०||
  167. स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
  168. धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||३१||
  169. यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |
  170. सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||३२||
  171. अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि |
  172. ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||३३||
  173. अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |
  174. सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||३४||
  175. भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |
  176. येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||३५||
  177. अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |
  178. निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||३६||
  179. हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |
  180. तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||३७||
  181. सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |
  182. ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||३८||
  183. एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |
  184. बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||३९||
  185. नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |
  186. स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||४०||
  187. व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |
  188. बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||४१||
  189. यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
  190. वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||४२||
  191. कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |
  192. क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||४३||
  193. भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
  194. व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||४४||
  195. त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |
  196. निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||४५||
  197. यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
  198. तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||४६||
  199. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
  200. मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||४७||
  201. योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
  202. सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||४८||
  203. दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |
  204. बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||४९||
  205. बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |
  206. तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||५०||
  207. कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |
  208. जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||५१||
  209. यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
  210. तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||५२||
  211. श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
  212. समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||५३||
  213. अर्जुन उवाच||
  214. स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
  215. स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||५४||
  216. श्रीभगवानुवाच||
  217. प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |
  218. आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||५५||
  219. दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः |
  220. वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||५६||
  221. यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |
  222. नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||५७||
  223. यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः |
  224. इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||५८||
  225. विषया विनिवर्तन्ते निराहारस्य देहिनः |
  226. रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||५९||
  227. यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः |
  228. इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||६०||
  229. तानि सर्वाणि संयम्य युक्त आसीत मत्परः |
  230. वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||६१||
  231. ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |
  232. सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||६२||
  233. क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः |
  234. स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ||६३||
  235. रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |
  236. आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||६४||
  237. प्रसादे सर्वदुःखानां हानिरस्योपजायते |
  238. प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||६५||
  239. नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |
  240. न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||६६||
  241. इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
  242. तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||६७||
  243. तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |
  244. इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||६८||
  245. या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
  246. यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||६९||
  247. आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् |
  248. तद्वत्कामा यं प्रविशन्ति सर्वे; स शान्तिमाप्नोति न कामकामी ||७०||
  249. विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः |
  250. निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||७१||
  251. एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |
  252. स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||७२||
  253. २५
  254. अर्जुन उवाच||
  255. ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |
  256. तत्किं कर्मणि घोरे मां नियोजयसि केशव ||१||
  257. व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे |
  258. तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ||२||
  259. श्रीभगवानुवाच||
  260. लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |
  261. ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ||३||
  262. न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |
  263. न च संन्यसनादेव सिद्धिं समधिगच्छति ||४||
  264. न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |
  265. कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ||५||
  266. कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |
  267. इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ||६||
  268. यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |
  269. कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ||७||
  270. नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः |
  271. शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ||८||
  272. यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः |
  273. तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ||९||
  274. सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
  275. अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ||१०||
  276. देवान्भावयतानेन ते देवा भावयन्तु वः |
  277. परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ||११||
  278. इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः |
  279. तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||१२||
  280. यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः |
  281. भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ||१३||
  282. अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः |
  283. यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||१४||
  284. कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् |
  285. तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||१५||
  286. एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः |
  287. अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ||१६||
  288. यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः |
  289. आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ||१७||
  290. नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |
  291. न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||१८||
  292. तस्मादसक्तः सततं कार्यं कर्म समाचर |
  293. असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||१९||
  294. कर्मणैव हि संसिद्धिमास्थिता जनकादयः |
  295. लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||२०||
  296. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |
  297. स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||२१||
  298. न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |
  299. नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||२२||
  300. यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः |
  301. मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||२३||
  302. उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |
  303. सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ||२४||
  304. सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
  305. कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ||२५||
  306. न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् |
  307. जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||२६||
  308. प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः |
  309. अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||२७||
  310. तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः |
  311. गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||२८||
  312. प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु |
  313. तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ||२९||
  314. मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
  315. निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||३०||
  316. ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः |
  317. श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ||३१||
  318. ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |
  319. सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ||३२||
  320. सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
  321. प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३३||
  322. इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |
  323. तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||३४||
  324. श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
  325. स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||३५||
  326. अर्जुन उवाच||
  327. अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः |
  328. अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ||३६||
  329. श्रीभगवानुवाच||
  330. काम एष क्रोध एष रजोगुणसमुद्भवः |
  331. महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||३७||
  332. धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |
  333. यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ||३८||
  334. आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |
  335. कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||३९||
  336. इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |
  337. एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ||४०||
  338. तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |
  339. पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ||४१||
  340. इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः |
  341. मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ||४२||
  342. एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना |
  343. जहि शत्रुं महाबाहो कामरूपं दुरासदम् ||४३||

ไทย-ทั่วไป(แบบปรับรูป)

  1. ๚๖ มะหาภาระเต ภีษมะปรรวัม ๚
  2. ภะคะวัทคีตาปรรวะ
  3. .................................
  4. ๒๓
  5. ธฤตะราษฏระ อุวาจะ๚
  6. ธรรมักเษเตร กุรุกเษเตร สะมะเวตา ยุยุตสะวะห์ ฯ
  7. มามะกาห์ ปาณฑะวาศไจวะ กิมะกุรวะตะ สัญชะยะ ๚๑๚
  8. สัญชะยะ อุวาจะ๚
  9. ทฤษฏวา ตุ ปาณฑะวานีกัม วยูฒัม ทุรโยธะนัสตะทา ฯ
  10. อาจารยะมุปะสังคัมยะ ราชา วะจะนะมะพระวีต ๚๒๚
  11. ปัศไยตาม ปาณฑุปุตราณามาจารยะ มะหะตีม จะมูม ฯ
  12. วยูฒาม ทรุปะทะปุเตรณะ ตะวะ ศิษเยณะ ธีมะตา ๚๓๚
  13. อะตระ ศูรา มะเหษวาสา ภีมารชุนะสะมา ยุธิ ฯ
  14. ยุยุธาโน วิราฏัศจะ ทรุปะทัศจะ มะหาระถะห์ ๚๔๚
  15. ธฤษฏะเกตุศเจกิตานะห์ กาศิราชัศจะ วีรยะวาน ฯ
  16. ปุรุชิตกุนติโภชัศจะ ไศพยัศจะ นะระปุงคะวะห์ ๚๕๚
  17. ยุธามันยุศจะ วิกรานตะ อุตตะเมาชาศจะ วีรยะวาน ฯ
  18. เสาภะโทร เทราปะเทยาศจะ สรรวะ เอวะ มะหาระถาห์ ๚๖๚
  19. อัสมากัม ตุ วิศิษฏา เย ตานนิโพธะ ทวิโชตตะมะ ฯ
  20. นายะกา มะมะ ไสนยัสยะ สัญชญารถัม ตานพระวีมิ เต ๚๗๚
  21. ภะวานภีษมัศจะ กรรณัศจะ กฤปัศจะ สะมิติญชะยะห์ ฯ
  22. อัศวัตถามา วิกรรณัศจะ เสามะทัตติสตะไถวะ จะ ๚๘๚
  23. อันเย จะ พะหะวะห์ ศูรา มะทรรเถ ตยักตะชีวิตาห์ ฯ
  24. นานาศัสตระประหะระณาห์ สรรเว ยุทธะวิศาระทาห์ ๚๙๚
  25. อะปรรยาปตัม ตะทัสมากัม พะลัม ภีษมาภิรักษิตัม ฯ
  26. ปรรยาปตัม ตวิทะเมเตษาม พะลัม ภีมาภิรักษิตัม ๚๑๐๚
  27. อะยะเนษุ จะ สรรเวษุ ยะถาภาคะมะวัสถิตาห์ ฯ
  28. ภีษมะเมวาภิรักษันตุ ภะวันตะห์ สรรวะ เอวะ หิ ๚๑๑๚
  29. ตัสยะ สัญชะนะยันหรรษัม กุรุวฤทธะห์ ปิตามะหะห์ ฯ
  30. สิมหะนาทัม วินัทโยจไจห์ ศังขัม ทัธเมา ประตาปะวาน ๚๑๒๚
  31. ตะตะห์ ศังขาศจะ เภรยัศจะ ปะณะวานะกะโคมุขาห์ ฯ
  32. สะหะไสวาภยะหันยันตะ สะ ศัพทัสตุมุโล'ภะวัต ๚๑๓๚
  33. ตะตะห์ ศเวไตรหะไยรยุกเต มะหะติ สยันทะเน สถิเตา ฯ
  34. มาธะวะห์ ปาณฑะวัศไจวะ ทิวเยา ศังเขา ประทัธมะตุห์ ๚๑๔๚
  35. ปาญจะชันยัม หฤษีเกโศ เทวะทัตตัม ธะนัญชะยะห์ ฯ
  36. เปาณฑรัม ทัธเมา มะหาศังขัม ภีมะกรรมา วฤโกทะระห์ ๚๑๕๚
  37. อะนันตะวิชะยัม ราชา กุนตีปุโตร ยุธิษฐิระห์ ฯ
  38. นะกุละห์ สะหะเทวัศจะ สุโฆษะมะณิปุษปะเกา ๚๑๖๚
  39. กาศยัศจะ ปะระเมษวาสะห์ ศิขัณฑี จะ มะหาระถะห์ ฯ
  40. ธฤษฏัทยุมโน วิราฏัศจะ สาตยะกิศจาปะราชิตะห์ ๚๑๗๚
  41. ทรุปะโท เทราปะเทยาศจะ สรรวะศะห์ ปฤถิวีปะเต ฯ
  42. เสาภัทรัศจะ มะหาพาหุห์ ศังขานทัธมุห์ ปฤถักปฤถัก ๚๑๘๚
  43. สะ โฆโษ ธารตะราษฏราณาม หฤทะยานิ วยะทาระยัต ฯ
  44. นะภัศจะ ปฤถิวีม ไจวะ ตุมุโล วยะนุนาทะยัน ๚๑๙๚
  45. อะถะ วยะวัสถิตานทฤษฏวา ธารตะราษฏรานกะปิธวะชะห์ ฯ
  46. ประวฤตเต ศัสตระสัมปาเต ธะนุรุทยัมยะ ปาณฑะวะห์ ๚๒๐๚
  47. หฤษีเกศัม ตะทา วากยะมิทะมาหะ มะหีปะเต ฯ
  48. เสนะโยรุภะโยรมัธเย ระถัม สถาปะยะ เม'จยุตะ ๚๒๑๚
  49. ยาวะเทตานนิรีกเษ'หัม โยทธุกามานะวัสถิตาน ฯ
  50. ไกรมะยา สะหะ โยทธะวยะมัสมินระณะสะมุทยะเม ๚๒๒๚
  51. โยตสยะมานานะเวกเษ'หัม ยะ เอเต'ตระ สะมาคะตาห์ ฯ
  52. ธารตะราษฏรัสยะ ทุรพุทเธรยุทเธ ปริยะจิกีรษะวะห์ ๚๒๓๚
  53. เอวะมุกโต หฤษีเกโศ คุฑาเกเศนะ ภาระตะ ฯ
  54. เสนะโยรุภะโยรมัธเย สถาปะยิตวา ระโถตตะมัม ๚๒๔๚
  55. ภีษมะโทรณะประมุขะตะห์ สรรเวษาม จะ มะหีกษิตาม ฯ
  56. อุวาจะ ปารถะ ปัศไยตานสะมะเวตานกุรูนิติ ๚๒๕๚
  57. ตะตราปัศยัตสถิตานปารถะห์ ปิตṝนะถะ ปิตามะหาน ฯ
  58. อาจารยานมาตุลานภราตṝนปุตรานเปาตรานสะขีมสตะถา ๚๒๖๚
  59. ศวะศุรานสุหฤทัศไจวะ เสนะโยรุภะโยระปิ ฯ
  60. ตานสะมีกษยะ สะ เกานเตยะห์ สรรวานพันธูนะวัสถิตาน ๚๒๗๚
  61. กฤปะยา ปะระยาวิษโฏ วิษีทันนิทะมะพระวีต ฯ
  62. ทฤษฏเวมานสวะชะนานกฤษณะ ยุยุตสูนสะมะวัสถิตาน ๚๒๘๚
  63. สีทันติ มะมะ คาตราณิ มุขัม จะ ปะริศุษยะติ ฯ
  64. เวปะถุศจะ ศะรีเร เม โรมะหรรษัศจะ ชายะเต ๚๒๙๚
  65. คาณฑีวัม สรัมสะเต หัสตาตตวักไจวะ ปะริทหยะเต ฯ
  66. นะ จะ ศักโนมยะวัสถาตุม ภระมะตีวะ จะ เม มะนะห์ ๚๓๐๚
  67. นิมิตตานิ จะ ปัศยามิ วิปะรีตานิ เกศะวะ ฯ
  68. นะ จะ เศรโย'นุปัศยามิ หัตวา สวะชะนะมาหะเว ๚๓๑๚
  69. นะ กางกเษ วิชะยัม กฤษณะ นะ จะ ราชยัม สุขานิ จะ ฯ
  70. กิม โน ราชเยนะ โควินทะ กิม โภไครชีวิเตนะ วา ๚๓๒๚
  71. เยษามรรเถ กางกษิตัม โน ราชยัม โภคาห์ สุขานิ จะ ฯ
  72. ตะ อิเม'วัสถิตา ยุทเธ ปราณามสตยักตวา ธะนานิ จะ ๚๓๓๚
  73. อาจารยาห์ ปิตะระห์ ปุตราสตะไถวะ จะ ปิตามะหาห์ ฯ
  74. มาตุลาห์ ศวะศุราห์ เปาตราห์ สยาลาห์ สัมพันธินัสตะถา ๚๓๔๚
  75. เอตานนะ หันตุมิจฉามิ ฆนะโต'ปิ มะธุสูทะนะ ฯ
  76. อะปิ ไตรโลกยะราชยัสยะ เหโตห์ กิม นุ มะหีกฤเต ๚๓๕๚
  77. นิหัตยะ ธารตะราษฏรานนะห์ กา ปรีติห์ สยาชชะนารทะนะ ฯ
  78. ปาปะเมวาศระเยทัสมานหัตไวตานาตะตายินะห์ ๚๓๖๚
  79. ตัสมานนารหา วะยัม หันตุม ธารตะราษฏรานสะพานธะวาน ฯ
  80. สวะชะนัม หิ กะถัม หัตวา สุขินะห์ สยามะ มาธะวะ ๚๓๗๚
  81. ยัทยัปเยเต นะ ปัศยันติ โลโภปะหะตะเจตะสะห์ ฯ
  82. กุลักษะยะกฤตัม โทษัม มิตระโทรเห จะ ปาตะกัม ๚๓๘๚
  83. กะถัม นะ ชเญยะมัสมาภิห์ ปาปาทัสมานนิวรรติตุม ฯ
  84. กุลักษะยะกฤตัม โทษัม ประปัศยัทภิรชะนารทะนะ ๚๓๙๚
  85. กุลักษะเย ประณัศยันติ กุละธรรมาห์ สะนาตะนาห์ ฯ
  86. ธรรเม นัษเฏ กุลัม กฤตสนะมะธรรโม'ภิภะวัตยุตะ ๚๔๐๚
  87. อะธรรมาภิภะวาตกฤษณะ ประทุษยันติ กุลัสตริยะห์ ฯ
  88. สตรีษุ ทุษฏาสุ วารษเณยะ ชายะเต วรรณะสังกะระห์ ๚๔๑๚
  89. สังกะโร นะระกาไยวะ กุลัฆนานาม กุลัสยะ จะ ฯ
  90. ปะตันติ ปิตะโร หเยษาม ลุปตะปิณโฑทะกะกริยาห์ ๚๔๒๚
  91. โทไษเรไตห์ กุลัฆนานาม วรรณะสังกะระการะไกห์ ฯ
  92. อุตสาทยันเต ชาติธรรมาห์ กุละธรรมาศจะ ศาศวะตาห์ ๚๔๓๚
  93. อุตสันนะกุละธรรมาณาม มะนุษยาณาม ชะนารทะนะ ฯ
  94. นะระเก นิยะตัม วาโส ภะวะตีตยะนุศุศรุมะ ๚๔๔๚
  95. อะโห พะตะ มะหัตปาปัม กรรตุม วยะวะสิตา วะยัม ฯ
  96. ยัทราชยะสุขะโลเภนะ หันตุม สวะชะนะมุทยะตาห์ ๚๔๕๚
  97. ยะทิ มามะประตีการะมะศัสตรัม ศัสตระปาณะยะห์ ฯ
  98. ธารตะราษฏรา ระเณ หันยุสตันเม กเษมะตะรัม ภะเวต ๚๔๖๚
  99. เอวะมุกตวารชุนะห์ สังขเย ระโถปัสถะ อุปาวิศัต ฯ
  100. วิสฤชยะ สะศะรัม จาปัม โศกะสัมวิคนะมานะสะห์ ๚๔๗๚
  101. ๒๔
  102. สัญชะยะ อุวาจะ๚
  103. ตัม ตะถา กฤปะยาวิษฏะมะศรุปูรณากุเลกษะณัม ฯ
  104. วิษีทันตะมิทัม วากยะมุวาจะ มะธุสูทะนะห์ ๚๑๚
  105. ศรีภะคะวานุวาจะ๚
  106. กุตัสตวา กัศมะละมิทัม วิษะเม สะมุปัสถิตัม ฯ
  107. อะนารยะชุษฏะมัสวรรคยะมะกีรติกะระมรรชุนะ ๚๒๚
  108. กไลพยัม มา สมะ คะมะห์ ปารถะ ไนตัตตวัยยุปะปัทยะเต ฯ
  109. กษุทรัม หฤทะยะเทารพัลยัม ตยักตโวตติษฐะ ปะรันตะปะ ๚๓๚
  110. อรรชุนะ อุวาจะ๚
  111. กะถัม ภีษมะมะหัม สังขเย โทรณัม จะ มะธุสูทะนะ ฯ
  112. อิษุภิห์ ประติโยตสยามิ ปูชารหาวะริสูทะนะ ๚๔๚
  113. คุรูนะหัตวา หิ มะหานุภาวา; ญเศรโย โภกตุม ไภกษะมะปีหะ โลเก ฯ
  114. หัตวารถะกามามสตุ คุรูนิไหวะ; ภุญชียะ โภคานรุธิระประทิคธาน ๚๕๚
  115. นะ ไจตัทวิทมะห์ กะตะรันโน คะรีโย; ยัทวา ชะเยมะ ยะทิ วา โน ชะเยยุห์ ฯ
  116. ยาเนวะ หัตวา นะ ชิชีวิษามะ; สเต'วัสถิตาห์ ประมุเข ธารตะราษฏราห์ ๚๖๚
  117. การปัณยะโทโษปะหะตัสวะภาวะห์; ปฤจฉามิ ตวาม ธรรมะสัมมูฒะเจตาห์ ฯ
  118. ยัจเฉรยะห์ สยานนิศจิตัม พรูหิ ตันเม; ศิษยัสเต'หัม ศาธิ มาม ตวาม ประปันนัม ๚๗๚
  119. นะ หิ ประปัศยามิ มะมาปะนุทยา; ทยัจโฉกะมุจโฉษะณะมินทริยาณาม ฯ
  120. อะวาปยะ ภูมาวะสะปัตนะมฤทธัม; ราชยัม สุราณามะปิ จาธิปัตยัม ๚๘๚
  121. สัญชะยะ อุวาจะ๚
  122. เอวะมุกตวา หฤษีเกศัม คุฑาเกศะห์ ปะรันตะปะ ฯ
  123. นะ โยตสยะ อิติ โควินทะมุกตวา ตูษณีม พะภูวะ หะ ๚๙๚
  124. ตะมุวาจะ หฤษีเกศะห์ ประหะสันนิวะ ภาระตะ ฯ
  125. เสนะโยรุภะโยรมัธเย วิษีทันตะมิทัม วะจะห์ ๚๑๐๚
  126. ศรีภะคะวานุวาจะ๚
  127. อะโศจยานันวะโศจัสตวัม ปรัชญาวาทามศจะ ภาษะเส ฯ
  128. คะตาสูนะคะตาสูมศจะ นานุโศจันติ ปัณฑิตาห์ ๚๑๑๚
  129. นะ ตเววาหัม ชาตุ นาสัม นะ ตวัม เนเม ชะนาธิปาห์ ฯ
  130. นะ ไจวะ นะ ภะวิษยามะห์ สรรเว วะยะมะตะห์ ปะรัม ๚๑๒๚
  131. เทหิโน'สมินยะถา เทเห เกามารัม เยาวะนัม ชะรา ฯ
  132. ตะถา เทหานตะรัปราปติรธีรัสตะตระ นะ มุหยะติ ๚๑๓๚
  133. มาตราสปรรศาสตุ เกานเตยะ ศีโตษณะสุขะทุห์ขะทาห์ ฯ
  134. อาคะมาปายิโน'นิตยาสตามสติติกษัสวะ ภาระตะ ๚๑๔๚
  135. ยัม หิ นะ วยะถะยันตเยเต ปุรุษัม ปุรุษรรษะภะ ฯ
  136. สะมะทุห์ขะสุขัม ธีรัม โส'มฤตัตวายะ กัลปะเต ๚๑๕๚
  137. นาสะโต วิทยะเต ภาโว นาภาโว วิทยะเต สะตะห์ ฯ
  138. อุภะโยระปิ ทฤษโฏ'นตัสตวะนะโยสตัตตวะทรรศิภิห์ ๚๑๖๚
  139. อะวินาศิ ตุ ตัทวิทธิ เยนะ สรรวะมิทัม ตะตัม ฯ
  140. วินาศะมะวยะยัสยาสยะ นะ กัศจิตกรรตุมรรหะติ ๚๑๗๚
  141. อันตะวันตะ อิเม เทหา นิตยัสโยกตาห์ ศะรีริณะห์ ฯ
  142. อะนาศิโน'ประเมยัสยะ ตัสมาทยุธยัสวะ ภาระตะ ๚๑๘๚
  143. ยะ เอนัม เวตติ หันตารัม ยัศไจนัม มันยะเต หะตัม ฯ
  144. อุเภา เตา นะ วิชานีโต นายัม หันติ นะ หันยะเต ๚๑๙๚
  145. นะ ชายะเต มริยะเต วา กะทา จิ; นนายัม ภูตวา ภะวิตา วา นะ ภูยะห์ ฯ
  146. อะโช นิตยะห์ ศาศวะโต'ยัม ปุราโณ; นะ หันยะเต หันยะมาเน ศะรีเร ๚๒๐๚
  147. เวทาวินาศินัม นิตยัม ยะ เอนะมะชะมะวยะยัม ฯ
  148. กะถัม สะ ปุรุษะห์ ปารถะ กัม ฆาตะยะติ หันติ กัม ๚๒๑๚
  149. วาสามสิ ชีรณานิ ยะถา วิหายะ; นะวานิ คฤหณาติ นะโร'ปะราณิ ฯ
  150. ตะถา ศะรีราณิ วิหายะ ชีรณา; นยันยานิ สัมยาติ นะวานิ เทหี ๚๒๒๚
  151. ไนนัม ฉินทันติ ศัสตราณิ ไนนัม ทะหะติ ปาวะกะห์ ฯ
  152. นะ ไจนัม กเลทะยันตยาโป นะ โศษะยะติ มารุตะห์ ๚๒๓๚
  153. อัจเฉทโย'ยะมะทาหโย'ยะมักเลทโย'โศษยะ เอวะ จะ ฯ
  154. นิตยะห์ สรรวะคะตะห์ สถาณุระจะโล'ยัม สะนาตะนะห์ ๚๒๔๚
  155. อะวยักโต'ยะมะจินตโย'ยะมะวิการโย'ยะมุจยะเต ฯ
  156. ตัสมาเทวัม วิทิตไวนัม นานุโศจิตุมรรหะสิ ๚๒๕๚
  157. อะถะ ไจนัม นิตยะชาตัม นิตยัม วา มันยะเส มฤตัม ฯ
  158. ตะถาปิ ตวัม มะหาพาโห ไนนัม โศจิตุมรรหะสิ ๚๒๖๚
  159. ชาตัสยะ หิ ธรุโว มฤตยุรธรุวัม ชันมะ มฤตัสยะ จะ ฯ
  160. ตัสมาทะปะริหารเย'รเถ นะ ตวัม โศจิตุมรรหะสิ ๚๒๗๚
  161. อะวยักตาทีนิ ภูตานิ วยักตะมัธยานิ ภาระตะ ฯ
  162. อะวยักตะนิธะนานเยวะ ตะตระ กา ปะริเทวะนา ๚๒๘๚
  163. อาศจรรยะวัตปัศยะติ กัศจิเทนะ; มาศจรรยะวัทวะทะติ ตะไถวะ จานยะห์ ฯ
  164. อาศจรรยะวัจไจนะมันยะห์ ศฤโณติ; ศรุตวาปเยนัม เวทะ นะ ไจวะ กัศจิต ๚๒๙๚
  165. เทหี นิตยะมะวัธโย'ยัม เทเห สรรวะสยะ ภาระตะ ฯ
  166. ตัสมาตสรรวาณิ ภูตานิ นะ ตวัม โศจิตุมรรหะสิ ๚๓๐๚
  167. สวะธรรมะมะปิ จาเวกษยะ นะ วิกัมปิตุมรรหะสิ ฯ
  168. ธรรมยาทธิ ยุทธาจเฉรโย'นยัตกษะตริยัสยะ นะ วิทยะเต ๚๓๑๚
  169. ยะทฤจฉะยา โจปะปันนัม สวรรคัทวาระมะปาวฤตัม ฯ
  170. สุขินะห์ กษะตริยาห์ ปารถะ ละภันเต ยุทธะมีทฤศัม ๚๓๒๚
  171. อะถะ เจตตวะมิมัม ธรรมยัม สังครามัม นะ กะริษยะสิ ฯ
  172. ตะตะห์ สวะธรรมัม กีรติม จะ หิตวา ปาปะมะวาปสยะสิ ๚๓๓๚
  173. อะกีรติม จาปิ ภูตานิ กะถะยิษยันติ เต'วยะยาม ฯ
  174. สัมภาวิตัสยะ จากีรติรมะระณาทะติริจยะเต ๚๓๔๚
  175. ภะยาทระณาทุปะระตัม มัมสยันเต ตวาม มะหาระถาห์ ฯ
  176. เยษาม จะ ตวัม พะหุมะโต ภูตวา ยาสยะสิ ลาฆะวัม ๚๓๕๚
  177. อะวาจยะวาทามศจะ พะหูนวะทิษยันติ ตะวาหิตาห์ ฯ
  178. นินทันตัสตะวะ สามรรถยัม ตะโต ทุห์ขะตะรัม นุ กิม ๚๓๖๚
  179. หะโต วา ปราปสยะสิ สวรรคัม ชิตวา วา โภกษยะเส มะหีม ฯ
  180. ตัสมาทุตติษฐะ เกานเตยะ ยุทธายะ กฤตะนิศจะยะห์ ๚๓๗๚
  181. สุขะทุห์เข สะเม กฤตวา ลาภาลาเภา ชะยาชะเยา ฯ
  182. ตะโต ยุทธายะ ยุชยัสวะ ไนวัม ปาปะมะวาปสยะสิ ๚๓๘๚
  183. เอษา เต'ภิหิตา สางขเย พุทธิรโยเค ตวิมาม ศฤณุ ฯ
  184. พุทธยา ยุกโต ยะยา ปารถะ กรรมะพันธัม ประหาสยะสิ ๚๓๙๚
  185. เนหาภิกระมะนาโศ'สติ ปรัตยะวาโย นะ วิทยะเต ฯ
  186. สวัลปะมัปยัสยะ ธรรมัสยะ ตรายะเต มะหะโต ภะยาต ๚๔๐๚
  187. วยะวะสายาตมิกา พุทธิเรเกหะ กุรุนันทะนะ ฯ
  188. พะหุศาขา หยะนันตาศจะ พุทธะโย'วยะวะสายินาม ๚๔๑๚
  189. ยามิมาม ปุษปิตาม วาจัม ประวะทันตยะวิปัศจิตะห์ ฯ
  190. เวทะวาทะระตาห์ ปารถะ นานยะทัสตีติ วาทินะห์ ๚๔๒๚
  191. กามาตมานะห์ สวรรคะปะรา ชันมะกรรมะผะละประทาม ฯ
  192. กริยาวิเศษะพะหุลาม โภไคศวรรยะคะติม ประติ ๚๔๓๚
  193. โภไคศวรรยะประสักตานาม ตะยาปะหฤตะเจตะสาม ฯ
  194. วยะวะสายาตมิกา พุทธิห์ สะมาเธา นะ วิธียะเต ๚๔๔๚
  195. ไตรคุณยะวิษะยา เวทา นิสไตรคุณโย ภะวารชุนะ ฯ
  196. นิรทวันทโว นิตยะสัตตวัสโถ นิรโยคักเษมะ อาตมะวาน ๚๔๕๚
  197. ยาวานรรถะ อุทะปาเน สรรวะตะห์ สัมปลุโตทะเก ฯ
  198. ตาวานสรรเวษุ เวเทษุ พราหมะณัสยะ วิชานะตะห์ ๚๔๖๚
  199. กรรมัณเยวาธิการัสเต มา ผะเลษุ กะทาจะนะ ฯ
  200. มา กรรมะผะละเหตุรภูรมา เต สังโค'สตวะกรรมะณิ ๚๔๗๚
  201. โยคัสถะห์ กุรุ กรรมาณิ สังคัม ตยักตวา ธะนัญชะยะ ฯ
  202. สิทธยะสิทธโยห์ สะโม ภูตวา สะมัตวัม โยคะ อุจยะเต ๚๔๘๚
  203. ทูเรณะ หยะวะรัม กรรมะ พุทธิโยคาทธะนัญชะยะ ฯ
  204. พุทเธา ศะระณะมันวิจฉะ กฤปะณาห์ ผะละเหตะวะห์ ๚๔๙๚
  205. พุทธิยุกโต ชะหาตีหะ อุเภ สุกฤตะทุษกฤเต ฯ
  206. ตัสมาทโยคายะ ยุชยัสวะ โยคะห์ กรรมะสุ เกาศะลัม ๚๕๐๚
  207. กรรมะชัม พุทธิยุกตา หิ ผะลัม ตยักตวา มะนีษิณะห์ ฯ
  208. ชันมะพันธะวินิรมุกตาห์ ปะทัม คัจฉันตยะนามะยัม ๚๕๑๚
  209. ยะทา เต โมหะกะลิลัม พุทธิรวยะติตะริษยะติ ฯ
  210. ตะทา คันตาสิ นิรเวทัม โศรตะวยัสยะ ศรุตัสยะ จะ ๚๕๒๚
  211. ศรุติวิประติปันนา เต ยะทา สถาสยะติ นิศจะลา ฯ
  212. สะมาธาวะจะลา พุทธิสตะทา โยคะมะวาปสยะสิ ๚๕๓๚
  213. อรรชุนะ อุวาจะ๚
  214. สถิตะปรัชญัสยะ กา ภาษา สะมาธิสถัสยะ เกศะวะ ฯ
  215. สถิตะธีห์ กิม ประภาเษตะ กิมาสีตะ วระเชตะ กิม ๚๕๔๚
  216. ศรีภะคะวานุวาจะ๚
  217. ประชะหาติ ยะทา กามานสรรวานปารถะ มะโนคะตาน ฯ
  218. อาตมันเยวาตมะนา ตุษฏะห์ สถิตะปรัชญัสตะโทจยะเต ๚๕๕๚
  219. ทุห์เขษวะนุทวิคนะมะนาห์ สุเขษุ วิคะตัสปฤหะห์ ฯ
  220. วีตะราคะภะยะโกรธะห์ สถิตะธีรมุนิรุจยะเต ๚๕๖๚
  221. ยะห์ สรรวะตรานะภิสเนหัสตัตตัตปราปยะ ศุภาศุภัม ฯ
  222. นาภินันทะติ นะ ทเวษฏิ ตัสยะ ปรัชญา ประติษฐิตา ๚๕๗๚
  223. ยะทา สัมหะระเต จายัม กูรโม'งคานีวะ สรรวะศะห์ ฯ
  224. อินทริยาณีนทริยารเถภยัสตัสยะ ปรัชญา ประติษฐิตา ๚๕๘๚
  225. วิษะยา วินิวรรตันเต นิราหารัสยะ เทหินะห์ ฯ
  226. ระสะวรรชัม ระโส'ปยัสยะ ปะรัม ทฤษฏวา นิวรรตะเต ๚๕๙๚
  227. ยะตะโต หยะปิ เกานเตยะ ปุรุษัสยะ วิปัศจิตะห์ ฯ
  228. อินทริยาณิ ประมาถีนิ หะรันติ ประสะภัม มะนะห์ ๚๖๐๚
  229. ตานิ สรรวาณิ สัมยัมยะ ยุกตะ อาสีตะ มัตปะระห์ ฯ
  230. วะเศ หิ ยัสเยนทริยาณิ ตัสยะ ปรัชญา ประติษฐิตา ๚๖๑๚
  231. ธยายะโต วิษะยานปุมสะห์ สังคัสเตษูปะชายะเต ฯ
  232. สังคาตสัญชายะเต กามะห์ กามาตโกรโธ'ภิชายะเต ๚๖๒๚
  233. โกรธาทภะวะติ สัมโมหะห์ สัมโมหาตสมฤติวิภระมะห์ ฯ
  234. สมฤติภรัมศาทพุทธินาโศ พุทธินาศาตประณัศยะติ ๚๖๓๚
  235. ราคัทเวษะวิยุกไตสตุ วิษะยานินทริไยศจะรัน ฯ
  236. อาตมะวัศไยรวิเธยาตมา ประสาทะมะธิคัจฉะติ ๚๖๔๚
  237. ประสาเท สรรวะทุห์ขานาม หานิรัสโยปะชายะเต ฯ
  238. ประสันนะเจตะโส หยาศุ พุทธิห์ ปรรยะวะติษฐะเต ๚๖๕๚
  239. นาสติ พุทธิระยุกตัสยะ นะ จายุกตัสยะ ภาวะนา ฯ
  240. นะ จาภาวะยะตะห์ ศานติระศานตัสยะ กุตะห์ สุขัม ๚๖๖๚
  241. อินทริยาณาม หิ จะระตาม ยันมะโน'นุวิธียะเต ฯ
  242. ตะทัสยะ หะระติ ปรัชญาม วายุรนาวะมิวามภะสิ ๚๖๗๚
  243. ตัสมาทยัสยะ มะหาพาโห นิคฤหีตานิ สรรวะศะห์ ฯ
  244. อินทริยาณีนทริยารเถภยัสตัสยะ ปรัชญา ประติษฐิตา ๚๖๘๚
  245. ยา นิศา สรรวะภูตานาม ตัสยาม ชาครรติ สัมยะมี ฯ
  246. ยัสยาม ชาคระติ ภูตานิ สา นิศา ปัศยะโต มุเนห์ ๚๖๙๚
  247. อาปูรยะมาณะมะจะละประติษฐัม; สะมุทระมาปะห์ ประวิศันติ ยัทวัต ฯ
  248. ตัทวัตกามา ยัม ประวิศันติ สรรเว; สะ ศานติมาปโนติ นะ กามะกามี ๚๗๐๚
  249. วิหายะ กามานยะห์ สรรวานปุมามศจะระติ นิห์สปฤหะห์ ฯ
  250. นิรมะโม นิระหังการะห์ สะ ศานติมะธิคัจฉะติ ๚๗๑๚
  251. เอษา พราหมี สถิติห์ ปารถะ ไนนาม ปราปยะ วิมุหยะติ ฯ
  252. สถิตวาสยามันตะกาเล'ปิ พรหมะนิรวาณะมฤจฉะติ ๚๗๒๚
  253. ๒๕
  254. อรรชุนะ อุวาจะ๚
  255. ชยายะสี เจตกรรมะณัสเต มะตา พุทธิรชะนารทะนะ ฯ
  256. ตัตกิม กรรมะณิ โฆเร มาม นิโยชะยะสิ เกศะวะ ๚๑๚
  257. วยามิเศรไณวะ วากเยนะ พุทธิม โมหะยะสีวะ เม ฯ
  258. ตะเทกัม วะทะ นิศจิตยะ เยนะ เศรโย'หะมาปนุยาม ๚๒๚
  259. ศรีภะคะวานุวาจะ๚
  260. โลเก'สมินทวิวิธา นิษฐา ปุรา โปรกตา มะยานะฆะ ฯ
  261. ชญานะโยเคนะ สางขยานาม กรรมะโยเคนะ โยคินาม ๚๓๚
  262. นะ กรรมะณามะนารัมภานไนษกรรมยัม ปุรุโษ'ศนุเต ฯ
  263. นะ จะ สันนยะสะนาเทวะ สิทธิม สะมะธิคัจฉะติ ๚๔๚
  264. นะ หิ กัศจิตกษะณะมะปิ ชาตุ ติษฐัตยะกรรมะกฤต ฯ
  265. การยะเต หยะวะศะห์ กรรมะ สรรวะห์ ประกฤติไชรคุไณห์ ๚๕๚
  266. กรรเมนทริยาณิ สัมยัมยะ ยะ อาสเต มะนะสา สมะรัน ฯ
  267. อินทริยารถานวิมูฒาตมา มิถยาจาระห์ สะ อุจยะเต ๚๖๚
  268. ยัสตวินทริยาณิ มะนะสา นิยัมยาระภะเต'รชุนะ ฯ
  269. กรรเมนทริไยห์ กรรมะโยคะมะสักตะห์ สะ วิศิษยะเต ๚๗๚
  270. นิยะตัม กุรุ กรรมะ ตวัม กรรมะ ชยาโย หยะกรรมะณะห์ ฯ
  271. ศะรีระยาตราปิ จะ เต นะ ประสิธเยทะกรรมะณะห์ ๚๘๚
  272. ยัชญารถาตกรรมะโณ'นยะตระ โลโก'ยัม กรรมะพันธะนะห์ ฯ
  273. ตะทรรถัม กรรมะ เกานเตยะ มุกตะสังคะห์ สะมาจะระ ๚๙๚
  274. สะหะยัชญาห์ ประชาห์ สฤษฏวา ปุโรวาจะ ประชาปะติห์ ฯ
  275. อะเนนะ ประสะวิษยัธวะเมษะ โว'สตวิษฏะกามะธุก ๚๑๐๚
  276. เทวานภาวะยะตาเนนะ เต เทวา ภาวะยันตุ วะห์ ฯ
  277. ปะรัสปะรัม ภาวะยันตะห์ เศรยะห์ ปะระมะวาปสยะถะ ๚๑๑๚
  278. อิษฏานโภคานหิ โว เทวา ทาสยันเต ยัชญะภาวิตาห์ ฯ
  279. ไตรทัตตานะประทาไยภโย โย ภุงกเต สเตนะ เอวะ สะห์ ๚๑๒๚
  280. ยัชญะศิษฏาศินะห์ สันโต มุจยันเต สรรวะกิลพิไษห์ ฯ
  281. ภุญชะเต เต ตวะฆัม ปาปา เย ปะจันตยาตมะการะณาต ๚๑๓๚
  282. อันนาทภะวันติ ภูตานิ ปรรชันยาทันนะสัมภะวะห์ ฯ
  283. ยัชญาทภะวะติ ปรรชันโย ยัชญะห์ กรรมะสะมุทภะวะห์ ๚๑๔๚
  284. กรรมะ พรหโมทภะวัม วิทธิ พรหมากษะระสะมุทภะวัม ฯ
  285. ตัสมาตสรรวะคะตัม พรหมะ นิตยัม ยัชเญ ประติษฐิตัม ๚๑๕๚
  286. เอวัม ประวรรติตัม จะกรัม นานุวรรตะยะตีหะ ยะห์ ฯ
  287. อะฆายุรินทริยาราโม โมฆัม ปารถะ สะ ชีวะติ ๚๑๖๚
  288. ยัสตวาตมะระติเรวะ สยาทาตมะตฤปตัศจะ มานะวะห์ ฯ
  289. อาตมันเยวะ จะ สันตุษฏัสตัสยะ การยัม นะ วิทยะเต ๚๑๗๚
  290. ไนวะ ตัสยะ กฤเตนารโถ นากฤเตเนหะ กัศจะนะ ฯ
  291. นะ จาสยะ สรรวะภูเตษุ กัศจิทรรถะวยะปาศระยะห์ ๚๑๘๚
  292. ตัสมาทะสักตะห์ สะตะตัม การยัม กรรมะ สะมาจะระ ฯ
  293. อะสักโต หยาจะรันกรรมะ ปะระมาปโนติ ปูรุษะห์ ๚๑๙๚
  294. กรรมะไณวะ หิ สัมสิทธิมาสถิตา ชะนะกาทะยะห์ ฯ
  295. โลกะสังคระหะเมวาปิ สัมปัศยันกรรตุมรรหะสิ ๚๒๐๚
  296. ยัทยะทาจะระติ เศรษฐัสตัตตะเทเวตะโร ชะนะห์ ฯ
  297. สะ ยัตประมาณัม กุรุเต โลกัสตะทะนุวรรตะเต ๚๒๑๚
  298. นะ เม ปารถาสติ กรรตะวยัม ตริษุ โลเกษุ กิญจะนะ ฯ
  299. นานะวาปตะมะวาปตะวยัม วรรตะ เอวะ จะ กรรมะณิ ๚๒๒๚
  300. ยะทิ หยะหัม นะ วรรเตยัม ชาตุ กรรมัณยะตันทริตะห์ ฯ
  301. มะมะ วรรตมานุวรรตันเต มะนุษยาห์ ปารถะ สรรวะศะห์ ๚๒๓๚
  302. อุตสีเทยุริเม โลกา นะ กุรยาม กรรมะ เจทะหัม ฯ
  303. สังกะรัสยะ จะ กรรตา สยามุปะหันยามิมาห์ ประชาห์ ๚๒๔๚
  304. สักตาห์ กรรมัณยะวิทวามโส ยะถา กุรวันติ ภาระตะ ฯ
  305. กุรยาทวิทวามสตะถาสักตัศจิกีรษุรโลกะสังคระหัม ๚๒๕๚
  306. นะ พุทธิเภทัม ชะนะเยทัชญานาม กรรมะสังคินาม ฯ
  307. โชษะเยตสรรวะกรรมาณิ วิทวานยุกตะห์ สะมาจะรัน ๚๒๖๚
  308. ประกฤเตห์ กริยะมาณานิ คุไณห์ กรรมาณิ สรรวะศะห์ ฯ
  309. อะหังการะวิมูฒาตมา กรรตาหะมิติ มันยะเต ๚๒๗๚
  310. ตัตตวะวิตตุ มะหาพาโห คุณะกรรมะวิภาคะโยห์ ฯ
  311. คุณา คุเณษุ วรรตันตะ อิติ มัตวา นะ สัชชะเต ๚๒๘๚
  312. ประกฤเตรคุณะสัมมูฒาห์ สัชชันเต คุณะกรรมะสุ ฯ
  313. ตานะกฤตสนะวิโท มันทานกฤตสนะวินนะ วิจาละเยต ๚๒๙๚
  314. มะยิ สรรวาณิ กรรมาณิ สันนยัสยาธยาตมะเจตะสา ฯ
  315. นิราศีรนิรมะโม ภูตวา ยุธยัสวะ วิคะตัชวะระห์ ๚๓๐๚
  316. เย เม มะตะมิทัม นิตยะมะนุติษฐันติ มานะวาห์ ฯ
  317. ศรัทธาวันโต'นะสูยันโต มุจยันเต เต'ปิ กรรมะภิห์ ๚๓๑๚
  318. เย ตเวตะทัภยะสูยันโต นานุติษฐันติ เม มะตัม ฯ
  319. สรรวะชญานะวิมูฒามสตานวิทธิ นัษฏานะเจตะสะห์ ๚๓๒๚
  320. สะทฤศัม เจษฏะเต สวัสยาห์ ประกฤเตรชญานะวานะปิ ฯ
  321. ประกฤติม ยานติ ภูตานิ นิคระหะห์ กิม กะริษยะติ ๚๓๓๚
  322. อินทริยัสเยนทริยัสยารเถ ราคัทเวเษา วยะวัสถิเตา ฯ
  323. ตะโยรนะ วะศะมาคัจเฉตเตา หยัสยะ ปะริปันถิเนา ๚๓๔๚
  324. เศรยานสวะธรรโม วิคุณะห์ ปะระธรรมาตสวะนุษฐิตาต ฯ
  325. สวะธรรเม นิธะนัม เศรยะห์ ปะระธรรโม ภะยาวะหะห์ ๚๓๕๚
  326. อรรชุนะ อุวาจะ๚
  327. อะถะ เกนะ ประยุกโต'ยัม ปาปัม จะระติ ปูรุษะห์ ฯ
  328. อะนิจฉันนะปิ วารษเณยะ พะลาทิวะ นิโยชิตะห์ ๚๓๖๚
  329. ศรีภะคะวานุวาจะ๚
  330. กามะ เอษะ โกรธะ เอษะ ระโชคุณะสะมุทภะวะห์ ฯ
  331. มะหาศะโน มะหาปาปมา วิทธเยนะมิหะ ไวริณัม ๚๓๗๚
  332. ธูเมนาวริยะเต วหนิรยะถาทรรโศ มะเลนะ จะ ฯ
  333. ยะโถลเพนาวฤโต ครรภัสตะถา เตเนทะมาวฤตัม ๚๓๘๚
  334. อาวฤตัม ชญานะเมเตนะ ชญานิโน นิตยะไวริณา ฯ
  335. กามะรูเปณะ เกานเตยะ ทุษปูเรณานะเลนะ จะ ๚๓๙๚
  336. อินทริยาณิ มะโน พุทธิรัสยาธิษฐานะมุจยะเต ฯ
  337. เอไตรวิโมหะยัตเยษะ ชญานะมาวฤตยะ เทหินัม ๚๔๐๚
  338. ตัสมาตตวะมินทริยาณยาเทา นิยัมยะ ภะระตรรษะภะ ฯ
  339. ปาปมานัม ประชะหิหเยนัม ชญานะวิชญานะนาศะนัม ๚๔๑๚
  340. อินทริยาณิ ปะราณยาหุรินทริเยภยะห์ ปะรัม มะนะห์ ฯ
  341. มะนะสัสตุ ปะรา พุทธิรโย พุทเธห์ ปะระตัสตุ สะห์ ๚๔๒๚
  342. เอวัม พุทเธห์ ปะรัม พุทธวา สัมสตัภยาตมานะมาตมะนา ฯ
  343. ชะหิ ศะตรุม มะหาพาโห กามะรูปัม ทุราสะทัม ๚๔๓๚

Thai - Sanscritp เป็นผลงานของมหาวิทยาลัยเทคโนโลยีพระจอมเกล้าธนบุรี จัดทำโดย ธนกฤต พรหมศิริ

เป็นซอฟต์แวร์โอเพนซอร์ซ รหัสโปรแกรม อนุญาตให้ใช้ได้ตาม สัญญาอนุญาตของครีเอทีฟคอมมอนส์แบบ แสดงที่มา-ไม่ใช้เพื่อการค้า-อนุญาตแบบเดียวกัน 4.0 International Base on learnsanskrit.org/tools/sanscript & virtualvinodh.com/aksharamukha